Ganapati Gakara Ashtottara Satanama Stotram
Ganapati Gakara Ashtottara Satanama Stotram
गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्
श्लोक 1
गकाररूपो गम्बीजो गणेशो गणवन्दितः ।
गणनीयो गणोगण्यो गणनातीत सद्गुणः
श्लोक 2
गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।
गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः
॥ 1 ॥
श्लोक 3
गदाधरनुतो गद्यपद्यात्मककवित्वदः ।
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः
॥ 2 ॥
श्लोक 4
गञ्जानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः ।
गण्डदानाञ्चितोगन्ता गण्डोपल समाकृतिः
॥ 3 ॥
श्लोक 5
गगन व्यापको गम्यो गमानादि विवर्जितः ।
गण्डदोषहरो गण्ड भ्रमद्भ्रमर कुण्डलः
॥ 4 ॥
श्लोक 6
गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।
गन्धप्रियो गन्धवाहो गन्धसिन्धुरबृन्दगः
॥ 5 ॥
श्लोक 7
गन्धादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः ।
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः
॥ 6 ॥
श्लोक 8
गविष्ठोगर्जितारावो गभीरहृदयो गदी ।
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः
॥ 7 ॥
श्लोक 9
गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः ।
गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः
॥ 8 ॥
श्लोक 10
गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।
गदाधरावतारीच गन्धर्वनगरार्चितः
॥ 9 ॥
श्लोक 11
गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ।
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः
॥ 10 ॥
श्लोक 12
गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ।
गर्हिताचार दूरश्च गरुडोपलभूषितः
॥ 11 ॥
श्लोक 13
गजारि विक्रमो गन्धमूषवाजी गतश्रमः ।
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः
॥ 12 ॥
श्लोक 14
गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ।
गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः
॥ 13 ॥
श्लोक 15
गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः ।
गणिकानर्तनप्रीतोगच्छन् गन्धफली प्रियः
॥ 14 ॥
श्लोक 16
गन्धकादि रसाधीशो गणकानन्ददायकः ।
गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः
॥ 15 ॥
श्लोक 17
गण्डूषीकृतवाराशिः गरिमालघिमादिदः ।
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः
॥ 16 ॥
श्लोक 18
गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ।
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः
॥ 17 ॥
श्लोक 19
गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः ।
गर्हणीय गुणाभावो गङ्गादिक शुचिप्रदः
॥ 18 ॥
श्लोक 20
गणनातीत विद्याश्री बलायुष्यादिदायकः ।
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम्
॥ 19 ॥
श्लोक 21
पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।
पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट्
॥ 20 ॥
श्लोक 22
यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान्
॥ 21 ॥
श्लोक 23
एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति
॥ 22 ॥
श्लोक 24
॥ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ॥
