Subrahmanya Ashtottara Sata Nama Stotram
Subrahmanya Ashtottara Sata Nama Stotram
सुब्रह्मण्यष्टोत्तरशत नामस्तोत्रम्
श्लोक 1
शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् ।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥
इति ध्यानम्
स्कन्दो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः ।
पिङ्गलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः
श्लोक 2
द्विषण्णेत्र-श्शक्तिधरः पिशिताश प्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः
॥ 1 ॥
श्लोक 3
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालु र्भक्तवत्सलः
॥ 2 ॥
श्लोक 4
उमासुत-श्शक्तिधरः कुमारः क्रौञ्चधारणः ।
सेनानी-रग्निजन्मा च विशाखः शङ्करात्मजः
॥ 3 ॥
श्लोक 5
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्तमूर्ति रक्षोभ्यः पार्वतीप्रियनन्दनः
॥ 4 ॥
श्लोक 6
गङ्गासुत-श्शरोद्भूत आहूतः पावकात्मजः ।
जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसंस्तुतः
॥ 5 ॥
श्लोक 7
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापति-रहस्पतिः
॥ 6 ॥
श्लोक 8
अग्निगर्भ-श्शमीगर्भो विश्वरेता-स्सुरारिहा ।
हरिद्वर्ण-श्शुभकरो पटुश्च वटुवेषभृत्
॥ 7 ॥
श्लोक 9
पूषा गभस्ति-र्गहन श्चन्द्रवर्णः कलाधरः ।
मायाधरो महामायी कैवल्य-श्शङ्करात्मजः
॥ 8 ॥
श्लोक 10
विश्वयोनि-रमेयात्मा तेजोनिधि-रनामयः ।
परमेष्ठी परम्ब्रह्म वेदगर्भो विराट्सुतः
॥ 9 ॥
श्लोक 11
पुलिन्दकन्याभर्ता च महासारस्वतावृतः ।
अश्रितोखिलदाता च चोरघ्नो रोगनाशनः
॥ 10 ॥
श्लोक 12
अनन्तमूर्ति-रानन्द-श्शिखण्डीकृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः
॥ 11 ॥
श्लोक 13
कारणोपात्तदेहश्च कारणातीतविग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः
॥ 12 ॥
श्लोक 14
विरुद्धहन्ता वीरघ्नो रक्तश्यामगलोऽपि च ।
सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः
॥ 13 ॥
श्लोक 15
वंशवृद्धिकरो वेदो वेद्योऽक्षयफलप्रदः
॥ 14 ॥
श्लोक 16
इति श्री सुब्रह्मण्याष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ।
