Stotram - Sacred Scripture

Mooka Pancha Sathi 2

Mooka Pancha Sathi 2

Stotram
Unknown
103 Verses
110%

मूक पञ्च शति 2 - पादारविन्द शतकम्

महिम्नः पन्थानं मदनपरिपन्थिप्रणयिनि

प्रभुर्निर्णेतुं ते भवति यतमानोऽपि कतमः ।

तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो

विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥1॥

गलग्राही पौरन्दरपुरवनीपल्लवरुचां

धृतपाथम्यानामरुणमहसामादिमगुरुः ।

समिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि

प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥2॥

मरालीनां यानाभ्यसनकलनामूलगुरवे

दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे ।

तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे

जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥3॥

वहन्ती सैन्दूरीं सरणिमवनम्रामरपुऱी-

पुरन्ध्रीसीमन्ते कविकमलबालार्कसुषमा ।

त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी

विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥4॥

प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः

स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।

ययोः सान्ध्यां कान्तिं वहति सुषमाभिश्चरणयोः

तयोर्मे कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥5॥

ययोः पीठायन्ते विबुधमुकुटीनां पटलिका

ययोः सौधायन्ते स्वयमुदयभाजो भणितयः ।

ययोः दासायन्ते सरसिजभवाद्याश्चरणयोः

तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥6॥

नयन्ती सङ्कोचं सरसिजरुचं दिक्परिसरे

सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता ।

कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी

स्फुरन्ती कामाक्ष्याः चरणरुचिसन्ध्या विजयते ॥7॥

विरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं

पुरस्तादानम्रे पुरविजयिनि स्मेरवदने ।

वयस्येव प्रौढा शिथिलयति या प्रेमकलह-

प्ररोहं कामाक्ष्याः चरणयुगली सा विजयते ॥8॥

सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः

स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः ।

भृतं कान्त्यम्भोभिः विसृमरमरन्दैः सरसिजैः

विधत्ते कामाक्ष्याः चरणयुगलं बन्धुपदवीम् ॥9॥

रजःसंसर्गेऽपि स्थितमरजसामेव हृदये

परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् ।

अलभ्यं मन्दानां दधदपि सदा मन्दगतितां

विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलहरीम् ॥10॥

जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरैः

निषिदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।

जगत्त्राणं कर्तुं जननि मम कामाक्षि नियतं

तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥11॥

तुलाकोटिद्वन्द्वक्कणितभणिताभीतिवचसोः

विनम्रं कामाक्षी विसृमरमहःपाटलितयोः ।

क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः

पुनीयान्मूर्धानं पुरहरपुरन्ध्री चरणयोः ॥12॥

भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-

स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ ।

ययोर्लाक्षाबिन्दुस्फुरणधरणाद्ध्वर्जटिजटा-

कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥13॥

पवित्रीकुर्युर्नुः पदतलभुवः पाटलरुचः

परागास्ते पापप्रशमनधुरीणाः परशिवे ।

कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा

वलन्तो व्यातन्वन्त्यहमहमिकां माधवमुखाः ॥14॥

बलाकामालाभिर्नखरुचिमयीभिः परिवृते

विनम्रस्वर्नारीविकचकचकालाम्बुदकुले ।

स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद-

स्तटिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥15॥

सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं

निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।

कथङ्कारं मातः कथय पदपद्मस्तव सतां

नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥16॥

जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी-

विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा ।

मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा

तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥17॥

नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोत्पलमहः-

पयोधौ रिङ्खद्भिर्नखकिरणफेनैर्धवलिते ।

स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-

वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥18॥

शिवे पाशायेतामलघुनि तमःकूपकुहरे

दिनाधीशायेतां मम हृदयपाथोजविपिने ।

नभोमासायेतां सरसकवितारीतिसरिति

त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥19॥

निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः

समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।

शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे

त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥20॥

नमस्यासंसज्जन्नमुचिपरिपन्थिप्रणयिनी-

निसर्गप्रेङ्खोलत्कुरलकुलकालाहिशबले ।

नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां

प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥21॥

कदा दूरीकर्तुं कटुदुरितकाकोलजनितं

महान्तं सन्तापं मदनपरिपन्थिप्रियतमे ।

क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे

पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥22॥

ययोः सान्ध्यं रोचिः सततमरुणिम्ने स्पृहयते

