Kavacham - Sacred Scripture

Ketu Kavacham

Ketu Kavacham

Kavacham
Unknown
6 Verses
110%

केतु कवचम्

श्लोक 1

ध्यानं

केतुं करालवदनं चित्रवर्णं किरीटिनम् ।

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम्

श्लोक 2

। अथ केतु कवचम् ।

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।

पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः

॥ 1 ॥

श्लोक 3

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।

पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः

॥ 2 ॥

श्लोक 4

हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।

सिंहासनः कटिं पातु मध्यं पातु महासुरः

॥ 3 ॥

श्लोक 5

ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ।

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः

॥ 4 ॥

श्लोक 6

फलश्रुतिः

य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।

सर्वशत्रुविनाशं च धारणाद्विजयी भवेत्

॥ 5 ॥

श्लोक 7

॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