Stotram - Sacred Scripture

Devi Aparadha Kshamapana Stotram

Devi Aparadha Kshamapana Stotram

Stotram
Unknown
12 Verses
110%

देव्यपराध क्षमापण स्तोत्रम्

श्लोक 1

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो

न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।

न जाने मुद्रास्ते तदपि च न जाने विलपनं

परं जाने मातस्त्वदनुसरणं क्लेशहरणम्

श्लोक 2

विधेरज्ञानेन द्रविणविरहेणालसतया

विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति

॥ 1 ॥

श्लोक 3

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः

परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।

मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति

॥ 2 ॥

श्लोक 4

जगन्मातर्मातस्तव चरणसेवा न रचिता

न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति

॥ 3 ॥

श्लोक 5

परित्यक्ता देवान्विविधविधिसेवाकुलतया

मया पञ्चाशीतेरधिकमपनीते तु वयसि ।

इदानीं चेन्मातस्तव यदि कृपा नापि भविता

निरालम्बो लम्बोदरजननि कं यामि शरणम्

॥ 4 ॥

श्लोक 6

श्वपाको जल्पाको भवति मधुपाकोपमगिरा

निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।

तवापर्णे कर्णे विशति मनुवर्णे फलमिदं

जनः को जानीते जननि जपनीयं जपविधौ

॥ 5 ॥

श्लोक 7

चिताभस्मालेपो गरलमशनं दिक्पटधरो

जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।

कपाली भूतेशो भजति जगदीशैकपदवीं

भवानी त्वत्पाणिग्रहणपरिपाटी फलमिदम्

॥ 6 ॥

श्लोक 8

न मोक्षस्याकाङ्क्षा न च विभववाञ्छापि च न मे

न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।

अतस्त्वां संयाचे जननि जननं यातु मम वै

मृडानी रुद्राणी शिव शिव भवानीति जपतः

॥ 7 ॥

श्लोक 9

नाराधितासि विधिना विविधोपचारैः

किं रूक्षचिन्तनपरैर्न कृतं वचोभिः ।

श्यामे त्वमेव यदि किञ्चन मय्यनाथे

धत्से कृपामुचितमम्ब परं तवैव

॥ 8 ॥

श्लोक 10

आपत्सु मग्नः स्मरणं त्वदीयं

करोमि दुर्गे करुणार्णवे शिवे ।

नैतच्छठत्वं मम भावयेथाः

क्षुधातृषार्ताः जननीं स्मरन्ति

॥ 9 ॥

श्लोक 11

जगदम्ब विचित्रमत्र किं

परिपूर्णा करुणास्ति चेन्मयि ।

अपराधपरम्परावृतं

न हि माता समुपेक्षते सुतम्

॥ 10 ॥

श्लोक 12

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।

एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु

॥ 11 ॥

श्लोक 13

इति श्रीमच्छङ्कराचार्य विरचितं देव्यपराधक्षमापण स्तोत्रम् ।

देव्यपराध क्षमापण स्तोत्रम् | (Devi Aparadha Kshamapana Stotram) Lyrics | Vedic Tithi