Stotram - Sacred Scripture

Maha Lakshmi Ashtakam

Maha Lakshmi Ashtakam

Stotram
Lakshmi
8 Verses
110%

महा लक्ष्म्यष्टकम्

श्लोक 1

इन्द्र उवाच -

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।

शङ्खचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते

श्लोक 2

नमस्ते गरुडारूढे कोलासुर भयङ्करि ।

सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते

॥ 1 ॥

श्लोक 3

सर्वज्ञे सर्ववरदे सर्व दुष्ट भयङ्करि ।

सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तु ते

॥ 2 ॥

श्लोक 4

सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि ।

मन्त्र मूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते

॥ 3 ॥

श्लोक 5

आद्यन्त रहिते देवि आदिशक्ति महेश्वरि ।

योगज्ञे योग सम्भूते महालक्ष्मि नमोऽस्तु ते

॥ 4 ॥

श्लोक 6

स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे ।

महा पाप हरे देवि महालक्ष्मि नमोऽस्तु ते

॥ 5 ॥

श्लोक 7

पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि ।

परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते

॥ 6 ॥

श्लोक 8

श्वेताम्बरधरे देवि नानालङ्कार भूषिते ।

जगस्थिते जगन्मातः महालक्ष्मि नमोऽस्तु ते

॥ 7 ॥

श्लोक 9

महालक्ष्मष्टकं स्तोत्रं यः पठेद् भक्तिमान् नरः ।

सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥

एककाले पठेन्नित्यं महापाप विनाशनम् ।

द्विकालं यः पठेन्नित्यं धन धान्य समन्वितः ॥

त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनम् ।

महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा ॥