Stotram - Sacred Scripture

Narayaniyam Dashaka 1

Narayaniyam Dashaka 1

Stotram
Unknown
10 Verses
110%

दशकं 1 - भगवतः स्वरूपं तथा माहात्म्यम्

श्लोक 1

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां

निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।

अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं

तत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम्

श्लोक 2

एवन्दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्

तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।

एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै

निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः

॥ 1 ॥

श्लोक 3

सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्

भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम्।

तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपं

तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते

॥ 2 ॥

श्लोक 4

निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे

निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।

कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा

कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्

॥ 3 ॥

श्लोक 5

निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां

तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले।

तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं

स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपं

॥ 4 ॥

श्लोक 6

तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं

लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम्।

लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः

सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ

॥5॥

श्लोक 7

कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-

मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने।

नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं

नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन्

॥6॥

श्लोक 8

नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान -

प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च।

इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं

क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम्

॥7॥

श्लोक 9

कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-

दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम्।

त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्या-

स्त्वं चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते

॥8॥

श्लोक 10

ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां

तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्।

अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता

तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि

॥9॥

श्लोक 11