ययोश्चान्द्री कान्तिः परिपतति दृष्ट्वा नखरुचिम् ।

ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं

म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥23॥

जगन्नेदं नेदं परमिति परित्यज्य यतिभिः

कुशाग्रीयस्वान्तैः कुशलधिषणैः शास्त्रसरणौ ।

गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते

गिरामैदम्पर्यं तव चरणपद्मं विजयते ॥24॥

कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां

दधानं वैशद्यं कलितरसमानन्दसुधया ।

अलङ्कारं भूमेर्मुनिजनमनश्चिन्मयमहा-

पयोधेरन्तस्स्थं तव चरणरत्नं मृगयते ॥25॥

मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहुः

दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः ।

विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः

क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥26॥

कवीनां चेतोवन्नखररुचिसम्पर्कि विबुध-

स्रवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः ।

दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं

मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् ॥27॥

सदा किं सम्पर्कात्प्रकृतिकठिनैर्नाकिमुकुटैः

तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।

विभिन्ते सम्मोहं शिशिरयति भक्तानपि दृशाम्

अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥28॥

पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे

पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।

प्रवालैरम्भोजैरपि च वनवासव्रतदशाः

सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥29॥

चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं

निरस्यन्ती जाड्यं नियतजडमध्यैकशरणम् ।

अदोषव्यासङ्गा सततमपि दोषाप्तिमलिनं

पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥30॥

सुराणामानन्दप्रबलनतया मण्डनतया

नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया ।

पयोजश्रीद्वेषव्रतरततया त्वच्चरणयोः

विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥31॥

सितिम्ना कान्तीनां नखरजनुषां पादनलिन-

च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने ।

लभन्ते मन्दारग्रथितनवबन्धूककुसुम-

स्रजां सामीचीन्यं सुरपुरपुरन्ध्रीकचभराः ॥32॥

स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां

वहन्नब्जं चक्रं दरमपि च लेखात्मकतया ।

श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां

त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥33॥

नखश्रीसन्नद्धस्तबकनिचितः स्वैश्च किरणैः

पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।

सतां गम्यः शङ्के सकलफलदाता सुरतरुः

त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥34॥

वषट्कुर्वन्माञ्जीरकलकलैः कर्मलहरी-

हवींषि प्रौद्दण्डं ज्वलति परमज्ञानदहने ।

महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां

मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥35॥

महामन्त्रं किञ्चिन्मणिकटकनादैर्मृदु जपन्

क्षिपन्दिक्षु स्वच्छं नखरुचिमयं भास्मनरजः ।

नतानां कामाक्षि प्रकृतिपटुरच्चाट्य ममता-

पिशाचीं पादोऽयं प्रकटयति ते मान्त्रिकदशाम् ॥36॥

उदीते बोधेन्दौ तमसि नितरां जग्मुषि दशां

दरिद्रां कामाक्षि प्रकटमनुरागं विदधती ।

सितेनाच्छाद्याङ्गं नखरुचिपटेनाङ्घ्रियुगली-

पुरन्ध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥37॥

दिनारम्भः सम्पन्नलिनविपिनानामभिनवो

विकासो वासन्तः सुकविपिकलोकस्य नियतः ।

प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-

श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥38॥

धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं

निधानं दीप्तीनां निखिलजगतां बोधजनकम् ।

मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं

पदं ते पातङ्गीं परिकलयते पर्वतसुते ॥39॥

शनैस्तीर्त्वा मोहाम्बुधिमथ समारोढुमनसः

क्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् ।

लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं

पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥40॥

प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि-

त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् ।

प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण-

प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥41॥

मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता

सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा ।

गुणोत्कर्षान्माञ्जीरककलकलैस्तर्जनपटुः

प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥42॥

जगद्रक्षादक्षा जलजरुचिशिक्षापटुतरा

समैर्नम्या रम्या सततमभिगम्या बुधजनैः ।

द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-

तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥43॥

गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग-

त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ ।

नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-

ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥44॥

अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं

निरस्यन्कामाक्षि प्रणमनजुषां पङ्कमखिलम् ।

तुलाकोटिद्वन्दं दधदपि च गच्छन्नतुलतां

गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥45॥

