Mooka Pancha Sathi 5
Mooka Pancha Sathi 5
मूक पञ्च शति 5 - मन्दस्मित शतकम्
बध्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां
कन्दर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या घनसारपुञ्जरजसे कामद्रुहश्चक्षुषां
मन्दारस्तबकप्रभामदमुषे मन्दस्मितज्योतिषे ॥1॥
सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विषे ।
स्वर्धुन्या सह युध्वेन हिमरुचेरर्धासनाध्यासिने
कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥2॥
कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती
दौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् ।
क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यञ्जती
कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥3॥
या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते
या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्नाप्ररोहायते ।
या सौन्दर्यधुनीतरङ्गततिषु व्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥4॥
येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा
येषां सन्ततमारुरुक्षति तुलाकक्ष्यां शरच्चन्द्रमाः ।
येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां
कामाक्ष्या ममतां हरन्तु मम ते हासत्विषामङ्कुराः ॥5॥
आशासीमसु सन्ततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती ।
ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष-
क्लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम् ॥6॥
आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
कन्दर्पस्य विभोर्जगत्त्रयप्राकट्यमुद्रानिधेः ।
यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चञ्चला
सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥7॥
शम्भोर्या परिरम्भसम्भ्रमविधौ नैर्मल्यसीमानिधिः
गैर्वाणीव तरङ्गिणी कृतमृदुस्यन्दां कलिन्दात्मजाम् ।
कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनीं
कामाक्ष्याः स्मितकन्दली भवतु नः कल्याणसन्दोहिनी ॥8॥
जेतुं हारलतामिव स्तनतटीं सञ्जग्मुषी सन्ततं
गन्तुं निर्मलतामिव द्विगुणितां मग्ना कृपास्त्रोतसि ।
लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती
मञ्जुस्ते स्मितमञ्जरी भवभयं मथ्नातु कामाक्षि मे ॥9॥
श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः सन्धुक्षयन्ती सदा ।
स्वाभाव्यादधराश्रितापि नमतामुच्चैर्दिशन्ती गतिं
कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा ॥10॥
वक्त्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते
कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम् ।
निर्निद्रामलपुण्डरीककुहनापाण्डित्यमाबिभ्रती
कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत् ॥11॥
नित्यं बाधितबन्धुजीवमधरं मैत्रीजुषं पल्लवैः
शुद्धस्य द्विजमण्डलस्य च तिरस्कर्तारमप्याश्रिता ।
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासप्रभा ॥12॥
द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती
यान्ती चन्द्रकिशोरशेखरवपुःसौधाङ्गणे प्रेङ्खणम् ।
ज्ञानाम्भोनिधिवीचिकां सुमनसां कूलङ्कषां कुर्वती
कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥13॥
काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती
हंसौधैरिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः ।
वक्षोजन्मतुषारशैलकटके सञ्चारमातन्वती
कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥14॥
कम्बोर्वंशपरम्परा इव कृपासन्तानवल्लीभुवः
सम्फुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव ।
वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव
भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥15॥
वक्षोजे घनसारपत्ररचनाभङ्गीसपत्नायिता
कण्ठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्खत्प्रसूनायिता
कामाक्षि स्फुरतां मदीयहृदये त्वन्मन्दहासप्रभा ॥16॥
येषां बिन्दुरिवोपरि प्रचलितो नासाग्रमुक्तामणिः
येषां दीन इवाधिकण्ठमयते हारः करालम्बनम् ।
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं
कामाक्ष्याः प्रभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥17॥
या जाड्याम्बुनिधिं क्षिणोति भजतां वैरायते कैरवैः
नित्यं यां नियमेन या च यतते कर्तुं त्रिणेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
कामाक्षि स्मितमञ्जरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ॥18॥
आरुढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् ।
ओष्ठौ वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥19॥
वक्त्रेन्दोस्तव चन्द्रिका स्मितततिर्वल्गु स्फुरन्ती सतां
स्याच्चेद्युक्तिमिदं चकोरमनसां कामाक्षि कौतूहलम् ।
एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते
बिम्बोष्ठद्युमणिप्रभास्वपि च यद्बिब्बोकमालम्बते ॥20॥
सादृश्यं कलशाम्बुधेर्वहति यत्कामाक्षि मन्दस्मितं
शोभामोष्ठरुचाम्ब विद्रुमभवामेताद्भिदां ब्रूमहे ।
एकस्मादुदितं पुरा किल पपौ शर्वः पुराणः पुमान्
एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ॥21॥
उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमलाः ।
सन्ध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥22॥
क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः ।
किं चेयं तु भिदास्ति दोहनवशादेकं तु सञ्जायते
