Sri Venkateswara Ashtottara Sata Nama Stotram
Sri Venkateswara Ashtottara Sata Nama Stotram
श्री वेङ्कटेश्वर अष्टोत्तरशत नामस्तोत्रम्
श्लोक 1
ॐ श्रीवेङ्कटेशः श्रीवासो लक्ष्मी पतिरनामयः ।
अमृतांशो जगद्वन्द्यो गोविन्द श्शाश्वतः प्रभुः
श्लोक 2
शेषाद्रिनिलयो देवः केशवो मधुसूदनः
अमृतो माधवः कृष्णः श्रीहरिर् ज्ञानपञ्जरः
॥ 1 ॥
श्लोक 3
श्रीवत्सवक्षाः सर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परञ्ज्योति-र्वैकुण्ठपति-रव्ययः
॥ 2 ॥
श्लोक 4
सुधातनु-र्यादवेन्द्रो नित्ययौवनरूपवान् ।
चतुर्वेदात्मको विष्णु-रच्युतः पद्मिनीप्रियः
॥ 3 ॥
श्लोक 5
धरापति-स्सुरपति-र्निर्मलो देव पूजितः ।
चतुर्भुज-श्चक्रधर-स्त्रिधामा त्रिगुणाश्रयः
॥ 4 ॥
श्लोक 6
निर्विकल्पो निष्कलङ्को निरान्तको निरञ्जनः ।
निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः
॥ 5 ॥
श्लोक 7
गदाधर-श्शार्ङ्गपाणि-र्नन्दकी शङ्खधारकः ।
अनेकमूर्ति-रव्यक्तः कटिहस्तो वरप्रदः
॥ 6 ॥
श्लोक 8
अनेकात्मा दीनबन्धु-रार्तलोकाभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्ममन्दिरः
॥ 7 ॥
श्लोक 9
दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः ।
त्रिविक्रम-श्शिंशुमारो जटामकुटशोभितः
॥ 8 ॥
श्लोक 10
शङ्खमध्योल्लसन्मञ्जु किङ्किणाढ्यकरण्ढकः ।
नीलमेघश्यामतनु-र्बिल्वपत्रार्चनप्रियः
॥ 9 ॥
श्लोक 11
जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिन्तितार्थप्रदो जिष्णु-र्दाशार्हो दशरूपवान्
॥ 10 ॥
श्लोक 12
देवकीनन्दन-श्शौरि-र्हयग्रीवो जनार्दनः ।
कन्याश्रवणतारेज्यः पीताम्बरधरोऽनघः
॥ 11 ॥
श्लोक 13
वनमाली पद्मनाभो मृगयासक्त मानसः ।
अश्वारूढः खड्गधारी धनार्जन समुत्सुकः
॥ 12 ॥
श्लोक 14
घनसारलसन्मध्य कस्तूरी तिलकोज्ज्वलः ।
सच्चिदानन्दरूपश्च जगन्मङ्गलदायकः
॥ 13 ॥
श्लोक 15
यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रदः शान्तः श्रीमान् दोर्दण्डविक्रमः
॥ 14 ॥
श्लोक 16
परात्परः परम्ब्रह्म श्रीविभु-र्जगदीश्वरः ।
एवं श्रीवेङ्कटेशस्य नाम्ना-मष्टोत्तरं शतम् ॥
पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् ।
त्रिसन्ध्यं यः पघेन्निष्यं सर्वान् कामिवाप्नु यात् ॥
॥ श्री वेङ्कटेश्वरार्पणमस्तु ॥
