Stotram - Sacred Scripture

Narayaniyam Dashaka 2

Narayaniyam Dashaka 2

Stotram
Narayana
10 Verses
110%

नारायणीयं दशक 2 - भगवतः स्वरूपमाधुर्यं तथा भक्तिमहत्त्वम्

श्लोक 1

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं

कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम्।

गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं

त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे

श्लोक 2

केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-

श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।

काञ्चित् काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी-

मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम्

॥1॥

श्लोक 3

यत्त्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्

कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।

सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ-

प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो

॥2॥

श्लोक 4

तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी

सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।

तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक -

प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत्

॥3॥

श्लोक 5

लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे-

त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।

ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना-

स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा

॥4॥

श्लोक 6

एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं

त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।

सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं

व्यासिञ्चत्यपि शीतवाष्पविसरैरानन्दमूर्छोद्भवैः

॥5॥

श्लोक 7

एवम्भूततया हि भक्त्यभिहितो योगस्स योगद्वयात्

कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते ।

सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका

भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ

॥6॥

श्लोक 8

निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं

तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।

तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो

त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी

॥7॥

श्लोक 9

अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला

बोधे भक्तिपथेऽथवाऽप्युचिततामायान्ति किं तावता ।

क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन-

श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिस्सिद्ध्यन्ति जन्मान्तरैः

॥8॥

श्लोक 10

त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं

सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।

सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद-

प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर

॥9॥

श्लोक 11

नारायणीयं दशक 2 - भगवतः स्वरूपमाधुर्यं तथा भक्तिमहत्त्वम् | (Narayaniyam Dashaka 2) Lyrics | Vedic Tithi