कामाक्षि स्वयमर्थितं प्रणमतामन्यत्तु दोदुह्यते ॥23॥
कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चन्द्रातपैः
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनैः
तत्तादृङ्मम तापशान्तिविधये किं देवि मन्दायते ॥24॥
मध्येगर्भितमञ्जुवाक्यलहरीमाध्वीझरीशीतला
मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा ।
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते ॥25॥
बिम्बोष्ठद्युतिपुञ्जरञ्जितरुचिस्त्वन्मन्दहासच्छटा ।
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥26॥
बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो
कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् ।
आश्चर्यं शिशिरीकरोति जगतीश्चालोक्य चैनामहो
कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥27॥
प्रेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं
वक्त्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् ।
नैरन्तर्यविजृम्भितस्तनतटे नैचोलपट्टायितं
कालुष्यं कबलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥28॥
पीयूषं तव मन्थरस्मितमिति व्यर्थैव सापप्रथा
कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मन्दारस्य कथालवं न सहते मथ्नाति मन्दाकिनी-
मिन्दुं निन्दति कीर्तितेऽपि कलशीपाथोधिमीर्ष्यायते ॥29॥
विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा
विख्यातो मदनान्तकेन मुकुटीमध्ये च सम्मान्यताम् ।
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥30॥
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः ।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥31॥
कर्मौघाख्यतमःकचाकचिकरान्कामाक्षि सञ्चिन्तये
त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमङ्करानङ्कुरान् ।
ये वक्त्रं शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह-
द्वेषोद्धेषोणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥32॥
कुर्युर्नः कुलशैलराजतनये कूलङ्कषं मङ्गलं
कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः ।
ये कामाक्षि समस्तसाक्षिनयनं सन्तोषयन्तीश्वरं
कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥33॥
कम्रेण स्नपयस्व कर्मकुहनाचोरेण मारागम-
व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा ।
कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुञ्चुना
कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥34॥
त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे
बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः ।
किञ्च क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका-
बिब्वोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः ॥35॥
दुष्कर्मार्कनिसर्गकर्कशमहस्सम्पर्कतपतं मिल-
त्पङ्कं शङ्करवल्लभे मम मनः काञ्चीपुरालङ्क्रिये ।
अम्ब त्वन्मृदुलस्मितामृतरसे मङ्क्त्वा विधूय व्यथा-
मानन्दोदयसौधशृङ्गपदवीमारोढुमाकाङ्क्षति ॥36॥
नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वरया विपत्प्रशमेन कारुण्यधाराः किरन् ।
आगच्छन्तमनुग्रहं प्रकटयन्नानन्दबीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥37॥
कामाक्षि प्रथमानविभ्रमनिधिः कन्दर्पदर्पप्रसूः
मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् ।
यं द्रष्टुं विहिते करग्रह उमे शम्भुस्त्रपामीलितं
स्वैरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥38॥
क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः
कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रुष्टुमशक्यमेव मनसा मूढसय मे मौक्तिकं
मार्गं दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥39॥
ज्योत्स्नाकान्तिभिरेव निर्मलतरं नैशाकरं मण्डलं
हंसैरेव शरद्विलाससमये व्याकोचमम्भोरुहम् ।
स्वच्छैरेव विकस्वरैरुडुगुणैः कामाक्षि बिम्बं दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥40॥
मानग्रन्थिविधुन्तुदेन रभसादास्वाद्यमाने नव-
प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् ।
आलोक्य स्मितचन्द्रिकां पुनरिमामुन्मीलनं जग्मुषीं
चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥41॥
कामाक्षि स्मितमञ्जरीं तव भजे यस्यास्त्विषामङ्कुरा-
नापीनस्तनपानलालसतया निश्शङ्कमङ्केशयः ।
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुण्डया
सूनुसुते बिसशङ्कयाशु कुहनादन्तावलग्रामणीः ॥42॥
गाढाश्लेषविमर्दसम्भ्रमवशादुद्दाममुक्तागुण-
प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि ।
या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा मे खेलतु कामकोटि हृदये सान्द्रस्मितांशुच्छटा ॥43॥
मन्दारे तव मन्थरस्मितरुचां मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतो रागोदयो लक्ष्यते ।
चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते
शुद्धानां कथमीदृशी गिरिसुतेऽतिशुद्धा दशा कथ्यताम् ॥44॥
पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते
माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते ।
शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी
कामाक्षि स्मितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥45॥
आशङ्के तव मन्दहासलहरीमन्यादृशीं चन्द्रिका-
मेकाम्रेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासङ्गमे ।
वक्षोजाम्बुरुहे न ते रचयतः काञ्चिद्दशां कौङ्मली-
