Stotram - Sacred Scripture

Mooka Pancha Sathi 1

Mooka Pancha Sathi 1

Stotram
Unknown
101 Verses
110%

मूक पञ्च शति 1 - आर्य शतकम्

कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता ।

काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥1॥

कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् ।

कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥2॥

चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे ।

चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥3॥

कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् ।

कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥4॥

पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।

काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥5॥

परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ।

परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ॥6॥

ऐश्वर्यमिन्दुमौलेरैकत्म्यप्रकृति काञ्चिमध्यगतम् ।

ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥7॥

श्रितकम्पसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।

कलये पटलिमानं कञ्चन कञ्चुकितभुवनभूमानम् ॥8॥

आदृतकाञ्चीनिलयमाद्यामारूढयौवनाटोपाम् ।

आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥9॥

तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।

गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥10॥

काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् ।

परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥11॥

कम्पातीचराणां करुणाकोरकितदृष्टिपातानाम् ।

केलीवनं मनो मे केषाञ्चिद्भवतु चिद्विलासानाम् ॥12॥

आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।

आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥13॥

अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।

अनुबद्धं मम मानसमरुणिमसर्वस्वसम्प्रदायेन ॥14॥

अङ्कितशङ्करदेहामङ्कुरितोरोजकङ्कणाश्लेषैः ।

अधिकाञ्चि नित्यतरुणीमद्राक्षं काञ्चिदद्भुतां बालाम् ॥15॥

मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा ।

चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥16॥

मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन ।

मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥17॥

धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।

अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ॥18॥

लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् ।

पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥19॥

श्वेता मन्थरहसिते शाता मध्ये च वाड्भनोऽतीता ।

शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥20॥

पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् ।

पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥21॥

पुण्या काऽपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा ।

पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥22॥

तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् ।

तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥23॥

पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः ।

अद्राक्षमात्तयौवनमभ्युदयं कञ्चिदर्धशशिमौलैः ॥24॥

संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।

संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥25॥

मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् ।

आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥26॥

उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् ।

उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शम्भोः ॥27॥

एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् ।

एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे ॥28॥

स्मयमानमुखं काञ्चीभयमानं कमपि देवताभेदम् ।

दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मग्नाः ॥29॥

कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते ।

कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥30॥

वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् ।

विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥31॥

कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः ।

कूलङ्कषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥32॥

कुडूमलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् ।

कुङ्कुमशोणैर्निचितं कुशलपथं शम्भुसुकृतसम्भारैः ॥33॥

अङ्कितकचेन केनचिदन्धङ्करणौषधेन कमलानाम् ।

अन्तःपुरेण शम्भोरलङ्क्रिया काऽपि कल्प्यते काञ्च्याम् ॥34॥

ऊरीकरोमि सन्ततमूष्मलफालेन ललितं पुंसा ।

उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम् ॥35॥

अङ्कुरितस्तनकोरकमङ्कालङ्कारमेकचूतपतेः ।

आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥36॥

पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।

मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥37॥

लोलहृदयोऽस्ति शम्भोर्लोचनयुगलेन लेह्यमानायाम् ।

ललितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥38॥

मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।

मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥39॥

वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता ।

पूरुषत्रितये त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ॥40॥

बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् ।

आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ॥41॥

कलयाम्यन्तः शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् ।

अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥42॥

शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।

सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥43॥

समया सान्ध्यमयूखैः समया बुद्धया सदैव शीलितया ।

उमया काञ्चीरतया न मया लभ्यते किं नु तादात्म्यम् ॥44॥

जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि ।

वन्धो यदि भवति पुनः सिन्धोरम्भस्सु बम्भ्रमीति शिला ॥45॥

कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे ।

गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥46॥

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।

अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥47॥

शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।

विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥48॥

कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते ।

कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥49॥

मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् ।

चण्डकरशक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥50॥

अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमयैः ।

अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥51॥

नन्दति मम हृदि काचन मन्दिरयन्ता निरन्तरं काञ्चीम् ।

इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥52॥

शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् ।

लिम्पामि मनसि किञ्चन कम्पातटरोहि सिद्धभैषज्यम् ॥53॥

अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः ।

आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधसिराम् ॥54॥

ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् ।

अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥55॥

आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया ।

आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥56॥

मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।

एको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥57॥

पञ्चदशवर्णरूपं कञ्चन काञ्चीविहारधौरेयम् ।

पञ्चशरीयं शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥58॥

परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।

पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥59॥

आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् ।

