Stotram - Sacred Scripture

Mooka Pancha Sathi 3

Mooka Pancha Sathi 3

Stotram
Unknown
102 Verses
110%

मूक पञ्च शति 3 - स्तुति शतकम्

श्लोक 1

पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां

वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।

स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां

वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः

श्लोक 2

तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे

संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे ।

कम्पातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे

विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परञ्ज्योतिषे

॥1॥

श्लोक 3

ये सन्ध्यारुणयन्ति शङ्करजटाकान्तारचन्रार्भकं

सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे ।

पुण्य.ं ये परिपक्कयन्ति भजतां काञ्चीपुरे माममी

पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः

॥2॥

श्लोक 4

कामाडम्बरपूरया शशिरुचा कम्रस्मितानां त्विषा

कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती ।

कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां

कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते

॥3॥

श्लोक 5

कामाक्षीणपराक्रमप्रकटनं सम्भावयन्ती दृशा

श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा ।

कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता

कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे

॥4॥

श्लोक 6

श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने

सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।

मारारातिमनोविमोहनविधौ काचितत्तमःकन्दली

कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम्

॥5॥

श्लोक 7

प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शयन्

ज्योत्स्नासङ्गमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् ।

कालिन्दीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां

कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः

॥6॥

श्लोक 8

तन्द्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः

तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः ।

मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिन्धमैः

कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्करैः शाङ्करैः

॥7॥

श्लोक 9

नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती

तेजस्सञ्चयपाटवेन किरणानुष्णद्युतेर्मुष्णती ।

काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जृम्भते

काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका

॥8॥

श्लोक 10

कान्तैः केशरुचां चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं

कान्त्या पल्लवितं पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।

कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली

काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली

॥9॥

श्लोक 11

राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता

मूकानामपि कुर्वती सुरधनीनीकाशवाग्वैभवम् ।

श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम्

एका पुण्यपरम्परा पशुपतेराकारिणी राजते

॥10॥

श्लोक 12

जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां

लोकानां क्षणमात्रसंस्मरणतः सन्तापविच्छेदिनी ।

आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती

कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी

॥11॥

श्लोक 13

ऐक्यं येन विरच्यते हरतनौ दम्भावपुम्भावुके

रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते ।

औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान्

कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम्

॥12॥

श्लोक 14

अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन्

उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने ।

माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपयन्

काञ्चीसीम्नि चकास्ति कोऽपि कवितासन्तानबीजाङ्कुरः

॥13॥

श्लोक 15

खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं

कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने ।

तारुण्योष्मनखम्पचं स्तनभरं जङ्घास्पृशं कुन्तलं

भाग्यं देशिकसञ्चितं मम कदा सम्पादयेदम्बिके

॥14॥

श्लोक 16

तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां

केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।

अंहोवञ्चनचुञ्चु किञ्चन भजे काञ्चीपुरीमण्डनं

पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम्

॥15॥

श्लोक 17

आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीं

चूडालङ्क्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।

मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्याञ्चिता

काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी

॥16॥

श्लोक 18

यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-

ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् ।