प्रवालं सव्रीलं विपिनविवरे वेपयति या

स्फुरल्लीलं बालातपमधिकबालं वदति या ।

रुचिं सान्ध्यां वन्ध्यां विरचयति या वर्धयतु सा

शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥46॥

किरञ्ज्योत्स्नारीतिं नखमुखरुचा हंसमनसां

वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः ।

प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते

शरत्कालप्रौढिं शशिशकलचूडप्रियतमे ॥47॥

नखाङ्कूरस्मेरद्युतिविमलगङ्गाम्भसि सुखं

कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।

उदञ्चन्मञ्जीरस्फुरणमणिदीपे मम मनो

मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥48॥

भवाम्भोधौ नौकां जडिमविपिने पावकशिखा-

ममर्त्येन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् ।

जगत्तापे ज्योत्स्नामकृतकवचःपञ्जरपुटे

शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥49॥

परत्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां

मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते ।

यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां

विधातुं चेष्ठन्ते बलरिपुवधूटीकचभराः ॥50॥

अविश्रान्तं तिष्ठन्नकृतकवचःकन्दरपुटी-

कुटीरान्तः प्रौढं नखरुचिसटालीं प्रकटयन् ।

प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा

तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ॥51॥

पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी-

पुरन्ध्रीणां लास्यं तव ललितमालोक्य शनकैः ।

नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै-

श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥52॥

सरोजं निन्दन्ती नखकिरणकर्पूरशिशिरा

निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः ।

स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये

तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥53॥

नतानां सम्पत्तेरनवरतमाकर्षणजपः

प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः ।

त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः

पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥54॥

वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया

पदाम्भोजन्यासं पशुपरिबृढप्राणदयिते ।

पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं

दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥55॥

प्रणामोद्यद्बृन्दारमुकुटमन्दारकलिका-

विलोलल्लोलम्बप्रकरमयधूमप्रचुरिमा ।

प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी-

कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥56॥

वलक्षश्रीरृक्षाधिपशिशुसदृक्षैस्तव नखैः

जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे ।

क्षणान्मे कामाक्षि क्षपितभवसङ्क्षोभगरिमा

वचोवैचक्षन्यं चरणयुगली पक्ष्मलयतात् ॥57॥

समन्तात्कामाक्षि क्षततिमिरसन्तानसुभगान्

अनन्ताभिर्भाभिर्दिनमनु दिगन्तान्विरचयन् ।

अहन्ताया हन्ता मम जडिमदन्तावलहरिः

विभिन्तां सन्तापं तव चरणचिन्तामणिरसौ ॥58॥

दधानो भास्वत्ताममृतनिलयो लोहितवपुः

विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।

गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां

तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥59॥

नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ-

प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम् ।

जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो-

र्धुरीणामीष्टे करस्तव भणितुमाहोपुरुषिकाम् ॥60॥

जनोऽयं सन्तप्तो जननि भवचण्डांशुकिरणैः

अलब्धवैकं शीतं कणमपि परज्ञानपयसः ।

तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां

पदाम्भोजच्छायां परमशिवजाये मृगयते ॥61॥

जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं

वितानं बिभ्राणे सुरमुकुटसङ्घट्टमसृणे ।

निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा

बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥62॥

प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण-

श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये ।

सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं

धुनीते दिग्भागानपि च महसा पाटलयते ॥63॥

महाभाष्यव्याख्यापटुशयनमारोपयति वा

स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा ।

द्विरेफाणामध्यासयति सततं वाधिवसतिं

प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥64॥

विवेकाम्भस्स्रोतस्स्नपनपरिपाटीशिशिरिते

समीभूते शास्त्रस्मरणहलसङ्कर्षणवशात् ।

सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो

महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥65॥

दधानो मन्दारस्तबकपरिपाटीं नखरुचा

वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् ।

अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो

विकासी वासन्तः समय इव ते शर्वदयिते ॥66॥

नखांशुप्राचुर्यप्रसृमरमरालालिधवलः

स्फुरन्मञ्जीरोद्यन्मरकतमहश्शैवलयुतः ।

भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो

नदः शोणाभिख्यो नगपतितनूजे विजयते ॥67॥

धुनानं पङ्कौघं परमसुलभं कण्टककुलैः

विकासव्यासङ्गं विदधदपराधीनमनिशम् ।

नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितराम्

असामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥68॥