स्वादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥60॥

तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया ।

स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥61॥

प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती ।

सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥62॥

कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः ।

कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥63॥

यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।

सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥64॥

कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् ।

स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥65॥

दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् ।

कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥66॥

अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।

आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥67॥

बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।

एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥68॥

किं वा फलति ममान्यौर्बिम्बाधरचुम्बिमन्दहासमुखी ।

सम्बाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ॥69॥

मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के ।

अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥70॥

रक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया ।

श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥71॥

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।

चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥72॥

मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।

मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥73॥

वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् ।

मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥74॥

पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी ।

मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥75॥

कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।

अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः ॥76॥

प्रत्यङ्मुख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः ।

पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥77॥

विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।

भारति भैरवि भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ॥78॥

मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते ।

शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥79॥

देशिक इति किं शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः ।

कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥80॥

वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय ।

कुङ्कुमरुचे नमस्यां शङ्करनयनामृताय रचयामः ॥81॥

अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि काञ्चिदद्राक्षम् ।

अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥82॥

परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् ।

परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥83॥

दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।

तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥84॥

मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।

विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥85॥

अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।

जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुन्डलिनी ॥86॥

प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।

कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥87॥

श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा ।

देवि कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥88॥

उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण ।

गुर्वीमकिञ्चनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥89॥

ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।

क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥90॥

स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।

कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥91॥

विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।

कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ॥92॥

कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः ।

श्रीकामाक्षि तदीयसङ्गमकलामन्दीभवत्कौतुकः

जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥93॥

कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् ।

कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥94॥

लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते ।

वदनं तव कुवयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥95॥

जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।

नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥96॥

सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।

अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥97॥

अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते ।

चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥98॥

कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् ।

अम्ब रदनाम्बरं ते बिम्बफलं शम्बरारिणा न्यस्तम् ॥99॥

जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।

जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥100॥

आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।

निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥101॥

॥ इति आर्याशतकं सम्पूर्णम् ॥

About This Stotram

Overview

Mooka Pancha Sathi 1 — Arya Satakam is the first of five sections comprising the Mooka Pancha Sathi, a collection of five hundred Sanskrit verses dedicated to Goddess Kamakshi of Kanchipuram, a form of Parvati. This opening section contains 101 verses composed in the Arya meter and is attributed to Mooka Kavi, a poet associated with the legend of receiving speech from the goddess. The work belongs to the South Indian Shakta devotional tradition centered on the Kanchi Kamakshi temple.

What are the benefits of chanting Mooka Pancha Sathi 1?

  • Invokes Goddess Kamakshi's grace for eloquence and speech
  • Supports the removal of obstacles and limitations
  • Cultivates devotion within the Shakta tradition of Kanchipuram
  • Used in South Indian temple worship and private devotional practice

When is the best time to recite this?

Morning and evening recitation is standard. Navaratri and days dedicated to Goddess Kamakshi at the Kanchi temple are the most auspicious occasions for this text.

What is the historical and traditional background?

The Mooka Pancha Sathi is traditionally attributed to Mooka Kavi, a poet described in hagiographic accounts as having been mute (mooka) until blessed with speech by Goddess Kamakshi. Scholars place the composition broadly within the medieval period, possibly between the 8th and 14th centuries CE, though a precise date has not been established. Kanchipuram has functioned as a major center of Shakti worship for many centuries. The Arya meter, used throughout this section, is a standard vehicle for Sanskrit devotional poetry of this period.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Mooka Pancha Sathi 2 — Padaravinda Satakam — the second section of the same five-hundred-verse collection, focusing on the lotus feet of Goddess Kamakshi
  • Soundarya Lahari — a Shakta hymn in the same South Indian tradition, praising the beauty and cosmic power of the Goddess