Stotram - Sacred Scripture

Narayaniyam Dashaka 69

Narayaniyam Dashaka 69

Stotram
Narayana
11 Verses
110%

नारायणीयं दशक 69 - रासक्रीडा

श्लोक 1

केशपाशधृतपिञ्छिकाविततिसञ्चलन्मकरकुण्डलं

हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।

पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं

रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे

श्लोक 2

तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले

गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।

अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्

मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः

॥1॥

श्लोक 3

वासुदेव तव भासमानमिह रासकेलिरससौरभं

दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।

वेषभूषणविलासपेशलविलासिनीशतसमावृता

नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली

॥2॥

श्लोक 4

वेणुनादकृततानदानकलगानरागगतियोजना-

लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।

पाणिसङ्क्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजं

श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम्

॥3॥

श्लोक 5

स्पर्धया विरचितानुगानकृततारतारमधुरस्वरे

नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।

सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं

चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम्

॥4॥

श्लोक 6

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना

कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ॥

काचिदाचलितकुन्तला नवपटीरसारघनसौरभं

वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरा

॥5॥

श्लोक 7

कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं

पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।

इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे

त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम्

॥6॥

श्लोक 8

गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं

ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।

नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं

ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे

॥7॥

श्लोक 9

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो

केलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् ।

मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित-

स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान्

॥8॥

श्लोक 10

केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः

स्वैरमीश ननु सूरजापयसि चारुनाम विहृतिं व्यधाः ।

काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे

सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम्

॥9॥

श्लोक 11

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्

पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।

ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्

भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम्

॥10॥

श्लोक 12