करीन्द्राय द्रुह्यत्यलसगतिलीलासु विमलैः

पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।

पदाम्भोजद्वन्द्वं तव तदपि कामाक्षि हृदयं

मुनीनां शान्तानां कथमनिशमस्मै स्पृहयते ॥69॥

निरस्ता शोणिम्ना चरणकिरणानां तव शिवे

समिन्धाना सन्ध्यारुचिरचलराजन्यतनये ।

असामर्थ्यादेनं परिभवितुमेतत्समरुचां

सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥70॥

उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ

मरालानां शङ्के मसृणगतिलालित्यसरणौ ।

अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं

प्रपन्नं पाथोजं प्रति दधति कामाक्षि कुतुकम् ॥71॥

दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलैः

द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् ।

रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयोः

विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥72॥

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ

विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।

मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ

मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥73॥

परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः

नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः ।

निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः

निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥74॥

स्वभावादन्योन्यं किसलयमपीदं तव पदं

म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।

वने पूर्वस्येच्छा सततमवने किं तु जगतां

परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥75॥

कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः

सदैवानन्दार्द्रान्विरचयति वाचंयमजनान् ।

प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो

मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥76॥

चलत्तृष्णावीचीपरिचलनपर्याकुलतया

मुहुर्भ्रान्तस्तान्तः परमशिववामाक्षि परवान् ।

तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं

कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥77॥

विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय-

प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।

त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा

नभोमासाटोपं नगपतिसुते किं न कुरुते ॥78॥

विनम्राणां चेतोभवनवलभीसीम्नि चरण-

प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।

असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी

विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥79॥

विराजन्ती शुक्तिर्नखकिरणमुक्तामणिततेः

विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् ।

त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने

मुनीनां ज्ञानाग्नेररणिरयमङ्घिर्विजयते ॥80॥

समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः

स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः ।

भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो-

बलद्रोही मातश्चरणपुरुहूतो विजयते ॥81॥

वसन्तं भक्तानामपि मनसि नित्यं परिलसद्-

घनच्छायापूर्णं शुचिमपि नृणां तापशमनम् ।

नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं

नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥82॥

कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः-

प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः ।

अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः

नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥83॥

भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां

परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः ।

नतानामामृष्टे हृदयमुकुरे निर्मलरुचि

प्रसन्ने निश्शेषं प्रतिफलति विश्वं गिरिसुते ॥84॥

तव त्रस्तं पादात्किसलयमरण्यान्तरमगात्

परं रेखारूपं कमलममुमेवाश्रितमभूत् ।

जितानां कामाक्षि द्वितयमपि युक्तं परिभवे

विदेशे वासो वा शरणगमनं वा निजरिपोः ॥85॥

गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा-

कटाक्षर्कज्योतिश्शमितममताबन्धतमसः ।

यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं

त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥86॥

जडानामप्यम्ब स्मरणसमये तवच्चरणयोः

भ्रमन्मन्थक्ष्माभृद्धुमुघुमितसिन्धुप्रतिभटाः ।

प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकरा

भवन्ति स्वच्छन्दं प्रकृतिपरिपक्का भणितयः ॥87॥

वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ

तमेवाधः कर्तुं किमिव यतते केलिगमने ।

भवस्यैवानन्दं विदधदपि कामाक्षि चरणो

भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते ॥88॥

यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे

तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।

किरीटैः सङ्घट्टं कथमिव सुरौघस्य सहते

मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥89॥

मनोरङ्गे मत्के विबुधजनसम्मोदजननी

सरागव्यासङ्गं सरसमृदुसञ्चारसुभगा ।

मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं

रणन्मञ्जीरा ते चरणयुगलीनर्तकवधूः ॥90॥

परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट्

पराचां हृत्पद्मं परमभणितीनां च मकुटम् ।

भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-

पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥91॥

प्रसूनैः सम्पर्कादमरतरुणीकुन्तलभवैः

अभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।

स्वसङ्गात्कङ्केलिप्रसवजनकत्वेन च शिवे

त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते ॥92॥

महामोहस्तेनव्यतिकरभयात्पालयति यो

विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।

स रागस्योद्रेकात्सततमपि कामाक्षि तरसा

किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥93॥

सदा स्वादुङ्कारं विषयलहरीशालिकणिकां

समास्वाद्य श्रान्तं हृदयशुकपोतं जननि मे ।

कृपाजाले फालेक्षणमहिषि कामाक्षि रभसात्

गृहीत्वा रुन्धीथारस्तव पदयुगीपञ्जरपुटे ॥94॥

धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-

ज्वरप्रौढिं गूढस्थिति निगमनैकुञ्जकुहरे ।

अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिनः

चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥95॥

रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां

मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा ।

निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं

नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥96॥

सुरागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते

चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा ।

मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते

प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥97॥

शिवे संविद्रूपे शशिशकलचूडप्रियतमे

शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते ।

यतन्ते सन्तस्ते चरणनलिनालानयुगले

सदा बद्धं चित्तप्रमदकरियूथं दृढतरम् ॥98॥

यशः सूते मातर्मधुरकवितां पक्ष्मलयते

श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते ।

सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते

प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥99॥

मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां

प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः ।

यदीये सम्पर्के धृतरसमरन्दा कवयतां

परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥100॥

पुरा मारारातिः पुरमजयदम्ब स्तवशतैः

प्रसन्नायां सत्यां त्वयि तुहिनशैलेन्द्रतनये ।

अतस्ते कामाक्षि स्फुरतु तरसा कालसमये

समायाते मातर्मम मनसि पादाब्जयुगलम् ॥101॥

पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां

गिरामन्ते भ्रान्तं कृतकरहितानां परिबृढे ।

जनानामानन्दं जननि जनयन्तं प्रणमतां

त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥102॥

इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं

जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् ।

स विश्वेषां वन्द्यः सकलकविलोकैकतिलकः

चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥103॥

॥ इति पादारविन्दशतकं सम्पूर्णम् ॥

About This Stotram

Overview

Mooka Pancha Sathi 2 — Padaravinda Satakam is the second section of the Mooka Pancha Sathi, a five-hundred-verse Sanskrit collection dedicated to Goddess Kamakshi of Kanchipuram. This section contains 103 verses centered on the lotus feet (padaravinda) of the Goddess, framing devotion as surrender at her feet. The collection is traditionally attributed to Adi Shankaracharya and belongs to the Advaita Vedanta and South Indian Shakta traditions.

What are the benefits of chanting Mooka Pancha Sathi 2?

  • Deepens the practice of surrender and refuge at the Goddess's feet
  • Cultivates devotion within the Shakta Advaita tradition
  • Invokes the grace of Goddess Kamakshi
  • Supports the removal of obstacles through focused meditation on the deity

When is the best time to recite this?

Morning and evening recitation are standard. Navaratri and occasions dedicated to Goddess Kamakshi at the Kanchipuram temple are especially auspicious.

What is the historical and traditional background?

The Mooka Pancha Sathi is attributed to Adi Shankaracharya, the 8th–9th century CE philosopher and founder of Advaita Vedanta, though this attribution has been debated among scholars. The collection reflects the integration of Advaita philosophical concepts with Shakta devotional practice characteristic of Shankaracharya's broader works. Kanchipuram is one of the seven sacred cities (sapta puri) in the Hindu tradition, and its Kamakshi temple has been a center of goddess worship for many centuries. The Padaravinda Satakam's focus on the feet of the Goddess is consistent with the devotional emphasis on surrender (prapatti) in South Indian Vaishnavism and Shaivism.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Mooka Pancha Sathi 1 — Arya Satakam — the first section of the same collection, serving as the opening invocation to Goddess Kamakshi
  • Soundarya Lahari — another work attributed to Adi Shankaracharya praising the Goddess's form in the same Shakta Advaita framework