Mooka Pancha Sathi 3
Mooka Pancha Sathi 3
मूक पञ्च शति 3 - स्तुति शतकम्
पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां
वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥1॥
तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे
संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे ।
कम्पातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे
विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परञ्ज्योतिषे ॥2॥
ये सन्ध्यारुणयन्ति शङ्करजटाकान्तारचन्रार्भकं
सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे ।
पुण्य.ं ये परिपक्कयन्ति भजतां काञ्चीपुरे माममी
पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥3॥
कामाडम्बरपूरया शशिरुचा कम्रस्मितानां त्विषा
कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती ।
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां
कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥4॥
कामाक्षीणपराक्रमप्रकटनं सम्भावयन्ती दृशा
श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा ।
कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे ॥5॥
श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने
सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।
मारारातिमनोविमोहनविधौ काचितत्तमःकन्दली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥6॥
प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शयन्
ज्योत्स्नासङ्गमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिन्दीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां
कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥7॥
तन्द्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः
तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः ।
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिन्धमैः
कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्करैः शाङ्करैः ॥8॥
नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
तेजस्सञ्चयपाटवेन किरणानुष्णद्युतेर्मुष्णती ।
काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जृम्भते
काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥9॥
कान्तैः केशरुचां चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं
कान्त्या पल्लवितं पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।
कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली
काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥10॥
राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
मूकानामपि कुर्वती सुरधनीनीकाशवाग्वैभवम् ।
श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम्
एका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥11॥
जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षणमात्रसंस्मरणतः सन्तापविच्छेदिनी ।
आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती
कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥12॥
ऐक्यं येन विरच्यते हरतनौ दम्भावपुम्भावुके
रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते ।
औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान्
कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥13॥
अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन्
उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने ।
माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपयन्
काञ्चीसीम्नि चकास्ति कोऽपि कवितासन्तानबीजाङ्कुरः ॥14॥
खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं
कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने ।
तारुण्योष्मनखम्पचं स्तनभरं जङ्घास्पृशं कुन्तलं
भाग्यं देशिकसञ्चितं मम कदा सम्पादयेदम्बिके ॥15॥
तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवञ्चनचुञ्चु किञ्चन भजे काञ्चीपुरीमण्डनं
पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥16॥
आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीं
चूडालङ्क्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्याञ्चिता
काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥17॥
यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-
ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् ।
द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी
कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम् ॥18॥
कालिन्दीजलकान्तयः स्मितरुचिस्वर्वाहिनीपाथसि
प्रौढध्वान्तरुचः स्फुटाधरमहोलौहित्यसन्ध्योदये ।
मणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः
कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥19॥
कलकलरणत्काञ्ची काञ्चीविभूषणमालिका
कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।
कविकुलगिरः श्रावंश्रावं मिलत्पुलकाङ्कुरा
विरचितशिरःकम्पा कम्पातटे परिशोभते ॥20॥
सरसवचसां वीची नीचीभवन्मधुमाधुरी
भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी ।
जननि मनसो योग्यं भोग्यं नृणां तव जायते
कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥21॥
भ्रमरितसरित्कूलो नीलोत्पलप्रभयाऽऽभया
नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।
अचलतपसामेकः पाकः प्रसूनशरासन-
प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥22॥
मधुरवचसो मन्दस्मेरा मतङ्गजगामिनः
तरुणिमजुषस्तापिच्छाभास्तमःपरिपन्थिनः ।
कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः
कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥23॥
कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः
कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः
पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥24॥
कलितरतयः काञ्चीलीलाविधौ कविमण्डली-
वचनलहरीवासन्तीनां वसन्तविभूतयः ।
कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः
कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥25॥
कबलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः
