Sri Annapurna Ashtottara Satanama Stotram
Sri Annapurna Ashtottara Satanama Stotram
श्री अन्नपूर्णा अष्टोत्तरशत नाम्स्तोत्रम्
श्लोक 1
अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः श्री अन्नपूर्णेश्वरी देवता स्वधा बीजं स्वाहा शक्तिः ॐ कीलकं मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा
श्लोक 2
वेदवेद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी
॥ 1 ॥
श्लोक 3
भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा
॥ 2 ॥
श्लोक 4
भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममङ्गला
॥ 3 ॥
श्लोक 5
भवानी चञ्चला गौरी चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी
॥ 4 ॥
श्लोक 6
आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभाऽनन्ता वृत्तपीनपयोधरा
॥ 5 ॥
श्लोक 7
अम्बा संहारमथनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता
॥ 6 ॥
श्लोक 8
परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परानन्दप्रदायिनी
॥ 7 ॥
श्लोक 9
परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका
॥ 8 ॥
श्लोक 10
शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया
॥ 9 ॥
श्लोक 11
चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
मार्ताण्डनयना साध्वी चन्द्राग्निनयना सती
॥ 10 ॥
श्लोक 12
पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता
॥ 11 ॥
श्लोक 13
असृष्टिस्सङ्गरहिता सृष्टिहेतु कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी
॥ 12 ॥
श्लोक 14
मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी
॥ 13 ॥
श्लोक 15
सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा
॥ 14 ॥
श्लोक 16
नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः
॥ 15 ॥
श्लोक 17
इदं जपाधिकारस्तु प्राणमेव ततस्स्तुतः ।
आवहन्तीति मन्त्रेण प्रत्येकं च यथाक्रमम्
॥ 16 ॥
श्लोक 18
कर्तव्यं तर्पणं नित्यं पीठमन्त्रेति मूलवत् ।
तत्तन्मन्त्रेतिहोमेति कर्तव्यश्चेति मालवत्
॥ 17 ॥
श्लोक 19
एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् ।
स्तुत्वा देवीं च सततं सर्वान्कामानवाप्नुयात्
॥ 18 ॥
श्लोक 20
इति श्री ब्रह्मोत्तरखण्डे आगमप्रख्यातिशिवरहस्ये अन्नपूर्णाष्टोत्तर शतनामस्तोत्रम् ॥
