Stotram - Sacred Scripture

Sree Lakshmi Ashtottara Satanaama Stotram

Sree Lakshmi Ashtottara Satanaama Stotram

Stotram
Lakshmi
19 Verses
110%

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

श्लोक 1

देव्युवाच

देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!

करुणाकर देवेश! भक्तानुग्रहकारक! ॥

अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥

ईश्वर उवाच

देवि! साधु महाभागे महाभाग्य प्रदायकम् ।

सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥

सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।

राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥

दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।

पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ॥

समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदम् ।

किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥

तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।

अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥

क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।

अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥

ध्यानं

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां

हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।

भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां

पार्श्वे पङ्कज शङ्खपद्म निधिभिः युक्तां सदा शक्तिभिः ॥

सरसिज नयने सरोजहस्ते धवल तरांशुक गन्धमाल्य शोभे ।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥

प्रकृतिं विकृतिं विद्यां सर्वभूत-हितप्रदाम् ।

श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम्

श्लोक 2

वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।

धन्यां हिरण्ययीं लक्ष्मीं नित्यपुष्टां विभावरीम्

॥ 1 ॥

श्लोक 3

अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।

नमामि कमलां कान्तां कामाक्षीं क्रोधसम्भवाम् [काम्यां क्षीरोदसम्भवाम्]

॥ 2 ॥

श्लोक 4

अनुग्रहप्रदां बुद्धि-मनघां हरिवल्लभाम् ।

अशोका-ममृतां दीप्तां लोकशोकविनाशिनीम्

॥ 3 ॥

श्लोक 5

नमामि धर्मनिलयां करुणां लोकमातरम् ।

पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम्

॥ 4 ॥

श्लोक 6

पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।

पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम्

॥ 5 ॥

श्लोक 7

पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।

नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम्

॥ 6 ॥

श्लोक 8

चतुर्भुजां चन्द्ररूपा-मिन्दिरा-मिन्दुशीतलाम् ।

आह्लाद जननीं पुष्टिं शिवां शिवकरीं सतीम्

॥ 7 ॥

श्लोक 9

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।

प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम्

॥ 8 ॥

श्लोक 10

भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।

वसुन्धरा मुदाराङ्गां हरिणीं हेममालिनीम्

॥ 9 ॥

श्लोक 11

धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां [सदासौम्यां] शुभप्रदाम् ।

नृपवेश्मगतां नन्दां वरलक्ष्मीं वसुप्रदाम्

॥ 10 ॥

श्लोक 12

शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।

नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम्

॥ 11 ॥

श्लोक 13

विष्णुपत्नीं, प्रसन्नाक्षीं नारायणसमाश्रिताम् ।

दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीम्

॥ 12 ॥

श्लोक 14

नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।

त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम्

॥ 13 ॥

श्लोक 15

लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरङ्गधामेश्वरीम् ।

दासीभूत समस्तदेव वनितां लोकैक दीपाङ्कुराम् ॥

श्रीमन्मन्द कटाक्ष लब्ध विभवद्-ब्रह्मेन्द्र गङ्गाधराम् ।

त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्

॥ 14 ॥

श्लोक 16

मातर्नमामि! कमले! कमलायताक्षि!

श्री विष्णु हृत्-कमलवासिनि! विश्वमातः!

क्षीरोदजे कमल कोमल गर्भगौरि!

लक्ष्मी! प्रसीद सततं समतां शरण्ये

॥ 15 ॥

श्लोक 17

त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः ।

दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ।

देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः

॥ 16 ॥

श्लोक 18

भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् ।

अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥

दारिद्र्य मोचनं नाम स्तोत्रमम्बापरं शतम् ।

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः

॥ 17 ॥

श्लोक 19

भुक्त्वातु विपुलान् भोगान् अन्ते सायुज्यमाप्नुयात् ।

प्रातःकाले पठेन्नित्यं सर्व दुःखोप शान्तये ।

पठन्तु चिन्तयेद्देवीं सर्वाभरण भूषिताम्

॥ 18 ॥

श्लोक 20

इति श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णं

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् | (Sree Lakshmi Ashtottara Satanaama Stotram) Lyrics | Vedic Tithi