द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी

कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम्

॥17॥

श्लोक 19

कालिन्दीजलकान्तयः स्मितरुचिस्वर्वाहिनीपाथसि

प्रौढध्वान्तरुचः स्फुटाधरमहोलौहित्यसन्ध्योदये ।

मणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः

कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते

॥18॥

श्लोक 20

कलकलरणत्काञ्ची काञ्चीविभूषणमालिका

कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।

कविकुलगिरः श्रावंश्रावं मिलत्पुलकाङ्कुरा

विरचितशिरःकम्पा कम्पातटे परिशोभते

॥19॥

श्लोक 21

सरसवचसां वीची नीचीभवन्मधुमाधुरी

भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी ।

जननि मनसो योग्यं भोग्यं नृणां तव जायते

कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम्

॥20॥

श्लोक 22

भ्रमरितसरित्कूलो नीलोत्पलप्रभयाऽऽभया

नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।

अचलतपसामेकः पाकः प्रसूनशरासन-

प्रतिभटमनोहारी नारीकुलैकशिखामणिः

॥21॥

श्लोक 23

मधुरवचसो मन्दस्मेरा मतङ्गजगामिनः

तरुणिमजुषस्तापिच्छाभास्तमःपरिपन्थिनः ।

कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः

कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः

॥22॥

श्लोक 24

कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः

कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।

रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः

पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः

॥23॥

श्लोक 25

कलितरतयः काञ्चीलीलाविधौ कविमण्डली-

वचनलहरीवासन्तीनां वसन्तविभूतयः ।

कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः

कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः

॥24॥

श्लोक 26

कबलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः

सरसिजवनीसन्तानानामरुन्तुदशेखराः ।

नयनसरणेर्नेदीयंसः कदा नु भवन्ति मे

तरुणजलदश्यामाः शम्भोस्तपःफलविभ्रमाः

॥25॥

श्लोक 27

अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया

सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।

त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती

तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी

॥26॥

श्लोक 28

जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं

कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरम्भरिः ।

तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने

नमति मयि ते किञ्चित्काञ्चीपुरीमणिदीपिके

॥27॥

श्लोक 29

मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी-

विहरणकलागेहं काञ्चीपुरीमणिभूषणम् ।

जगति महतो मोहव्याधेर्नृणां परमौषधं

पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम्

॥28॥

श्लोक 30

मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी-

हिमगिरितटप्राग्भारायाक्षराय परात्मने ।

विहरणजुषे काञ्चीदेशे महेश्वरलोचन-

त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः

॥29॥

श्लोक 31

मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम्

अमृतलहरीपूरं पारं भवाख्यपयोनिधेः ।

सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं

हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे

॥30॥

श्लोक 32

प्रणमनदिनारम्भे कम्पानदीसखि तावके

सरसकवितोन्मेषः पूषा सतां समुदञ्चितः ।

प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं

नयति तरसा निद्रामुद्रां नगेश्वरकन्यके

॥31॥

श्लोक 33

शमितजडिमारम्भा कम्पातटीनिकटेचरी

निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला ।

फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता

सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी

॥32॥

श्लोक 34

मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया

कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।

जगति शमितस्तम्भां कम्पानदीनिलयामसौ

श्रियति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणीम्

॥33॥

श्लोक 35

परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने

शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् ।

अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ

कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः

॥34॥

श्लोक 36

पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया

सरसकविताभाजा काञ्चीपुरोदरसीमया ।

तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः

किमिव न तुलामस्मच्चेतो महेश्वरि गाहते

॥35॥

श्लोक 37

नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं

विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।

मरतकरुचो माहेशाना घनस्तननम्रिताः

सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरन्धराः

॥36॥

श्लोक 38

मनसिजयशःपारम्पर्यं मरन्दझरीसुवां

कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।

मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं

पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा

॥37॥

