Stotram - Sacred Scripture

Nitya Sandhya Vandanam (Krishna Yajurvediya)

Nitya Sandhya Vandanam (Krishna Yajurvediya)

Stotram
Krishna
1 Verses
110%

नित्य सन्ध्या वन्दनम् (कृष्ण यजुर्वेदीय)

शरीर शुद्धि

अपवित्रः पवित्रो वा सर्वावस्था᳚-ङ्गतो-ऽपिवा ।

य-स्स्मरे-त्पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः ॥

पुण्डरीकाक्ष ! पुण्डरीकाक्ष ! पुण्डरीकाक्षाय नमः ।

आचमनः

ॐ आचम्य

ओ-ङ्केशवाय स्वाहा

ओ-न्नारायणाय स्वाहा

ओ-म्माधवाय स्वाहा (इति त्रिराचम्य)

ओ-ङ्गोविन्दाय नमः (पाणी मार्जयित्वा)

ॐ-विँष्णवे नमः

ओ-म्मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा)

ओ-न्त्रिविक्रमाय नमः

ॐ-वाँमनाय नमः (शिरसि जल-म्प्रोक्ष्य)

ॐ श्रीधराय नमः

ॐ हृषीकेशाय नमः (वामहस्तॆ जल-म्प्रोक्ष्य)

ओ-म्पद्मनाभाय नमः (पादयोः जल-म्प्रोक्ष्य)

ओ-न्दामोदराय नमः (शिरसि जल-म्प्रोक्ष्य)

ॐ सङ्कर्​षणाय नमः (अङ्गुलिभिश्चिबुक-ञ्जल-म्प्रोक्ष्य)

ॐ-वाँसुदेवाय नमः

ओ-म्प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा)

ॐ अनिरुद्धाय नमः

ओ-म्पुरुषोत्तमाय नमः

ॐ अधोक्षजाय नमः

ओ-न्नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा)

ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा)

ओ-ञ्जनार्धनाय नमः (हृदयं स्पृष्ट्वा)

ॐ उपेन्द्राय नमः (हस्तं शिरसि निक्षिप्य)

ॐ हरये नमः

ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा)

ॐ श्रीकृष्ण परब्रह्मणे नमो नमः2

(एतान्युच्चार्य उप्यक्त प्रकार-ङ्कृते अङ्गानि शुद्धानि भवेयुः)

भूतोच्चाटन

उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः ।

ये तेषामविरोधेन । ब्रह्मकर्म समारभे ।

ओ-म्भूर्भुवस्सुवः ।

दैवी गायत्री चन्दः प्राणायामे विनियोगः2

(प्राणायाम-ङ्कृत्वा कुम्भके इम-ङ्गायत्री मन्त्रमुच्छरेत्)

प्राणायामः

ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।

ओ-न्तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27)

सङ्कल्पः

ममोपात्त, समस्त दुरित क्षयद्वारा,

श्री परमेश्वर मुद्दिस्य, श्री परमेश्वर प्रीत्यर्थम्,

शुभाभ्याम्, शुभे, शोभने, अभ्युदय मुहूर्ते,

श्री महाविष्णो राज्ञया, प्रवर्त मानस्य,

अद्य ब्रह्मणः, द्वितीय परार्थे,

श्वेतवराह कल्पे, वैवश्वत मन्वन्तरे,

कलियुगे, प्रथम पादे,

(भारत देशः - जम्बू द्वीपे, भरत वर्​षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे;

अमेरिका - क्रौञ्च द्वीपे, रमणक वर्​षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये),

शोभन गृहे, समस्त देवता ब्राह्मण, हरिहर गुरुचरण सन्निथौ,

अस्मिन्, वर्तमान, व्यावहारिक, चान्द्रमानेन,

... सं​वँत्सरे,... अयने [उत्तरायणे,दक्षिणायने],

... ऋते [वसन्त, ग्रीष्म, वर्​ष, शरत्, हेमन्त, शिशिर],

... मासे [चैत्र, वैशाख, ज्येष्ठ, आषाढ,श्रावण, भाद्रपद, आश्वयुज, कार्तीक, मार्गशीर्​ष,पुष्य, माघ, फाल्गुण],

... पक्षे [शुक्ल पक्षे, कृष्ण पक्षे],

... तिथौ,

... वासरे,[इन्दु/सोम, भौम/मङ्गल, सौम्य/बुध, बृहस्पति/गुरु, भृगु/शुक्र, स्थिर/मन्द/शनि, भानु/रवि/आदि] ...

