Stotram - Sacred Scripture

Siddha Kunjika Stotram

Siddha Kunjika Stotram

Stotram
Unknown
15 Verses
110%

सिद्ध कुञ्जिका स्तोत्रम्

श्लोक 1

ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,

श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,

मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

शिव उवाच

शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।

येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्

श्लोक 2

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।

न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्

॥ 1 ॥

श्लोक 3

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।

अति गुह्यतरं देवि देवानामपि दुर्लभम्

॥ 2 ॥

श्लोक 4

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।

मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।

पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम्

॥ 3 ॥

श्लोक 5

अथ मन्त्रः ।

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।

ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल

ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा

॥ 4 ॥

श्लोक 6

इति मन्त्रः ।

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।

नमः कैटभहारिण्यै नमस्ते महिषार्दिनि

॥ 5 ॥

श्लोक 7

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।

जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे

॥ 6 ॥

श्लोक 8

ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।

क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते

॥ 7 ॥

श्लोक 9

चामुण्डा चण्डघाती च यैकारी वरदायिनी ।

विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि

॥ 8 ॥

श्लोक 10

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।

क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु

॥ 9 ॥

श्लोक 11

हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।

भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः

॥ 10 ॥

श्लोक 12

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षम् ।

धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा

॥ 11 ॥

श्लोक 13

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।

सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे

॥ 12 ॥

श्लोक 14

कुञ्जिकायै नमो नमः ।

इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।

अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति

॥ 13 ॥

श्लोक 15

यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।

न तस्य जायते सिद्धिररण्ये रोदनं यथा

॥ 14 ॥

श्लोक 16

इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

सिद्ध कुञ्जिका स्तोत्रम् | (Siddha Kunjika Stotram) Lyrics | Vedic Tithi