Mantra - Sacred Scripture

Sri Vyuha Lakshmi Mantram

Sri Vyuha Lakshmi Mantram

Mantra
Lakshmi
7 Verses
110%

श्री व्यूह लक्ष्मी मन्त्रम्

श्लोक 1

व्यूहलक्ष्मी तन्त्रः

दयालोल तरङ्गाक्षी पूर्णचन्द्र निभानना ।

जननी सर्वलोकानां महालक्ष्मीः हरिप्रिया

श्लोक 2

सर्वपाप हरासैव प्रारब्धस्यापि कर्मणः ।

संहृतौ तु क्षमासैव सर्व सम्पत्प्रदायिनी

॥ 1 ॥

श्लोक 3

तस्या व्यूह प्रभेदास्तु लक्षीः सर्वपाप प्रणाशिनी ।

तत्रया व्यूहलक्ष्मी सा मुग्धाः कारुण्य विग्रह

॥ 2 ॥

श्लोक 4

अनायासेन सा लक्ष्मीः सर्वपाप प्रणाशिनी ।

सर्वैश्वर्य प्रदा नित्यं तस्या मन्त्रमिमं शृणु

॥ 3 ॥

श्लोक 5

वेदादिमायै मात्रे च लक्ष्म्यै नति पदं वदेत् ।

परमेति पदं चोक्त्रा लक्ष्म्या इति पदं ततः

॥ 4 ॥

श्लोक 6

विष्णु वक्षः स्थितायै स्यात् माया श्रीतारिका ततः ।

वह्नि जायान्त मन्त्रोयं अभीष्टार्थ सुरद्रुमः

॥ 5 ॥

श्लोक 7

द्विभूजा व्यूहलक्षीस्स्यात्, बध्ध पद्मासन प्रिया ।

श्रीनिवासाङ्ग मध्यस्था सुतरां केशवप्रिया

॥ 6 ॥

श्लोक 8

तामेव शरणं गछ्छ सर्वभावेन सत्वरम् ।

इति मन्त्रं उपादिश्य ददृशे न कुत्रचित् ॥

व्यूहलक्ष्मी मन्त्रः

वेदादिमायै मात्रे च लक्ष्म्यै नति पदं वदेत् ।

परमेति पदं चोक्त्रा लक्ष्म्या इति पदं ततः ॥

विष्णु वक्षः स्थितायै स्यात् माया श्रीतारिका ततः ।

वह्नि जायान्त मन्त्रोयं अभीष्टार्थ सुरद्रुमः ॥

व्यूहलक्ष्मी मन्त्रः (बीजाक्षर सहितम्)

ॐ श्री ॐ नमः ॥

परमलक्ष्म्मै, विष्णु-वक्षस्थितायै, रमायै, आश्रित-तारकायै नमो, वह्निजायै नमः ॥