शुभ वासरे, शुभ नक्षत्रे, शुभ योगे, शुभ करण,

एवङ्गुण, विशेषण, विशिष्ठायाम्, शुभ तिथौ, श्रीमान्,

... गोत्रः, ... नामधेयः, ... गोत्रस्य,

... नामधेयोह-म्प्रातः / मध्याह्निक / सायं सन्ध्यां उपासिषे ।

मार्जनः

ॐ आपो॒हिष्ठा म॑यो॒भुवः॑ ।

ता न॑ ऊ॒र्जे द॑धातन ।

म॒हेरणा॑य॒ चक्ष॑से ।

यो वः॑ शि॒वत॑मो॒ रसः॑ ।

तस्य॑ भाजयते॒ ह नः॒ ।

उ॒श॒तीरि॑व मा॒तरः॑ ।

तस्मा॒ अर॑ङ्ग माम वः ।

यस्य॒ क्षया॑य॒ जिन्व॑थ ।

आपो॑ ज॒नय॑था च नः । (तै. अर. 4-42)

(इति शिरसि मार्जयेत्)

(हस्तेन जल-ङ्गृहीत्वा)

प्रातः काल मन्त्राचमनः [मन्त्र जल प्राशनम्]

सूर्यश्च, मामन्युश्च, मन्युपतयश्च, मन्यु॑कृते॒भ्यः ।

पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑ मका॒र्​षम् । मनसा वाचा॑ ह॒स्ताभ्याम् ।

पद्भ्या मुदरे॑ण शि॒ञ्चा । रात्रि॒ स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ ।

इदमह-म्मा ममृ॑त यो॒ नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा᳚ ॥ (तै. अर. 10. 24)

मध्याह्न काल मन्त्राचमनः

आपः॑ पुनन्तु पृथि॒वी-म्पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।

पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒ र्ब्रह्मा॑ पू॒ता पु॑नातु॒ माम् ।

यदुच्छि॑ष्ट॒ मभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑त॒-म्मम॑ ।

सर्व॑-म्पुनन्तु॒ मा मापो॑-ऽस॒ताञ्च॑ प्रति॒ग्रह॒ग्ग्॒ स्वाहा᳚ ॥ (तै. अर. परिशिष्टः 10. 30)

सायङ्काल मन्त्राचमनः

अग्नि श्च मा मन्यु श्च मन्युपतय श्च मन्यु॑कृतेभ्यः ।

पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑ मका॒र्​षम् ।

मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्या मुदरे॑ण शि॒ञ्चा ।

अह स्तद॑वलु॒म्पतु । य त्किञ्च॑ दुरि॒त-म्मयि॑ ।

इद मह-म्मा ममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहोमि स्वा॒हा ॥ (तै. अर. 10. 24)

(इति मन्त्रेण जल-म्पिबेत्)

आचम्य (ओ-ङ्केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

द्वितीय मार्जनः

द॒धि॒ क्राव्​ण्णो॑ अकारिषम् । जि॒ष्णो रश्व॑स्य वा॒जि॑नः ।

सु॒रभिनो॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥

(सूर्यपक्षे लोकयात्रा निर्वाहक इत्यर्थः)

ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्जे द॑धातन ।

म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रसः॑ ।

तस्य॑ भाजयते॒ ह नः॒ । उ॒श॒तीरि॑व मा॒तरः॑ ।

तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ ।

आपो॑ ज॒नय॑था च नः ॥ (तै. अर. 4. 42)