सरसिजवनीसन्तानानामरुन्तुदशेखराः ।
नयनसरणेर्नेदीयंसः कदा नु भवन्ति मे
तरुणजलदश्यामाः शम्भोस्तपःफलविभ्रमाः ॥26॥
अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया
सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।
त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती
तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥27॥
जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं
कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरम्भरिः ।
तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने
नमति मयि ते किञ्चित्काञ्चीपुरीमणिदीपिके ॥28॥
मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी-
विहरणकलागेहं काञ्चीपुरीमणिभूषणम् ।
जगति महतो मोहव्याधेर्नृणां परमौषधं
पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥29॥
मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी-
हिमगिरितटप्राग्भारायाक्षराय परात्मने ।
विहरणजुषे काञ्चीदेशे महेश्वरलोचन-
त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः ॥30॥
मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम्
अमृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥31॥
प्रणमनदिनारम्भे कम्पानदीसखि तावके
सरसकवितोन्मेषः पूषा सतां समुदञ्चितः ।
प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं
नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥32॥
शमितजडिमारम्भा कम्पातटीनिकटेचरी
निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला ।
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥33॥
मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।
जगति शमितस्तम्भां कम्पानदीनिलयामसौ
श्रियति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणीम् ॥34॥
परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् ।
अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ
कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥35॥
पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया
सरसकविताभाजा काञ्चीपुरोदरसीमया ।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥36॥
नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं
विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।
मरतकरुचो माहेशाना घनस्तननम्रिताः
सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरन्धराः ॥37॥
मनसिजयशःपारम्पर्यं मरन्दझरीसुवां
कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥38॥
शिथिलिततमोलीलां नीलारविन्दविलोचनां
दहनविलसत्फालां श्रीकामकोटिमुपास्महे ।
करधृतसच्छूलां कालारिचित्तहरां परां
मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥39॥
कलालीलाशाला कविकुलवचःकैरववनी-
शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।
पुनीते नः कम्पापुलिनतटसौहार्दतरला
कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥40॥
नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा
दधानेभ्यश्चूडाभरणममृतस्यन्दि शिशिरम् ।
सदा वास्तवेभ्यः सुविधभुवि कम्पाख्यसरिते
यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः ॥41॥
असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी-
कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः ।
तमोमुद्रां विद्रावयतु मम काञ्चीर्निलयना
हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥42॥
अनाद्यन्ता काचित्सुजननयनानन्दजननी
निरुन्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो
गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥43॥
सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं
परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः ।
स्तनाभ्यामानम्रा स्तबकयतु मे काङ्क्षिततरुं
दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥44॥
कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां
निहन्त्री सन्तापं निगममुकुटोत्तंसकलिका ।
परा काञ्चीलीलापरिचयवती पर्वतसुता
गिरां नीवी देवी गिरिशपरतन्त्रा विजयते ॥45॥
कवित्वश्रीकन्दः सुकृतपरिपाटी हिमगिरेः
विधात्री विश्वेषां विषमशरवीरध्वजपटी ।
सखी कम्पानद्याः पदहसितपाथोजयुगली
पुराणो पायान्नः पुरमथनसाम्राज्यपदवी ॥46॥
दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः
स्तनाभोगक्कान्तास्तरुणहरिणाङ्काङ्कितकचाः ।
हराधीना नानाविबुधमुकुटीचुम्बितपदाः
कदा कम्पातीरे कथय विहरामो गिरिसुते ॥47॥
वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो
नरीनर्तु प्रौढा वदनकमले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि जडिमानः परजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥48॥
क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः
कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-
सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥49॥
पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां
प्रचारस्ते कम्पातटविहृतिसम्पादिनि दृशोः ।
इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः-
परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥50॥
उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया
समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी-
कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥51॥
श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां
सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि
प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥52॥
मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां
सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् ।
गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः
दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते ॥53॥
घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरान्
दृशां पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव-
न्मनश्शोके मूके हिमगिरिपताके करुणया ॥54॥
नतानां मन्दानां भवनिगलबन्धाकुलधियां
महान्ध्यां रुन्धानामभिलषितसन्तानलतिकाम् ।
