Stotram - Sacred Scripture

Narayaniyam Dashaka 8

Narayaniyam Dashaka 8

Stotram
Narayana
13 Verses
110%

नारायणीयं दशक 8 - प्रलयवर्णनम्

श्लोक 1

एवं तावत् प्राकृतप्रक्षयान्ते

ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।

ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्

सृष्टिं चक्रे पूर्वकल्पोपमानाम्

श्लोक 2

सोऽयं चतुर्युगसहस्रमितान्यहानि

तावन्मिताश्च रजनीर्बहुशो निनाय ।

निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै-

र्नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम्

॥1॥

श्लोक 3

अस्मादृशां पुनरहर्मुखकृत्यतुल्यां

सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।

प्राग्ब्राह्मकल्पजनुषां च परायुषां तु

सुप्तप्रबोधनसमास्ति तदाऽपि सृष्टिः

॥2॥

श्लोक 4

पञ्चाशदब्दमधुना स्ववयोर्धरूप-

मेकं परार्धमतिवृत्य हि वर्ततेऽसौ ।

तत्रान्त्यरात्रिजनितान् कथयामि भूमन्

पश्चाद्दिनावतरणे च भवद्विलासान्

॥3॥

श्लोक 5

दिनावसानेऽथ सरोजयोनिः

सुषुप्तिकामस्त्वयि सन्निलिल्ये ।

जगन्ति च त्वज्जठरं समीयु-

स्तदेदमेकार्णवमास विश्वम्

॥4॥

श्लोक 6

तवैव वेषे फणिराजि शेषे

जलैकशेषे भुवने स्म शेषे ।

आनन्दसान्द्रानुभवस्वरूपः

स्वयोगनिद्रापरिमुद्रितात्मा

॥5॥

श्लोक 7

कालाख्यशक्तिं प्रलयावसाने

प्रबोधयेत्यादिशता किलादौ ।

त्वया प्रसुप्तं परिसुप्तशक्ति-

व्रजेन तत्राखिलजीवधाम्ना

॥6॥

श्लोक 8

चतुर्युगाणां च सहस्रमेवं

त्वयि प्रसुप्ते पुनरद्वितीये ।

कालाख्यशक्तिः प्रथमप्रबुद्धा

प्राबोधयत्त्वां किल विश्वनाथ

॥7॥

श्लोक 9

विबुध्य च त्वं जलगर्भशायिन्

विलोक्य लोकानखिलान् प्रलीनान् ।

तेष्वेव सूक्ष्मात्मतया निजान्तः -

स्थितेषु विश्वेषु ददाथ दृष्टिम्

॥8॥

श्लोक 10

ततस्त्वदीयादयि नाभिरन्ध्रा-

दुदञ्चितं किञ्चन दिव्यपद्मम् ।

निलीननिश्शेषपदार्थमाला-

सङ्क्षेपरूपं मुकुलायमानम्

॥9॥

श्लोक 11

तदेतदम्भोरुहकुड्मलं ते

कलेवरात् तोयपथे प्ररूढम् ।

बहिर्निरीतं परितः स्फुरद्भिः

स्वधामभिर्ध्वान्तमलं न्यकृन्तत्

॥10॥

श्लोक 12

सम्फुल्लपत्रे नितरां विचित्रे

तस्मिन् भवद्वीर्यधृते सरोजे ।

स पद्मजन्मा विधिराविरासीत्

स्वयम्प्रबुद्धाखिलवेदराशिः

॥11॥

श्लोक 13

अस्मिन् परात्मन् ननु पाद्मकल्पे

त्वमित्थमुत्थापितपद्मयोनिः ।

अनन्तभूमा मम रोगराशिं

निरुन्धि वातालयवास विष्णो

॥12॥

श्लोक 14