पुनः मार्जनः

हिर॑ण्यवर्णा॒ श्शुच॑यः पाव॒काः या सु॑जा॒तः क॒श्यपो॒ या स्विन्द्रः॑ ।

अ॒ग्निं-याँ गर्भ॑न्दधि॒रे विरू॑पा॒ स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ।

या सा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒-ञ्जना॑नाम् ।

म॒धु॒ श्चुत॒श्शुच॑यो॒ याः पा॑व॒का स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ।

यासा᳚-न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं-याँ अ॒न्तरि॑क्षे बहु॒था भव॑न्ति ।

याः पृ॑थि॒वी-म्पय॑सो॒न्दन्ति॑ श्शु॒क्रास्तान॒ आप॒शग्ग् स्यो॒ना भ॑वन्तु ।

या-श्शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नु वोप॑स्पृशत॒ त्वच॑ म्मे ।

सर्वाग्ं॑ अ॒ग्नीग्ं र॑प्सु॒षदो॑ हु॒वे वो॒ मयि॒ वर्चो॒ बल॒ मोजो॒ निध॑त्त ॥ (तै. सं. 5. 6. 1)

(मार्जन-ङ्कुर्यात्)

अघमर्​षण मन्त्रः पापविमोचनं

(हस्तेन जलमादाय निश्श्वस्य वामतो निक्षितपेत्)

द्रु॒प॒दा दि॑व मुञ्चतु । द्रु॒प॒दा दि॒वे न्मु॑मुचा॒नः ।

स्वि॒न्न स्स्ना॒त्वी मला॑ दिवः ।

पू॒त-म्पवित्रे॑णे॒ वाज्यं᳚ आप॑ श्शुन्दन्तु॒ मैन॑सः ॥ (तै. ब्रा. 266)

आचम्य (ओ-ङ्केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

प्राणायामम्य

लघुसङ्कल्पः

पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां

शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिश्य श्री परमेश्वर प्रीत्यर्थ-म्प्रातस्सन्ध्याङ्ग यथा कालोचित अर्घ्यप्रदान-ङ्करिष्ये ॥

प्रातः कालार्घ्य मन्त्रं

ओ-म्भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ 3 ॥

माध्याह्नार्घ्य मन्त्रं

ॐ ह॒ग्ं॒ सश्शु॑चि॒ष द्वसु॑रन्तरिक्ष॒स द्दोता॑ वेदि॒षदति॑थि र्दुरोण॒सत् ।

नृ॒ष द्व॑र॒स दृ॑त॒स द्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्-बृ॒हत् ॥ (तै. अर. 10. 4)

साय-ङ्कालार्घ्य मन्त्रं

ओ-म्भूर्भुव॒स्सुवः॑ ॥

तथ्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।

ओ-न्तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥

(इत्यञ्जलित्रयं-विँसृजेत्)

कालातिक्रमण प्रायश्चित्तं

आचम्य...

पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिश्य श्री परमेश्वर प्रीत्यर्थ-ङ्कालातिक्रम दोषपरिहारार्थ-ञ्चतुर्थ अर्घ्यप्रदान-ङ्करिष्ये ॥

ओ-म्भूर्भुव॒स्सुवः॑ ॥

तथ्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।

ओ-न्तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥

(इति जलं-विँसृजेत्)

सजल प्रदक्षिणं

ॐ उ॒द्यन्त॑मस्तं॒-यँन्त॑-मादि॒त्य-म॑भिथ्या॒य-न्कु॒र्वन्ब्रा᳚ह्म॒णो वि॒द्वान्-थ्स॒कल॑म्भ॒द्रम॑श्नुते॒

असावा॑दि॒त्यो ब्र॒ह्मेति॒ ॥

ब्रह्मै॒व सन्-ब्रह्मा॒प्येति॒ य ए॒वं-वेँद ॥ असावादित्यो ब्रह्म ॥ (तै. अर. 2. 2)

(एवं अर्घ्यत्रय-न्दद्या-त्कालातिक्रमणे पूर्ववत्)

(पश्चात् हस्तेन जलमादाय प्रदक्षिण-ङ्कुर्यात्)

