Stotram - Sacred Scripture

Navaratna Malika Stotram

Navaratna Malika Stotram

Stotram
Unknown
10 Verses
110%

नवरत्न मालिका स्तोत्रम्

श्लोक 1

हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं

कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।

कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां

फालभूतिलकलोचनां मनसि भावयामि परदेवताम्

श्लोक 2

गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं

सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।

मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं

इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम्

॥ 1 ॥

श्लोक 3

स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां

हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।

वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां

मारवैरिसहचारिणीं मनसि भावयामि परदेवताम्

॥ 2 ॥

श्लोक 4

भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां

वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।

वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां

चारुचन्द्रविलोचनां मनसि भावयामि परदेवताम्

॥ 3 ॥

श्लोक 5

कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-

त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् ।

मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं

मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम्

॥ 4 ॥

श्लोक 6

वारणाननमयूरवाहमुखदाहवारणपयोधरां

चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् ।

कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां

वारणान्तमुखपारणां मनसि भावयामि परदेवताम्

॥ 5 ॥

श्लोक 7

पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां

पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् ।

पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां

पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम्

॥ 6 ॥

श्लोक 8

आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं

आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् ।

मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां

मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम्

॥ 7 ॥

श्लोक 9

कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं

चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् ।

वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां

कालिकामखिलनायिकां मनसि भावयामि परदेवताम्

॥ 8 ॥

श्लोक 10

नित्यमेव नियमेन जल्पतां – भुक्तिमुक्तिफलदामभीष्टदाम् ।

शङ्करेण रचितां सदा जपेन्नामरत्ननवरत्नमालिकाम्

॥ 9 ॥

श्लोक 11