Dattatreya Ashtottara Satanama Stotram
Dattatreya Ashtottara Satanama Stotram
दत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्
श्लोक 1
ओङ्कारतत्त्वरूपाय दिव्यज्ञानात्मने नमः ।
नभोतीतमहाधाम्न ऐन्द्र्यृध्या ओजसे नमः
श्लोक 2
नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने ।
मोचितामेध्यकृतये ऱ्हीम्बीजश्राणितश्रिये
॥ 1॥
श्लोक 3
मोहादिविभ्रमान्ताय बहुकायधराय च ।
भत्तदुर्वैभवछेत्रे क्लीम्बीजवरजापिने
॥ 2॥
श्लोक 4
भवहे-तुविनाशाय राजच्छोणाधराय च ।
गतिप्रकम्पिताण्डाय चारुव्यहतबाहवे
॥ 3॥
श्लोक 5
गतग-र्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुण्डिने अनसूयवे
॥ 4॥
श्लोक 6
वदद्व-रेण्यवाग्जाला-विस्पृष्टविविधात्मने ।
तपोधनप्रसन्नाये-डापतिस्तुतकीर्तये
॥ 5॥
श्लोक 7
तेजोमण्यन्तरङ्गाया-द्मरसद्मविहापने ।
आन्तरस्थानसंस्थायायैश्वर्यश्रौतगीतये
॥ 6॥
श्लोक 8
वातादिभययुग्भाव-हेतवे हेतुबेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कघातिने
॥ 7॥
श्लोक 9
सुरव-र्गोद्धृते भृत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने
॥ 8॥
श्लोक 10
देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्राम्बीजजपतुष्टये
॥ 9॥
श्लोक 11
वासनावनदावाय धूलियुग्देहमालिने ।
यतिसन्न्यासिगतये दत्तात्रेयेति संविदे
॥ 10॥
श्लोक 12
यजनास्यभुजेजाय तारकावासगामिने ।
महाजवास्पृग्रूपाया-त्ताकाराय विरूपिणे
॥ 11॥
श्लोक 13
नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्वलाङ्गायात्रेस्तनूजाय सम्भवे
॥ 12॥
श्लोक 14
मोचितामरसङ्घाय धीमतां धीरकाय च ।
बलिष्ठविप्रलभ्याय यागहोमप्रियाय च
॥ 13॥
श्लोक 15
भजन्महिमविख़यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुण्डिपूज्याय यमिने हेममालिने
॥ 14॥
श्लोक 16
गतोपाधिव्याधये च हिरण्याहितकान्तये ।
यतीन्द्रचर्यां दधते नरभावौषधाय च
॥ 15॥
श्लोक 17
वरिष्ठयोगिपूज्याय तन्तुसन्तन्वते नमः ।
स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च
॥ 16॥
श्लोक 18
तेजोमयोत्तमाङ्गाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्र ओङ्कारितसुभक्तये
॥ 17॥
श्लोक 19
रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने ।
राङ्कवाततवस्त्राय नरतत्त्वप्रकाशिने
॥ 18॥
श्लोक 20
द्रावितप्रणताघाया-त्तःस्वजिष्णुःस्वराशये ।
राजन्त्र्यास्यैकरूपाय मःस्थायमसुबम्धवे
॥ 19॥
श्लोक 21
यतये चोदनातीत- प्रचारप्रभवे नमः ।
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे
॥ 20॥
श्लोक 22
गङ्गे पादविहीनाय चोदनाचोदितात्मने ।
यवीयसेऽलर्कदुःख-वारिणेऽखण्डितात्मने
॥ 21॥
श्लोक 23
ह्रीम्बीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने ।
नतिसन्तुष्टचित्ताय यतिने ब्रह्मचारिणे
॥ 22॥
श्लोक 24
इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः
॥ 23॥
श्लोक 25
॥ इति श्री. प. प. श्रीवासुदेवानन्द सरस्वती विरचितं
मन्त्रगर्भ श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम्॥