(द्विराचम्य प्राणायाम त्रय-ङ्कृत्वा)

सन्ध्याङ्ग तर्पणं

आचम्य (ओ-ङ्केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

प्रातःकाल तर्पणं

मम उपात्त समस्त दुरितक्षयद्वार श्री परमेश्वर प्रीत्यर्ध-म्प्रात-स्सन्द्यान्ग तर्पण-ङ्करिष्यॆ

सन्ध्या-न्तर्पयामि, गायत्री-न्तर्पयामि, ब्राह्मी-न्तर्पयामि, निमृजी-न्तर्पयामि ॥

मध्याह्न तर्पणं

सन्ध्या-न्तर्पयामि, सावित्री-न्तर्पयामि, रौद्री-न्तर्पयामि, निमृजी-न्तर्पयामि ॥

सायङ्काल तर्पणं

सन्ध्या-न्तर्पयामि, सरस्वती-न्तर्पयामि, वैष्णवी-न्तर्पयामि, निमृजी-न्तर्पयामि ॥

(पुनराचमन-ङ्कुर्यात्)

गायत्री अवाहन

ओमित्येकाक्ष॑र-म्ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्​षम् ।

गायत्र-ञ्छन्द-म्परमात्मं॑ सरू॒पम् । सायुज्यं-विँ॑नियो॒ग॒म् ॥ (तै. अर. 10. 33)

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षर॑-म्ब्रह्म॒सम्मि॒तम् ।

गा॒य॒त्री᳚-ञ्छन्द॑सा-म्मा॒तेद-म्ब्र॑ह्म जु॒षस्व॑ मे ।

यदह्ना᳚-त्कुरु॑ते पा॒प॒-न्तदह्ना᳚-त्प्रति॒मुच्य॑ते ।

यद्रात्रिया᳚-त्कुरु॑ते पा॒प॒-न्तद्रात्रिया᳚-त्प्रति॒मुच्य॑ते ।

सर्व॑ व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति ॥

ओजो॑-ऽसि॒ सहो॑-ऽसि॒ बल॑मसि॒ भ्राजो॑-ऽसि दे॒वाना॒-न्धाम॒नामा॑सि॒ विश्व॑मसि वि॒श्वायु॒-स्सर्व॑मसि स॒र्वायु-रभिभूरोम् ।

गायत्री-मावा॑हया॒मि॒ सावित्री-मावा॑हया॒मि॒ सरस्वती-मावा॑हया॒मि॒ छन्दर्​षी-नावा॑हया॒मि॒ श्रिय-मावाह॑या॒मि॒

गायत्रिया गायत्री च्छन्दो विश्वामित्रऋषि स्सविता देवता-ऽग्निर्मुखं

ब्रह्मा शिरो विष्णुर्​हृदयग्ं रुद्र-श्शिखा पृथिवी योनिः

प्राणापान व्यानोदान समाना सप्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विग्ं शत्यक्षरा

त्रिपदा॑ षट्कु॒क्षिः॒ पञ्च-शीर्​षोपनयने वि॑नियो॒गः॒ ।

ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।

ओ-न्तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (महानारायण उपनिषत्)

आचम्य (ओ-ङ्केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

गायत्री जपसङ्कल्पः

पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां

शुभतिथौ ममोपात्त दुरित क्षयद्वारा

श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं

सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्र जप-ङ्करिष्ये ॥

करन्यासः

ओ-न्तथ्स॑वि॒तुः ब्रह्मात्मने अङ्गुष्टाभ्या-न्नमः ।

वरे᳚ण्यं॒ विष्णवात्मने तर्जनीभ्या-न्नमः ।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने मध्यमाभ्या-न्नमः ।

धीमहि सत्यात्मने अनामिकाभ्या-न्नमः ।

धियो॒ यो नः॑ ज्ञानात्मने कनिष्टिकाभ्या-न्नमः ।

प्रचोदया᳚-थ्सर्वात्मने करतल करपृष्टाभ्या-न्नमः ।

अङ्गन्यासः

ओ-न्तथ्स॑वि॒तुः ब्रह्मात्मने हृदयाय नमः ।

वरे᳚ण्यं॒ विष्णवात्मने शिरसे स्वाहा ।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने शिखायै वषट् ।