मास्याम्भोरुहमम्ब किञ्च शनकैरालम्बते फुल्लताम् ॥46॥
आस्तीर्णाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी
मारद्रोहिणि कन्दलत्स्मरशरज्वालावलीर्व्यञ्जती ।
निन्दन्ती घनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥47॥
सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तम-
स्सन्दोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी ।
निर्यान्ती वदनारविन्दकुहरान्निर्धूतजाड्या नृणां
श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका ॥48॥
कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं
श्रीकामाक्षि शिवङ्करास्तव शिवे श्रीमन्दहासाङ्कुराः ।
ये तन्वन्ति निरन्तरं तरुणिमस्तम्बेरमग्रामणी-
कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥49॥
प्रेङ्खन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता
मज्जन्तो मन्दनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् ।
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
नीलाम्भोधरनैपुणीं तत इतो निर्निद्रयन्त्यञ्जसा ॥50॥
व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती
रुद्राक्षग्रहणं महेशि सततं वागूर्मिकल्लोलिता ।
उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा
श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥51॥
कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं
श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते ।
आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति
प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥52॥
वैशद्येन च विश्वतापहरणक्रीडापटीयस्तया
पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादेन ।
कामाक्षि स्मितकन्दलैस्तव तुलामारोढुमुद्योगिनी
ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥53॥
लावण्याम्बुजिनीमृणालवलयैः शृङ्गारगन्धद्विप-
ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यतेजोङ्कुरैः ।
आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम् ॥54॥
उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा-
चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती ।
या वैदग्ध्यमुपैति शङ्करजटाकान्तारवाटीपत-
त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मञ्जुला ॥55॥
सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै-
रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् ।
प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तव मम क्षेमङ्करी कल्पताम् ॥56॥
धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो
लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः ।
जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥57॥
यन्नाकम्पत कालकूटकबलीकारे चुचुम्बे न यद्-
ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् ।
चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते
तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् ॥58॥
सम्भिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः
सम्मिश्रेव शशाङ्कदीप्तिलहरी नीलैर्महानीरदैः ।
कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिना
कालिम्ना कचरोचिषां व्यतिकरे काञ्चिद्दशामश्नुते ॥59॥
जानीमो जगदीश्वरप्रणयिनि त्वन्मन्दहासप्रभां
श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा ।
आस्येन्दोरवलोकेन पशुपतेरभ्येति सम्फुल्लतां
तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥60॥
यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः
भान्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी ।
बिम्बोष्ठद्युतिपुञ्जचुम्बनकलाशोणायमानेन ते
कामाक्षि स्मितरोचिषा समदशामारोढुमाकाङ्क्षते ॥61॥
श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं
नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् ।
शीतं देवि तथा यथा हिमजलं सन्तापमुद्रास्पदं
श्वेतं किञ्च तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥62॥
त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं
सन्तः सन्ततमामनन्त्यमलता तल्लक्षणं लक्ष्यते ।
अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यन्तरं
ध्वान्तं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे ॥63॥
नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः
मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते ।
बन्धूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं
बिम्बोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते ॥64॥
मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी
भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती ।
उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥65॥
श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं
पश्यन्तोऽपि निरन्तरं सुविमलम्मन्या जगन्मण्डले ।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
मन्दाक्षं विरहय्य मङ्गलतरं मन्दारचन्द्रादयः ॥66॥
क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च
श्रीकामाक्षि वलक्षिमोदयनिधेः किञ्चिद्भिदां ब्रूमहे ।
एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥67॥
श्रीकाञ्चीपुररत्नदीपकलिके तान्येव मेनात्मजे
चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे ।
