Chandra Ashtottara Sata Nama Stotram
Chandra Ashtottara Sata Nama Stotram
चन्द्र अष्टोत्तर शत नाम स्तोत्रम्
श्लोक 1
श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः
श्लोक 2
जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषां पतिः
॥ 1 ॥
श्लोक 3
दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनन्तकष्टदारुकुठारकः
॥ 2 ॥
श्लोक 4
स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कलाधरः कालहेतुः कामकृत्कामदायकः
॥ 3 ॥
श्लोक 5
मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः
॥ 4 ॥
श्लोक 6
जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयः सुरस्वामी भक्तनामिष्टदायकः
॥ 5 ॥
श्लोक 7
भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः ।
सामगानप्रियः सर्वरक्षकः सागरोद्भवः
॥ 6 ॥
श्लोक 8
भयान्तकृद्भक्तिगम्यो भवबन्धविमोचकः ।
जगत्प्रकाशकिरणो जगदानन्दकारणः
॥ 7 ॥
श्लोक 9
निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः
॥ 8 ॥
श्लोक 10
सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः
॥ 9 ॥
श्लोक 11
सितच्छत्रध्वजोपेतः सिताङ्गो सितभूषणः ।
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः
॥ 10 ॥
श्लोक 12
दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः
॥ 11 ॥
श्लोक 13
आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः
॥ 12 ॥
श्लोक 14
चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः
॥ 13 ॥
श्लोक 15
महेश्वरप्रियो दान्तः मेरुगोत्रप्रदक्षिणः ।
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः
॥ 14 ॥
श्लोक 16
द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुम्बरनगावास उदारो रोहिणीपतिः
॥ 15 ॥
श्लोक 17
नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।
सकलाह्लादनकरः पलाशसमिधप्रियः
॥ 16 ॥
श्लोक 18
एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ॥
इति श्री चन्द्र अष्टोत्तरशतनाम स्तोत्रम् ।