धीमहि सत्यात्मने कवचाय हुम् ।

धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।

प्रचोदया᳚-थ्सर्वात्मने अस्त्रायफट् ।

ओ-म्भूर्भुव॒स्सुव॒रोमिति दिग्भन्धः ।

ध्यानम्

मुक्ताविद्रुम हेमनील धवलच्चायै-र्मुखै-स्त्रीक्षणैः ।

युक्तामिन्दुनि बद्ध-रत्न-मकुटा-न्तत्वार्थ वर्णात्मिकाम् ।

गायत्रीं-वँरदाभयाङ्कुश कशाश्शुभ्रङ्कपालङ्गदाम् ।

शङ्खञ्चक्र मधारविन्द युगलं हस्तैर्वहन्ती-म्भजे ॥

चतुर्विंशति मुद्रा प्रदर्​शनं

सुमुखं सम्पुटिञ्चैव विततं-विँस्तृत-न्तथा ।

द्विमुख-न्त्रिमुखञ्चैव चतुः पञ्च मुख-न्तथा ।

षण्मुखो-ऽथो मुख-ञ्चैव व्यापकाञ्जलिक-न्तथा ।

शकटं-यँमपाश-ञ्च ग्रथितं सम्मुखोन्मुखम् ।

प्रलम्ब-म्मुष्टिक-ञ्चैव मत्स्यः कूर्मो वराहकम् ।

सिंहाक्रान्त-म्महाक्रान्त-म्मुद्गर-म्पल्लव-न्तथा ।

चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।

[इतिमुद्रा न जानाति गायत्री निष्फला भवेत्] ॥

यो देव स्सविता-ऽस्माक-न्धियो धर्मादिगोचराः ।

प्रेरयेत्तस्य यद्भर्गस्त द्वरेण्य मुपास्महे ॥

गायत्री मन्त्रं

ओ-म्भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥

तत्सत् ब्रह्मार्पणमस्तु

जपावसनम्

आचम्य (ओ-ङ्केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

मम उपात्त समस्त दुरितक्षयद्वार श्री परमेश्वर प्रीत्यर्थ-म्प्रातस्सन्द्याङ्ग गायत्री महामन्त्र जपावसन-ङ्करिष्ये ।

करन्यासः

ओ-न्तथ्स॑वि॒तुः ब्रह्मात्मने अङ्गुष्टाभ्या-न्नमः ।

वरे᳚ण्यं॒ विष्णवात्मने तर्जनीभ्या-न्नमः ।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने मध्यमाभ्या-न्नमः ।

धीमहि सत्यात्मने अनामिकाभ्या-न्नमः ।

धियो॒ यो नः॑ ज्ञानात्मने कनिष्टिकाभ्या-न्नमः ।

प्रचोदया᳚-थ्सर्वात्मने करतल करपृष्टाभ्या-न्नमः ।

अङ्गन्यासः

ओ-न्तथ्स॑वि॒तुः ब्रह्मात्मने हृदयाय नमः ।

वरे᳚ण्यं॒ विष्णवात्मने शिरसे स्वाहा ।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने शिखायै वषट् ।

धीमहि सत्यात्मने कवचाय हुम् ।

धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।

प्रचोदया᳚-थ्सर्वात्मने अस्त्रायफट् ।

ओ-म्भूर्भुव॒स्सुव॒रोमिति दिग्विमोकः ।

ध्यानम्

मुक्ताविद्रुम हेमनील धवलच्चायै-र्मुखै-स्त्रीक्षणैः ।

युक्तामिन्दुनि बद्ध-रत्न-मकुटा-न्तत्वार्थ वर्णात्मिकाम् ।

गायत्रीं-वँरदाभयाङ्कुश कशाश्शुभ्रङ्कपालङ्गदाम् ।

शङ्खञ्चक्र मधारविन्द युगलं हस्तैर्वहन्ती-म्भजे ॥

सुरभिर्ज्ञान चक्रे च योनिः कूर्मो-ऽथ पङ्कजम् । [सुरभिर्ज्ञान नेत्र-ञ्च]