चरन्तीं कम्पायास्तटभुवि सवित्रीं त्रिजगतां
स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥55॥
परा विद्या हृद्याश्रितमदनविद्या मरकत-
प्रभानीला लीलापरवशितशूलायुधमनाः ।
तमःपूरं दूरं चरणनतपौरन्दरपुरी-
मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥56॥
अहन्ताख्या मत्कं कबलयति हा हन्त हरिणी
हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः
इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥57॥
बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।
कथङ्कारं नास्मै करमुकुलचूडालमुकुटा
नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥58॥
प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि-
प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् ।
चरन्तीं सौषुम्ने पथि परपदेन्दुप्रविगल-
त्सुधार्द्रां कामाक्षीं परिणतपरञ्ज्योतिरुदयाम् ॥59॥
जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती
गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती ।
शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती
कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥60॥
चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां
कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥61॥
कालाम्भोदप्रकरसुषमां कान्तिभिस्तिर्जयन्ती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।
कन्दर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री
काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥62॥
ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां
पाथोजानां नयनयुगले परिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रुचा मोघयन्मेघशैलीं
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥63॥
काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मीः
जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।
माकन्दश्रीर्मधुरकविताचातुरी कोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥64॥
सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती ।
काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली
मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥65॥
व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविहृतिरसिके काङ्क्षितं नः क्रियासुः
बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥66॥
कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती
मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती ।
हंसारावं विकचकमले मञ्जुमुल्लासयन्ती
कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥67॥
चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।
जातः शैलान्न तु जलनिधेः स्वैरसञ्चारशीलः
काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥68॥
ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्पं
तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् ।
व्यावृन्वाना सुकृतलहरी कापि काञ्चिनगर्याम्
ऐशानी सा कलयतितरामैन्द्रजालं विलासम् ॥69॥
आहारांशं त्रिदशसदसामाश्रये चातकानाम्
आकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
मन्दस्मेरो मदननिगमप्रक्रियासम्प्रदायः ॥70॥
आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः
आस्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः
काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥71॥
आधून्वन्त्यै तरलनयनैराङ्गजीं वैजयन्तीम्
आनन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।
आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चैः
आराध्यायै स्पृहयतितरामदिमायै जनन्यै ॥72॥
दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं
मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् ।
कम्पातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं
शान्त्यै सेवे सकलविपदां शाङ्करं तत्कलत्रम् ॥73॥
खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-
शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती ।
तुण्डीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री
चण्डी देवी कलयति रतिं चन्द्रचूडालचूडे ॥74॥
येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा
यद्दृक्कोणे मदननिगमप्राभवं बोभवीति ।
यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किम्पचानः
कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥75॥
धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे
निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।
साध्वी माध्वीरसमधुरताभञ्जिनी मञ्जुरीतिः
वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥76॥
यस्या वाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः ।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची
सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥77॥
एका माता सकलजगतामीयुषी ध्यानमुद्राम्
एकाम्राधीश्वरचरणयोरेकतानां समिन्धे ।
ताटङ्कोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा
तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला ॥78॥
दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः
मन्दाराणां मदपरिणतिं मथ्नती मन्दहासैः ।
अङ्कूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या-
मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता ॥79॥
त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां
पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।
मतङ्गकुलनायिकां महिषमर्दनीं मातृकां
भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥80॥
महामुनिमनोनटी महितरम्यकम्पातटी-
कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
कृपातिशयकिङ्करी मम विभूतये शाङ्करी ॥81॥
जडाः प्रकृतिनिर्धना जनविलोचनारुन्तुदा
नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते ।
वचस्सु मधुमाधुरीं प्रकटयन्ति पौरन्दरी-
विभूतिषु विडम्बनां वपुषि मान्मथीं प्रक्रियाम् ॥82॥
घन्सतनतटस्फुटस्फुरितकञ्चुलीचञ्चली-
कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे
परा परमयोगिनां मनसि चित्कुला पुष्कला ॥83॥
कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी
निरूढकरुणाझरी निखिललोकरक्षाकरी ।
मनःपथदवीयसी मदनशासनप्रेयसी
महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥84॥
धनेन न रमामहे खलजनान्न सेवामहे
न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत-
स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ॥85॥
सुराः परिजना वपुर्मनसिजाय वैरायते
त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः ।
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥86॥
पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः
पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः ।
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः
निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥87॥
कदा कलितखेलनाः करुणयैव काञ्चीपुरे
कलायमुकुलत्विषः शुभकदम्बपूर्णाङ्कुराः ।
पयोधरभरालसाः कविजनेषु ते बन्धुराः
पचेलिमकृपारसा परिपतन्ति मार्गे दृशोः ॥88॥
अशोध्यमचलोद्भवं हृदयनन्दनं देहिनाम्
अनर्घमधिकाञ्चि तत्किमपि रत्नमुद्द्योतते ।
अनेन समलङ्कृता जयति शङ्कराङ्कस्थली
कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥89॥
परामृतझरीप्लुता जयति नित्यमन्तश्चरी
भुवामपि बहिश्चरी परमसंविदेकात्मिका ।
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
ममान्वहमहम्मतिर्मनसि भातु माहेश्वरी ॥90॥
तमोविपिनधाविनं सततमेव काञ्चीपुरे
विहाररसिका परा परमसंविदुर्वीरुहे ।
कटाक्षनिगलैर्दृढं हृदयदुष्टदन्तावलं
चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥91॥
त्वमेव सति चण्डिका त्वमसि देवि चामुण्डिका
त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शाम्भवी त्वमसि कामकोटी जया
त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥92॥
परे जननि पार्वति प्रणतपालिनि प्रातिभ-
प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते ।
त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे
त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥93॥
मनोमधुकरोत्सवं विदधती मनीषाजुषां
स्वयम्प्रभववैखरीविपिनवीथिकालम्बिनी ।
अहो शिशिरिता कृपामधुरसेन कम्पातटे
चराचरविधायिनी चलति कापि चिन्मञ्जरी ॥94॥
कलावति कलाभृतो मुकुटसीम्नि लीलावति
स्पृहावति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति
त्वरावति परे सतां गुरुकृपाम्बुधारावति ॥95॥
त्वयैव जगदम्बया भुवनमण्डलं सूयते
त्वयैव करुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते
त्वयैव किल नित्यया जगति सन्ततं स्थीयते ॥96॥
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा दशदिशां निशाहर्मयीं
परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥97॥
जय जगदम्बिके हरकुटुम्बिनि वक्त्ररुचा
जितशरदम्बुजे घनविडम्बिनि केशरुचा ।
परमवलम्बनं कुरु सदा पररूपधरे
मम गतसंविदो जडिमडम्बरताण्डविनः ॥98॥
भुवनजननि भूषाभूतचन्द्रे नमस्ते
कलुषशमनि कम्पातीरगेहे नमस्ते ।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते ॥99॥
क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी-
शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः ।
घनश्यामा श्यामा कठिनकुचसीमा मनसि मे
मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात् ॥100॥
समरविजयकोटी साधकानन्दधाटी
मृदुगुणपरिपेटी मुख्यकादम्बवाटी ।
मुनिनुतपरिपाटी मोहिताजाण्डकोटी
परमशिववधूटी पातु मां कामकोटी ॥101॥
इमं परवरप्रदं प्रकृतिपेशलं पावनं
परापरचिदाकृतिप्रकटनप्रदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयन्नम्बिकां
जपैरलमलं मखैरधिकदेहसंशोषणैः ॥102॥
॥ इति स्तुतिशतकं सम्पूर्णम् ॥
About This Stotram
Overview
Mooka Pancha Sathi 3 — Stuti Satakam is the third section of the Mooka Pancha Sathi, a collection of five hundred Sanskrit verses dedicated to Goddess Tripura Sundari (Kamakshi). This section contains 102 verses of praise (stuti) describing the Goddess's attributes, cosmic forms, and powers in verse. The collection is attributed to Adi Shankaracharya and integrates Tantric and Advaita Vedantic perspectives on the Divine Feminine.
What are the benefits of chanting Mooka Pancha Sathi 3?
- Deepens philosophical understanding of the Goddess as ultimate reality in Shaktism
- Invokes Tripura Sundari's grace for devotional and spiritual development
- Supports practice within the Shakta Advaita tradition
- Cultivates poetic and meditative engagement with the deity's cosmic attributes
When is the best time to recite this?
Morning and evening recitation are standard. Navaratri and Lalita Panchami are especially appropriate occasions. Days dedicated to Goddess Lalita within the Shakta calendar are also suitable.
What is the historical and traditional background?
The Mooka Pancha Sathi is traditionally attributed to Adi Shankaracharya (approximately 8th century CE), the philosopher-saint who established the Advaita Vedanta school and also composed or promoted Shakta devotional works as part of his mission. The collection as a whole represents the intersection of Advaita non-dualism with the Tantric worship of the Supreme Goddess. The name "Mooka Pancha Sathi" means "five hundred verses of the mute," referring to the legend of a mute devotee who was granted speech through the Goddess's grace. The text is part of the living devotional tradition of South India, particularly in the Kamakshi temple tradition at Kanchipuram.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Lalita Sahasranama — the thousand names of Lalita Tripura Sundari, the same deity praised in this section
- Mooka Pancha Sathi 1 — Arya Satakam — the opening section of the same five-hundred-verse collection
