Lakshmi Narasimha Ashtottara Sata Nama Stotram
Lakshmi Narasimha Ashtottara Sata Nama Stotram
लक्ष्मी नरसिंह अष्टोत्तर शत नाम स्तोत्रम्
श्लोक 1
नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवस्स्तम्भजश्चोग्रलोचनः
श्लोक 2
रौद्रस्सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः
॥ 1 ॥
श्लोक 3
पञ्चाननः परब्रह्म चाऽघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः
॥ 2 ॥
श्लोक 4
निटिलाक्षस्सहस्राक्षो दुर्निरीक्षः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः
॥ 3 ॥
श्लोक 5
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः
॥ 4 ॥
श्लोक 6
करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिंशुमारस्त्रिलोकात्मा ईशस्सर्वेश्वरो विभुः
॥ 5 ॥
श्लोक 7
भैरवाडम्बरो दिव्यश्चाऽच्युतः कवि माधवः ।
अधोक्षजोऽक्षरश्शर्वो वनमाली वरप्रदः
॥ 6 ॥
श्लोक 8
विश्वम्भरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः ।
अनघास्त्रो नखास्त्रश्च सूर्यज्योतिस्सुरेश्वरः
॥ 7 ॥
श्लोक 9
सहस्रबाहुःस्सर्वज्ञस्सर्वसिद्धिप्रदायकः ।
वज्रदंष्ट्रो वज्रनखो महानन्दः परन्तपः
॥ 8 ॥
श्लोक 10
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तस्सुव्यक्तो भक्तवत्सलः
॥ 9 ॥
श्लोक 11
वैशाखशुक्लभूतोत्थः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः
॥ 10 ॥
श्लोक 12
वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः
॥ 11 ॥
श्लोक 13
जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परञ्ज्योतिर्निर्गुणश्च नृकेसरी
॥ 12 ॥
श्लोक 14
परतत्त्वः परन्धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहस्सर्वात्मा धीरः प्रह्लादपालकः
॥ 13 ॥
श्लोक 15
इदं श्रीमन्नृसिंहस्य नाम्नामष्टोत्तरं शतम् ।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात्
॥ 14 ॥
श्लोक 16
इति श्रीनृसिंहपूजाकल्पे श्री लक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् ।
Related Scriptures
अगस्त्य कृत श्री लक्ष्मी स्तोत्रं
33 verses
अन्नमय्य कीर्तन जय लक्ष्मि वर लक्ष्मि
0 verses
अष्ट लक्ष्मी स्तोत्रम्
8 verses
भाग्यदा लक्ष्मी बारम्मा
0 verses
1000 Names of Goddess Lakshmi
1000 verses
108 Names of Goddess Lakshmi
108 verses