श्लोक 39

शिथिलिततमोलीलां नीलारविन्दविलोचनां

दहनविलसत्फालां श्रीकामकोटिमुपास्महे ।

करधृतसच्छूलां कालारिचित्तहरां परां

मनसिजकृपालीलां लोलालकामलिकेक्षणाम्

॥38॥

श्लोक 40

कलालीलाशाला कविकुलवचःकैरववनी-

शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।

पुनीते नः कम्पापुलिनतटसौहार्दतरला

कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी

॥39॥

श्लोक 41

नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा

दधानेभ्यश्चूडाभरणममृतस्यन्दि शिशिरम् ।

सदा वास्तवेभ्यः सुविधभुवि कम्पाख्यसरिते

यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः

॥40॥

श्लोक 42

असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी-

कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः ।

तमोमुद्रां विद्रावयतु मम काञ्चीर्निलयना

हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका

॥41॥

श्लोक 43

अनाद्यन्ता काचित्सुजननयनानन्दजननी

निरुन्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।

स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो

गलत्कम्पा शम्पा परिलसति कम्पापरिसरे

॥42॥

श्लोक 44

सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं

परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः ।

स्तनाभ्यामानम्रा स्तबकयतु मे काङ्क्षिततरुं

दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा

॥43॥

श्लोक 45

कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां

निहन्त्री सन्तापं निगममुकुटोत्तंसकलिका ।

परा काञ्चीलीलापरिचयवती पर्वतसुता

गिरां नीवी देवी गिरिशपरतन्त्रा विजयते

॥44॥

श्लोक 46

कवित्वश्रीकन्दः सुकृतपरिपाटी हिमगिरेः

विधात्री विश्वेषां विषमशरवीरध्वजपटी ।

सखी कम्पानद्याः पदहसितपाथोजयुगली

पुराणो पायान्नः पुरमथनसाम्राज्यपदवी

॥45॥

श्लोक 47

दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः

स्तनाभोगक्कान्तास्तरुणहरिणाङ्काङ्कितकचाः ।

हराधीना नानाविबुधमुकुटीचुम्बितपदाः

कदा कम्पातीरे कथय विहरामो गिरिसुते

॥46॥

श्लोक 48

वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो

नरीनर्तु प्रौढा वदनकमले वाक्यलहरी ।

चरीचर्तु प्रज्ञाजननि जडिमानः परजने

सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा

॥47॥

श्लोक 49

क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः

कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।

नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-

सरिद्वीचीनीचीकरणपटुरास्ये मम सदा

॥48॥

श्लोक 50

पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां

प्रचारस्ते कम्पातटविहृतिसम्पादिनि दृशोः ।

इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः-

परीपाकं मत्कं सपदि बुधलोकं च नय माम्

॥49॥

श्लोक 51

उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया

समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् ।

उपादत्ते मारप्रतिभटजटाजूटमुकुटी-

कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम्

॥50॥

श्लोक 52

श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां

सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा ।

त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि

प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते

॥51॥

श्लोक 53

मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां

सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् ।

गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः

दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते

॥52॥

श्लोक 54

घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरान्

दृशां पातानेतानमृतजलशीताननुपमान् ।

भवोत्पाते भीते मयि वितर नाथे दृढभव-

न्मनश्शोके मूके हिमगिरिपताके करुणया

॥53॥

श्लोक 55

नतानां मन्दानां भवनिगलबन्धाकुलधियां

महान्ध्यां रुन्धानामभिलषितसन्तानलतिकाम् ।

चरन्तीं कम्पायास्तटभुवि सवित्रीं त्रिजगतां

स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम्

॥54॥

श्लोक 56

परा विद्या हृद्याश्रितमदनविद्या मरकत-

प्रभानीला लीलापरवशितशूलायुधमनाः ।

तमःपूरं दूरं चरणनतपौरन्दरपुरी-

मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे

॥55॥

श्लोक 57

अहन्ताख्या मत्कं कबलयति हा हन्त हरिणी

हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ ।

कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः

इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया

॥56॥

श्लोक 58

बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ

कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।

कथङ्कारं नास्मै करमुकुलचूडालमुकुटा

नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः

॥57॥

श्लोक 59

प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि-

प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् ।

चरन्तीं सौषुम्ने पथि परपदेन्दुप्रविगल-

त्सुधार्द्रां कामाक्षीं परिणतपरञ्ज्योतिरुदयाम्

॥58॥

श्लोक 60

जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती

गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती ।

शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती

कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा

॥59॥

श्लोक 61

चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां

कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् ।

मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं

कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे

॥60॥

श्लोक 62

कालाम्भोदप्रकरसुषमां कान्तिभिस्तिर्जयन्ती

कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।

कन्दर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री

काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा

॥61॥

श्लोक 63

ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां

पाथोजानां नयनयुगले परिपन्थ्यं वितन्वन् ।

कम्पातीरे विहरति रुचा मोघयन्मेघशैलीं

कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः

॥62॥

श्लोक 64

काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मीः

जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।

माकन्दश्रीर्मधुरकविताचातुरी कोकिलानां

मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या

॥63॥

श्लोक 65

सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ

लीलालोला कुवलयमयी मान्मथी वैजयन्ती ।

काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली

मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला

॥64॥

श्लोक 66

व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां

व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।

काञ्चीलीलाविहृतिरसिके काङ्क्षितं नः क्रियासुः

बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः

॥65॥

श्लोक 67

कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती

मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती ।

हंसारावं विकचकमले मञ्जुमुल्लासयन्ती

कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः

॥66॥

श्लोक 68

चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं

पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।

जातः शैलान्न तु जलनिधेः स्वैरसञ्चारशीलः

काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे

॥67॥

श्लोक 69

ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्पं

तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् ।

व्यावृन्वाना सुकृतलहरी कापि काञ्चिनगर्याम्

ऐशानी सा कलयतितरामैन्द्रजालं विलासम्

॥68॥

श्लोक 70

आहारांशं त्रिदशसदसामाश्रये चातकानाम्

आकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।

कम्पातीरे विहरतितरां कामधेनुः कवीनां

मन्दस्मेरो मदननिगमप्रक्रियासम्प्रदायः

॥69॥

श्लोक 71

आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः

आस्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।

कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः

काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः

॥70॥

श्लोक 72

आधून्वन्त्यै तरलनयनैराङ्गजीं वैजयन्तीम्

आनन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।

आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चैः

आराध्यायै स्पृहयतितरामदिमायै जनन्यै

॥71॥

श्लोक 73

दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं

मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् ।

कम्पातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं

शान्त्यै सेवे सकलविपदां शाङ्करं तत्कलत्रम्

॥72॥

श्लोक 74

खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-

शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती ।

तुण्डीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री

चण्डी देवी कलयति रतिं चन्द्रचूडालचूडे

॥73॥

श्लोक 75

येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा

यद्दृक्कोणे मदननिगमप्राभवं बोभवीति ।

यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किम्पचानः

कम्पातीरे स जयति महान्कश्चिदोजोविशेषः

॥74॥

श्लोक 76

धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे

निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।

साध्वी माध्वीरसमधुरताभञ्जिनी मञ्जुरीतिः

वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम्

॥75॥

श्लोक 77

यस्या वाटी हृदयकमलं कौसुमी योगभाजां

यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः ।

यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची

सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि

॥76॥

श्लोक 78

एका माता सकलजगतामीयुषी ध्यानमुद्राम्

एकाम्राधीश्वरचरणयोरेकतानां समिन्धे ।

ताटङ्कोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा

तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला

॥77॥

श्लोक 79

दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः

मन्दाराणां मदपरिणतिं मथ्नती मन्दहासैः ।

