Sri Bagalamukhi Ashtottara Satanama Stotram
Sri Bagalamukhi Ashtottara Satanama Stotram
श्री बगलामुखी अष्टोत्तर शत नामा स्तोत्रं
श्लोक 1
नारद उवाच
भगवन् देवदेवेश सृष्टिस्थितिलयेश्वर ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना
श्लोक 2
श्री भगवानुवाच
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम्
॥ 1 ॥
श्लोक 3
यस्य प्रपठनात्सद्यो वादी मूकोभवेत् क्षणात् ।
रिपवस्स्तम्भनं यान्ति सत्यं सत्यं वदाम्यहम्
॥ 2 ॥
श्लोक 4
ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः अनुष्टुप्छन्दः श्रीपीताम्बरी देवता श्रीपीताम्बरी प्रीतये जपे विनियोगः ।
ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।
बहुला देवमाता च महाविष्णुप्रसूरपि
॥ 3 ॥
श्लोक 5
महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नारसिंहप्रिया रम्या वामना पटुरूपिणी
॥ 4 ॥
श्लोक 6
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा च विकारिणी
॥ 5 ॥
श्लोक 7
बुद्धिरूपा बुद्धभार्या बौद्धपाषण्डखण्डिनी ।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी
॥ 6 ॥
श्लोक 8
कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी ।
केवला कठिना काली कला कैवल्यदायिनी
॥ 7 ॥
श्लोक 9
केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता
॥ 8 ॥
श्लोक 10
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता
॥ 9 ॥
श्लोक 11
नागिनी नागजननी नागराजप्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा
॥ 10 ॥
श्लोक 12
नगाधिराजतनया नगराजप्रपूजिता ।
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी
॥ 11 ॥
श्लोक 13
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा
॥ 12 ॥
श्लोक 14
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा
॥ 13 ॥
श्लोक 15
रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी
॥ 14 ॥
श्लोक 16
लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता ।
लङ्कानाथकुलहरा महारावणहारिणी
॥ 15 ॥
श्लोक 17
देवदानवसिद्धौघपूजितापरमेश्वरी ।
पराणुरूपा परमा परतन्त्रविनाशिनी
॥ 16 ॥
श्लोक 18
वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता
॥ 17 ॥
श्लोक 19
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता
॥ 18 ॥
श्लोक 20
पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम्
॥ 19 ॥
श्लोक 21
यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः
॥ 20 ॥
श्लोक 22
प्रभातकाले प्रयतो मनुष्यः
पठेत्सुभक्त्या परिचिन्त्य पीताम् ।
ध्रुवं भवेत्तस्य समस्तवृद्धिः
विनाशमायाति च तस्य शत्रुः
॥ 21 ॥
श्लोक 23
इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रम् ।