कम्पातीरकुटुम्बचङ्क्रमकलाचुञ्चूनि चञ्चूपुटैः
नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते ॥68॥
शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन्
नैर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् ।
लीलालापपुरस्सरोऽपि सततं वाचंयमान्प्रीणयन्
कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥69॥
श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं
भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् ।
यद्वैदग्ध्यमुखेन मन्मथरिपुं सम्मोहयन्त्यञ्जसा
श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे ॥70॥
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्प्ररोहे तव
स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि ।
चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका
शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥71॥
ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्तिं विना
त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना ।
सन्तापो विनिवार्यते नववयःप्राचुर्यमङ्कूर्यते
सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च सञ्चार्यते ॥72॥
वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव सन्धुक्ष्यते
ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव सम्पद्यते ।
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥73॥
प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः
श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् ।
यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका-
गर्भे मौक्तिकमण्डली च सरसीमध्ये मृणाली च सा ॥74॥
हेरम्बे च गुहे हर्षभरितं वात्सल्यमङ्कूरयत्
मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयत् ।
आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत्
कामाक्षि स्मितमञ्जसा तव कथङ्कारं मया कथ्यते ॥75॥
सङ्क्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः सङ्गमं
वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन् ।
अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं
श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् ॥76॥
श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरप्रक्रममं
नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् ।
तत्तादृक्तव मन्दहासमहिमा मातः कथं मानितां
तन्मूर्ध्ना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥77॥
ये माधुर्यविहारमण्टपभुवो ये शैत्यमुद्राकरा
ये वैशद्यदशाविशेषसुभगास्ते मन्दहासाङ्कुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥78॥
कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षान्तके वीक्षणे
मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः ।
दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्षु मे
सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥79॥
जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते
गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् ।
एनःपङ्कपरम्परामलिनितामेकाम्रनाथप्रिये
प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥80॥
अश्रान्तं परतन्त्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः
श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे ।
इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः
वैकुण्ठैरवकुण्ठनं च कुरुते धूलीचयैर्भास्मनैः ॥81॥
श्रीकाञ्चीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् ।
मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे
श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति ॥82॥
किं त्रैस्रोतसमम्बिके परिणतं स्रोतश्चतुर्थं नवं
पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः ।
किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः
श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥83॥
भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती
नीवी विभ्रमसन्ततेः पशुपतेः सौधी दृशां पारणा ।
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता
श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी ॥84॥
सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः ।
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥85॥
जन्तूनां जनिदुःखमृत्युलहरीसन्तापनं कृन्ततः
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः ।
श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा-
दालोकेन निहन्युरन्धतमसस्तोमस्य मे सन्ततिम् ॥86॥
उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी-
रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी ।
श्रीकामाक्षि तव स्मितद्युतिततिर्बिम्बोष्ठकान्त्यङ्कुरैः
चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् ॥87॥
स्वाभाव्यात्तव वक्त्रमेव ललितं सन्तोषसम्पादनं
शम्भोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम् ।
अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियम्भावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते ॥88॥
पुम्भिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां
लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभन्तेतराम् ।
सूक्तिं पक्ष्मलयन्ति निर्मलतमां यत्तावकाः सेवकाः
तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥89॥
आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय-
न्निन्दुं किञ्च विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् ।
हिंसत्संसृतिडम्बरं तव शिवे हासाह्वयो मान्त्रिकः
श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् ॥90॥
क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पस्मित-
ज्योतिर्मण्डलचङ्क्रमास्तव शिवे कामाक्षि रोचिष्णवः ।
पीडाकर्मठकर्मघर्मसमयव्यापारतापानल-
श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥91॥
श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिम्फूर्जति
प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् ।
दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते
सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् ॥92॥
मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कतया विशङ्क्य बहुशो वैशद्यमुद्रागुणः ।
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥93॥
इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल-
प्रौढिम्ना बहुलीकृते निपतितं सन्तापचिन्ताकुलम् ।
मातर्मां परिषिञ्च किञ्चिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ॥94॥
भाषाया रसनाग्रखेलनजुषः शृङ्गारमुद्रासखी-
लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे ।
श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी
गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥95॥
सन्तापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरन्तर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं
प्रेमेन्दुः प्रतिबिम्बितो वितनुते कौतूहलं धूर्जटेः ॥96॥
चेतःक्षीरपयोधिमन्थरचलद्रागाख्यमन्थाचल-
क्षोभव्यापृतिसम्भवां जननि ते मन्दस्मितश्रीसुधाम् ।
स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शाङ्करी
श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥97॥
आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल-
प्रेङ्खन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः ।
काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका
तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥98॥
सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहुः
माधुर्यागमसम्प्रदायमथवा सूक्तेर्नु मन्दस्मितम् ।
इत्थं कामपि गाहते मम मनः सन्देहमार्गभ्रमिं
श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥99॥
क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे ।
निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥100॥
आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम्
आरोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् ॥101॥
॥ इति मन्दस्मितशतकं सम्पूर्णम् ॥
॥ इति श्री मूकपञ्चशती सम्पूर्णा ॥
॥औं तत् सत् ॥
About This Stotram
Overview
Mooka Pancha Sathi 5 — Mandasmita Satakam is the fifth and final section of the Mooka Pancha Sathi, a five-hundred-verse Sanskrit collection dedicated to Goddess Kamakshi. This section contains 101 verses meditating on the gentle smile (mandasmita) of the Goddess as an expression of her benevolent and compassionate nature. The collection is attributed to Adi Shankaracharya and belongs to the Shakta Advaita tradition of South India.
What are the benefits of chanting Mooka Pancha Sathi 5?
- Invokes the Goddess's compassion and benevolent grace
- Supports devotional meditation on the deity's serene form
- Cultivates peace and inner well-being through Shakta practice
- Completes the full devotional cycle of the Mooka Pancha Sathi
When is the best time to recite this?
Morning and evening recitation are standard. Navaratri and occasions dedicated to Goddess Kamakshi at the Kanchipuram temple are especially auspicious. The Mandasmita Satakam is also recited as part of sequential recitation of the complete Mooka Pancha Sathi.
What is the historical and traditional background?
The Mooka Pancha Sathi is attributed to Adi Shankaracharya, who is traditionally placed in the 8th century CE. The legend underlying the collection's name — "five hundred verses of the mute" — describes a mute devotee at Kanchipuram who was inspired by the Goddess to compose these hymns. Shankaracharya is said to have heard the compositions and attributed them to the Goddess's grace. As the concluding section, the Mandasmita Satakam focuses on the Goddess's gentle smile as a symbol of her grace and accessibility to devotees, consistent with the theological emphasis on Kamakshi (she whose eyes are full of desire/love) as a compassionate deity.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Mooka Pancha Sathi 1 — Arya Satakam — the opening section of the same collection, establishing the invocative context for the full five-hundred-verse work
- Soundarya Lahari — another text attributed to Adi Shankaracharya in the same Shakta Advaita tradition, praising the Goddess's form
