Stotram - Sacred Scripture

Ketu Ashtottara Sata Nama Stotram

Ketu Ashtottara Sata Nama Stotram

Stotram
Unknown
21 Verses
110%

केतु अष्टोत्तर शत नाम स्तोत्रम्

श्लोक 1

शृणु नामानि जप्यानि केतो रथ महामते ।

केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः

श्लोक 2

नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः ।

महाभीतिकरश्चित्रवर्णो वै पिङ्गलाक्षकः

॥ 1 ॥

श्लोक 3

स फलोधूम्रसङ्काशः तीक्ष्णदंष्ट्रो महोरगः ।

रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः

॥ 2 ॥

श्लोक 4

क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः ।

अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही

॥ 3 ॥

श्लोक 5

वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा ।

चित्रध्वजपताकश्च घोरश्चित्ररथः शिखी

॥ 4 ॥

श्लोक 6

कुलुत्थभक्षकश्चैव वैडूर्याभरणस्तथा ।

उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा

॥ 5 ॥

श्लोक 7

गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा ।

जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः

॥ 6 ॥

श्लोक 8

मुकुन्दवरपात्रं च महासुरकुलोद्भवः ।

घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च

॥ 7 ॥

श्लोक 9

उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः ।

नृपीडो ग्रहकारी च सर्वोपद्रवकारकः

॥ 8 ॥

श्लोक 10

चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः ।

अपसव्यप्रचारी च नवमे पापदायकः

॥ 9 ॥

श्लोक 11

पञ्चमे शोकदश्चोपरागखेचर एव च ।

अतिपुरुषकर्मा च तुरीये (तु) सुखप्रदः

॥ 10 ॥

श्लोक 12

तृतीये वैरदः पापग्रहश्च स्फोटकारकः ।

प्राणनाथः पञ्चमे तु श्रमकारक एव च

॥ 11 ॥

श्लोक 13

द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः ।

कामरूपी सिंहदन्तः सत्येप्यनृतवानपि

॥ 12 ॥

श्लोक 14

चतुर्थे मातृनाशश्च नवमे पितृनाशकः ।

अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः

॥ 13 ॥

श्लोक 15

सर्पाक्षिजातोऽनङ्गश्च कर्मराश्युद्भवस्तथा ।

उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः

॥ 14 ॥

श्लोक 16

अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः ।

जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः

॥ 15 ॥

श्लोक 17

पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः ।

शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः

॥ 16 ॥

श्लोक 18

धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः ।

सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः

॥ 17 ॥

श्लोक 19

अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः ।

भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा

॥ 18 ॥

श्लोक 20

विचित्रफलदायी च भक्ताभीष्टफलप्रदः ।

एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम्

॥ 19 ॥

श्लोक 21

यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् ।

स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात्

॥ 20 ॥

श्लोक 22

इति श्री केतु अष्टोत्तरशतनाम स्तोत्रम् ।