Sri Bhadrakali Ashtottara Satanama Stotram
Sri Bhadrakali Ashtottara Satanama Stotram
श्री भद्रकाली अष्टोत्तर शत नामा स्तोत्रं
श्लोक 1
श्रीनन्दिकेश्वर उवाच
भद्रकालीमहं वन्दे वीरभद्रसतीं शिवाम् ।
सुताम्रार्चितपादाब्जं सुखसौभाग्यदायिनीम्
श्लोक 2
अथ स्तोत्रम्
भद्रकाली कामरूपा महाविद्या यशस्विनी ।
महाश्रया महाभागा दक्षयागविभेदिनी
॥ 1 ॥
श्लोक 3
रुद्रकोपसमुद्भूता भद्रा मुद्रा शिवङ्करी ।
चन्द्रिका चन्द्रवदना रोषताम्राक्षशोभिनी
॥ 2 ॥
श्लोक 4
इन्द्रादिदमनी शान्ता चन्द्रलेखाविभूषिता ।
भक्तार्तिहारिणी मुक्ता चण्डिकानन्ददायिनी
॥ 3 ॥
श्लोक 5
सौदामिनी सुधामूर्तिः दिव्यालङ्कारभूषिता ।
सुवासिनी सुनासा च त्रिकालज्ञा धुरन्धरा
॥ 4 ॥
श्लोक 6
सर्वज्ञा सर्वलोकेशी देवयोनिरयोनिजा ।
निर्गुणा निरहङ्कारा लोककल्याणकारिणी
॥ 5 ॥
श्लोक 7
सर्वलोकप्रिया गौरी सर्वगर्वविमर्दिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा
॥ 6 ॥
श्लोक 8
वीरभद्रकृतानन्दभोगिनी वीरसेविता ।
नारदादिमुनिस्तुत्या नित्या सत्या तपस्विनी
॥ 7 ॥
श्लोक 9
ज्ञानरूपा कलातीता भक्ताभीष्टफलप्रदा ।
कैलासनिलया शुभ्रा क्षमा श्रीः सर्वमङ्गला
॥ 8 ॥
श्लोक 10
सिद्धविद्या महाशक्तिः कामिनी पद्मलोचना ।
देवप्रिया दैत्यहन्त्री दक्षगर्वापहारिणी
॥ 9 ॥
श्लोक 11
शिवशासनकर्त्री च शैवानन्दविधायिनी ।
भवपाशनिहन्त्री च सवनाङ्गसुकारिणी
॥ 10 ॥
श्लोक 12
लम्बोदरी महाकाली भीषणास्या सुरेश्वरी ।
महानिद्रा योगनिद्रा प्रज्ञा वार्ता क्रियावती
॥ 11 ॥
श्लोक 13
पुत्रपौत्रप्रदा साध्वी सेनायुद्धसुकाङ्क्षिणी ।
इच्छा शम्भोः कृपासिन्धुः चण्डी चण्डपराक्रमा
॥ 12 ॥
श्लोक 14
शोभा भगवती माया दुर्गा नीला मनोगतिः ।
खेचरी खड्गिनी चक्रहस्ता शूलविधारिणी
॥ 13 ॥
श्लोक 15
सुबाणा शक्तिहस्ता च पादसञ्चारिणी परा ।
तपःसिद्धिप्रदा देवी वीरभद्रसहायिनी
॥ 14 ॥
श्लोक 16
धनधान्यकरी विश्वा मनोमालिन्यहारिणी ।
सुनक्षत्रोद्भवकरी वंशवृद्धिप्रदायिनी
॥ 15 ॥
श्लोक 17
ब्रह्मादिसुरसंसेव्या शाङ्करी प्रियभाषिणी ।
भूतप्रेतपिशाचादिहारिणी सुमनस्विनी
॥ 16 ॥
श्लोक 18
पुण्यक्षेत्रकृतावासा प्रत्यक्षपरमेश्वरी ।
एवं नाम्नां भद्रकाल्याः शतमष्टोत्तरं विदुः
॥ 17 ॥
श्लोक 19
पुण्यं यशो दीर्घमायुः पुत्रपौत्रं धनं बहु ।
ददाति देवी तस्याशु यः पठेत् स्तोत्रमुत्तमम्
॥ 18 ॥
श्लोक 20
भौमवारे भृगौ चैव पौर्णमास्यां विशेषतः ।
प्रातः स्नात्वा नित्यकर्म विधाय च सुभक्तिमान्
॥ 19 ॥
श्लोक 21
वीरभद्रालये भद्रां सम्पूज्य सुरसेविताम् ।
पठेत् स्तोत्रमिदं दिव्यं नाना भोगप्रदं शुभम्
॥ 20 ॥
श्लोक 22
अभीष्टसिद्धिं प्राप्नोति शीघ्रं विद्वान् परन्तप ।
अथवा स्वगृहे वीरभद्रपत्नीं समर्चयेत्
॥ 21 ॥
श्लोक 23
स्तोत्रेणानेन विधिवत् सर्वान् कामानवाप्नुयात् ।
रोगा नश्यन्ति तस्याशु योगसिद्धिं च विन्दति
॥ 22 ॥
श्लोक 24
सनत्कुमारभक्तानामिदं स्तोत्रं प्रबोधय ।
रहस्यं सारभूतं च सर्वज्ञः सम्भविष्यसि
॥ 23 ॥
श्लोक 25
इति श्रीभद्रकाल्यष्टोत्तरशतनाम स्तोत्रम् ।
