Arjuna Kruta Durga Stotram
Arjuna Kruta Durga Stotram
अर्जुन कृत श्री दुर्गा स्तोत्रम्
श्लोक 1
अर्जुन उवाच ।
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।
कुमारि कालि कापालि कपिले कृष्णपिङ्गले
श्लोक 2
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते ।
चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि
॥ 1 ॥
श्लोक 3
कात्यायनि महाभागे करालि विजये जये ।
शिखिपिञ्छध्वजधरे नानाभरणभूषिते
॥ 2 ॥
श्लोक 4
अट्टशूलप्रहरणे खड्गखेटकधारिणि ।
गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे
॥ 3 ॥
श्लोक 5
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये
॥ 4 ॥
श्लोक 6
उमे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि ।
हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते
॥ 5 ॥
श्लोक 7
वेदश्रुतिमहापुण्ये ब्रह्मण्ये जातवेदसि ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये
॥ 6 ॥
श्लोक 8
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् ।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि
॥ 7 ॥
श्लोक 9
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।
सावित्री वेदमाता च तथा वेदान्त उच्यते
॥ 8 ॥
श्लोक 10
स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे
॥ 9 ॥
श्लोक 11
कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान्
॥ 10 ॥
श्लोक 12
त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।
सन्ध्या प्रभावती चैव सावित्री जननी तथा
॥ 11 ॥
श्लोक 13
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः
॥ 12 ॥
श्लोक 14
इति श्रीमन्महाभारते भीष्मपर्वणि त्रयोविंशोऽध्याये अर्जुन कृत श्री दुर्गा स्तोत्रम् ।
Related Scriptures
दकारादि दुर्गा अष्टोत्तर शत नामावलि
108 verses
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
101 verses
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
55 verses
देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः
41 verses
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
68 verses
देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः
42 verses
