Stotram - Sacred Scripture

Narayaniyam Dashaka 100

Narayaniyam Dashaka 100

Stotram
Narayana
10 Verses
110%

नारायणीयं दशक 100 - भगवतः केशादिपादवर्णनम्

श्लोक 1

अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं

पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।

तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै-

रावीतं नारदाद्यैर्विलसदुपनिषत्सुन्दरीमण्डलैश्च

श्लोक 2

नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या

रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।

मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं

स्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥2

हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै-

रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते ।

सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं

कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे

॥1॥

श्लोक 3

उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-

व्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् ।

उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः-

प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं वक्त्रमुद्भासतां मे

॥3॥

श्लोक 4

बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले-

नोपात्तां वेणुनाली प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।

कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः

शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम्

॥4॥

श्लोक 5

उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं

वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् ।

नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल-

ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम्

॥5॥

श्लोक 6

अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं

लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।

शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं

ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्किणीमण्डितं त्वाम्

॥6॥

श्लोक 7

ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः

विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।

आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग-

च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे

॥7॥

श्लोक 8

मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं

पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् ।

उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां

सन्तापध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम्

॥8॥

श्लोक 9

योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो

भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् ।

नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो

हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम्

॥9॥

श्लोक 10

अज्ञात्वा ते महत्वं यदिह निगदितं विश्वनाथ क्षमेथाः

स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् ।

द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन

स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्

॥10॥

श्लोक 11