अङ्कूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या-

मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता

॥78॥

श्लोक 80

त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां

पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।

मतङ्गकुलनायिकां महिषमर्दनीं मातृकां

भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते

॥79॥

श्लोक 81

महामुनिमनोनटी महितरम्यकम्पातटी-

कुटीरकविहारिणी कुटिलबोधसंहारिणी ।

सदा भवतु कामिनी सकलदेहिनां स्वामिनी

कृपातिशयकिङ्करी मम विभूतये शाङ्करी

॥80॥

श्लोक 82

जडाः प्रकृतिनिर्धना जनविलोचनारुन्तुदा

नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते ।

वचस्सु मधुमाधुरीं प्रकटयन्ति पौरन्दरी-

विभूतिषु विडम्बनां वपुषि मान्मथीं प्रक्रियाम्

॥81॥

श्लोक 83

घन्सतनतटस्फुटस्फुरितकञ्चुलीचञ्चली-

कृतत्रिपुरशासना सुजनशीलितोपासना ।

दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे

परा परमयोगिनां मनसि चित्कुला पुष्कला

॥82॥

श्लोक 84

कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी

निरूढकरुणाझरी निखिललोकरक्षाकरी ।

मनःपथदवीयसी मदनशासनप्रेयसी

महागुणगरीयसी मम दृशोऽस्तु नेदीयसी

॥83॥

श्लोक 85

धनेन न रमामहे खलजनान्न सेवामहे

न चापलमयामहे भवभयान्न दूयामहे ।

स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत-

स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम्

॥84॥

श्लोक 86

सुराः परिजना वपुर्मनसिजाय वैरायते

त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः ।

गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा

कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते

॥85॥

श्लोक 87

पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः

पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः ।

भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः

निरक्षरशिरोमणिं करुणयैव कामाक्षि माम्

॥86॥

श्लोक 88

कदा कलितखेलनाः करुणयैव काञ्चीपुरे

कलायमुकुलत्विषः शुभकदम्बपूर्णाङ्कुराः ।

पयोधरभरालसाः कविजनेषु ते बन्धुराः

पचेलिमकृपारसा परिपतन्ति मार्गे दृशोः

॥87॥

श्लोक 89

अशोध्यमचलोद्भवं हृदयनन्दनं देहिनाम्

अनर्घमधिकाञ्चि तत्किमपि रत्नमुद्द्योतते ।

अनेन समलङ्कृता जयति शङ्कराङ्कस्थली

कदास्य मम मानसं व्रजति पेटिकाविभ्रमम्

॥88॥

श्लोक 90

परामृतझरीप्लुता जयति नित्यमन्तश्चरी

भुवामपि बहिश्चरी परमसंविदेकात्मिका ।

महद्भिरपरोक्षिता सततमेव काञ्चीपुरे

ममान्वहमहम्मतिर्मनसि भातु माहेश्वरी

॥89॥

श्लोक 91

तमोविपिनधाविनं सततमेव काञ्चीपुरे

विहाररसिका परा परमसंविदुर्वीरुहे ।

कटाक्षनिगलैर्दृढं हृदयदुष्टदन्तावलं

चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी

॥90॥

श्लोक 92

त्वमेव सति चण्डिका त्वमसि देवि चामुण्डिका

त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।

त्वमेव किल शाम्भवी त्वमसि कामकोटी जया

त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे

॥91॥

श्लोक 93

परे जननि पार्वति प्रणतपालिनि प्रातिभ-

प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते ।

त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे

त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते

॥92॥

श्लोक 94

मनोमधुकरोत्सवं विदधती मनीषाजुषां

स्वयम्प्रभववैखरीविपिनवीथिकालम्बिनी ।

अहो शिशिरिता कृपामधुरसेन कम्पातटे

चराचरविधायिनी चलति कापि चिन्मञ्जरी

॥93॥

श्लोक 95

कलावति कलाभृतो मुकुटसीम्नि लीलावति

स्पृहावति महेश्वरे भुवनमोहने भास्वति ।

प्रभावति रमे सदा महितरूपशोभावति

त्वरावति परे सतां गुरुकृपाम्बुधारावति

॥94॥

श्लोक 96

त्वयैव जगदम्बया भुवनमण्डलं सूयते

त्वयैव करुणार्द्रया तदपि रक्षणं नीयते ।

त्वयैव खरकोपया नयनपावके हूयते

त्वयैव किल नित्यया जगति सन्ततं स्थीयते

॥95॥

श्लोक 97

चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं

गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् ।

परापरमयीं सदा दशदिशां निशाहर्मयीं

परां सततसन्मयीं मनसि चिन्मयीं शीलये

॥96॥

श्लोक 98

जय जगदम्बिके हरकुटुम्बिनि वक्त्ररुचा

जितशरदम्बुजे घनविडम्बिनि केशरुचा ।

परमवलम्बनं कुरु सदा पररूपधरे

मम गतसंविदो जडिमडम्बरताण्डविनः

॥97॥

श्लोक 99

भुवनजननि भूषाभूतचन्द्रे नमस्ते

कलुषशमनि कम्पातीरगेहे नमस्ते ।

निखिलनिगमवेद्ये नित्यरूपे नमस्ते

परशिवमयि पाशच्छेदहस्ते नमस्ते

॥98॥

श्लोक 100

क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी-

शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः ।

घनश्यामा श्यामा कठिनकुचसीमा मनसि मे

मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात्

॥99॥

श्लोक 101

समरविजयकोटी साधकानन्दधाटी

मृदुगुणपरिपेटी मुख्यकादम्बवाटी ।

मुनिनुतपरिपाटी मोहिताजाण्डकोटी

परमशिववधूटी पातु मां कामकोटी

॥100॥

श्लोक 102

इमं परवरप्रदं प्रकृतिपेशलं पावनं

परापरचिदाकृतिप्रकटनप्रदीपायितम् ।

स्तवं पठति नित्यदा मनसि भावयन्नम्बिकां

जपैरलमलं मखैरधिकदेहसंशोषणैः

॥101॥

श्लोक 103

॥ इति स्तुतिशतकं सम्पूर्णम् ॥