Stotram - Sacred Scripture

Devi Mahatmyam Keelaka Stotram

Devi Mahatmyam Keelaka Stotram

Stotram
Unknown
16 Verses
110%

देवी माहात्म्यं कीलक स्तोत्रम्

श्लोक 1

अस्य श्री कीलक स्तोत्र महा मन्त्रस्य । शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । मन्त्रोदित देव्यो बीजम् । नवार्णो मन्त्रशक्ति।श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः ।

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।

श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे

श्लोक 2

सर्वमेत द्विजानीयान्मन्त्राणापि कीलकम् ।

सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः

॥1॥

श्लोक 3

सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ।

एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः

॥2॥

श्लोक 4

न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ।

विना जाप्यं न सिद्ध्येत्तु सर्व मुच्चाटनादिकम्

॥3॥

श्लोक 5

समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ।

कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम्

॥4॥

श्लोक 6

स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ।

समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां

॥5॥

श्लोक 7

सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः ।

कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः

॥6॥

श्लोक 8

ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ।

इत्थं रूपेण कीलेन महादेवेन कीलितम्।

॥6॥

श्लोक 9

यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः ।

स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम्

॥8॥

श्लोक 10

न चैवा पाटवं तस्य भयं क्वापि न जायते ।

नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्

॥9॥

श्लोक 11

ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।

ततो ज्ञात्वैव सम्पूर्नं इदं प्रारभ्यते बुधैः

॥10॥

श्लोक 12

सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने ।

तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं

॥11॥

श्लोक 13

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।

भवत्येव समग्रापि ततः प्रारभ्यमेवतत्

॥12॥

श्लोक 14

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ।

शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै

॥13॥

श्लोक 15

चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ।

हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्

॥14॥

श्लोक 16

अग्रतोऽमुं महादेव कृतं कीलकवारणम् ।

निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः

॥15॥

श्लोक 17

॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥

देवी माहात्म्यं कीलक स्तोत्रम् | (Devi Mahatmyam Keelaka Stotram) Lyrics | Vedic Tithi