Stotram - Sacred Scripture

Narayaniyam Dashaka 84

Narayaniyam Dashaka 84

Stotram
Narayana
11 Verses
110%

नारायणीयं दशक 84 - समन्तपञ्चकतीर्थयात्रा - बन्धुमित्रादि समागमम्

श्लोक 1

क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।

यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम्

श्लोक 2

बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् ।

द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः

॥1॥

श्लोक 3

तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।

तदुदितभवदाहृतिप्रकारैः अतिमुमुदे सममन्यभामिनीभिः

॥2॥

श्लोक 4

तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा।

चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः

॥3॥

श्लोक 5

सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् ।

अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः

॥4॥

श्लोक 6

रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाऽभूत् ।

इति कृतपरिरम्भणेत्वयि द्राक् अतिविवशा खलु राधिका निलिल्ये

॥5॥

श्लोक 7

अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् ।

परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति

॥6॥

श्लोक 8

सुखरसपरिमिश्रितो वियोगः किमपि पुराऽभवदुद्धवोपदेशैः ।

समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता

॥7॥

श्लोक 9

मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।

त्वयि सति किमिदं शुभान्तरैः रित्युरुहसितैरपि याजितस्तदाऽसौ

॥8॥

श्लोक 10

सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।

यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजु ः

॥9॥

श्लोक 11

व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।

प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः

॥10॥

श्लोक 12