लिङ्ग-न्निर्याण मुद्रा चेत्यष्ट मुद्राः प्रकीर्तिताः ॥

यो देव स्सविता-ऽस्माक-न्धियो धर्मादिगोचराः ।

प्रेरयेत्तस्य यद्भर्गस्त द्वरेण्य मुपास्महे ॥

गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवॊ महेश्वरः ।

गुरुस्साक्ष-त्परब्रह्म तस्मै श्री गुरवे नमः ॥

ओ-न्तत्सद्ब्रह्मार्पणमस्तु ।

आचम्य (ओ-ङ्केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

द्विः परिमुज्य ।

सकृदुप स्पृश्य ।

यत्सव्य-म्पाणिम् ।

पादम् ।

प्रोक्षति शिरः ।

चक्षुषी ।

नासिके ।

श्रोत्रे ।

हृदयमालभ्य ।

प्रातःकाल सूर्योपस्थानं

ओ-म्मि॒त्रस्य॑ च॒र्​षणी॒ धृत॒ श्रवो॑ दे॒वस्य॑ सान॒ सिम् ।

स॒त्य-ञ्चि॒त्रश्र॑ वस्तमम् ।

मि॒त्रो जनान्॑ यातयति प्रजा॒न-न्मि॒त्रो दा॑धार पृथि॒वी मु॒तद्याम् ।

मि॒त्रः कृ॒ष्टी रनि॑मिषा॒-ऽभि च॑ष्टे स॒त्याय॑ ह॒व्य-ङ्घृ॒तव॑द्विधेम ।

प्रसमि॑त्त्र॒ मर्त्यो॑ अस्तु॒ प्रय॑स्वा॒ न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।

न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒नैन॒ मग्ंहो॑ अश्नो॒ त्यन्ति॑तो॒ न दू॒रात् ॥ (तै. सं. 3.4.11)

मध्याह्न सूर्योपस्थानं

ॐ आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒श॑य न्न॒मृत॒-म्मर्त्य॑ञ्च ।

हि॒रण्यये॑न सवि॒ता रथे॒ना-ऽदे॒वो या॑ति॒ भुव॑ना नि॒पश्यन्॑ ॥

उद्व॒य न्तम॑स॒ स्परि॒ पश्य॑न्तो॒ ज्योति॒ रुत्त॑रम् ।

दे॒वन्दे॑व॒त्रा सूर्य॒ मग॑न्म ज्योति॑ रुत्त॒मं ॥

उदु॒त्यं जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ ।

दृ॒शे विश्वा॑ य॒ सूर्य᳚म् ॥

चि॒त्र-न्दे॒वाना॒ मुद॑गा॒ दनी॑क॒-ञ्चक्षु॑-र्मि॒त्रस्य॒ वरु॑ण स्या॒ग्नेः ।

अप्रा॒ द्यावा॑ पृथि॒वी अन्त॒रि॑क्ष॒ग्ं सूर्य॑ आ॒त्मा जग॑त स्त॒स्थुष॑श्च ॥

तच्चक्षु॑-र्दे॒वहि॑त-म्पु॒रस्ता᳚च्चु॒क्र मु॒च्चर॑त् ।

पश्ये॑म श॒रद॑श्श॒त-ञ्जीवे॑म श॒रद॑श्श॒तं

नन्दा॑म श॒रद॑श्श॒त-म्मोदा॑म श॒रद॑श्श॒तं

भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं

पब्र॑वाम श॒रद॑श्श॒तमजी॑तास्याम श॒रद॑श्श॒त-ञ्जोक्च॒ सूर्य॑-न्दृ॒षे ॥

य उद॑गान्मह॒तो-ऽर्णवा᳚ द्वि॒भ्राज॑मान स्सरि॒रस्य॒ मध्या॒थ्समा॑

वृष॒भो लो॑हिता॒क्षसूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥

सायङ्काल सूर्योपस्थानं

ॐ इ॒मम्मे॑ वरुण शृधी॒ हव॑ म॒द्या च॑ मृडय । त्वा म॑व॒स्यु राच॑के ॥

तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ स्त दाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।

अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑श॒ग्ं॒ समा॑न॒ आयुः॒ प्रमो॑षीः ॥

यच्चि॒द्धिते॒ विशो॑यथा॒ प्रदे॑व वरुणव्र॒तम् । मि॒नी॒मसि॒द्य वि॑द्यवि ।

यत्किञ्चे॒दं-वँ॑रुण॒दैव्ये॒ जने॑-ऽभिद्रो॒ह-म्म॑नु॒ष्या᳚श्चरा॑मसि ।

अचि॑त्ती॒ यत्तव॒ धर्मा॑युयोपि॒-ममान॒-स्तस्मा॒ देन॑सो देवरीरिषः ।

कि॒त॒वासो॒ यद्रि॑रि॒पुर्नदी॒वि यद्वा॑घा स॒त्यमु॒तयन्न वि॒द्म ।

सर्वा॒ताविष्य॑ शिधि॒रेव॑दे॒वा-ऽथा॑तेस्याम वरुण प्रि॒यासः॑ ॥ (तै. सं. 1.1.1)

दिग्देवता नमस्कारः

(एतैर्नमस्कार-ङ्कुर्यात्)

ओ-न्नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ओ-न्नमो दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ओ-न्नमः॒ प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ओ-न्नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ओ-न्नम॑ ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ओ-न्नमो-ऽध॑रायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ओ-न्नमो॑-ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

मुनि नमस्कारः

नमो गङ्गा यमुनयो-र्मध्ये ये॑ वस॒न्ति॒ ते मे प्रसन्नात्मान श्चिरञ्जीवितं

व॑र्धय॒न्ति॒ नमो गङ्गा यमुनयो-र्मुनि॑भ्यश्च॒ नमो नमो गङ्गा यमुनयो-र्मुनि॑भ्यश्च॒ न॑मः ॥

सन्ध्यादेवता नमस्कारः

सन्ध्या॑यै॒ नमः॑ । सावि॑त्र्यै॒ नमः॑ । गाय॑त्र्यै॒ नमः॑ ।

सर॑स्वत्यै॒ नमः॑ । सर्वा॑भ्यो दे॒वता॑भ्यो॒ नमः॑ ।

दे॒वेभ्यो॒ नमः॑ । ऋषि॑भ्यो॒ नमः॑ । मुनि॑भ्यो॒ नमः॑ ।

गुरु॑भ्यो॒ नमः॑ । पितृ॑भ्यो॒ नमः॑ । कामो-ऽकार्​षी᳚ र्नमो॒ नमः ।

मन्यु रकार्​षी᳚ र्नमो॒ नमः । पृथिव्यापस्ते॒जो वायु॑राका॒शात् नमः ॥ (तै. अर. 2.18.52)

ओ-न्नमो भगवते वासु॑देवा॒य । या॒ग्ं सदा॑ सर्वभूता॒नि॒ च॒राणि॑ स्थाव॒राणि॑ च ।

सा॒य॒-म्प्रा॒त र्न॑मस्य॒न्ति॒ सा॒ मा॒ सन्ध्या॑-ऽभिरक्षतु ॥

शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ।

शिवस्य हृदयं-विँष्णुर्विष्णोश्च हृदयं शिवः ॥

यथा शिवमयो विष्णुरेवं-विँष्णुमय-श्शिवः ।

यथा-ऽन्तर-न्न पश्यामि तथा मे स्वस्तिरायुषि ॥

नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

गायत्री उद्वासन (प्रस्थानं)

उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्या-म्प॑र्वत॒मूर्थ॑नि ।

ब्रा॒ह्मणे᳚भ्यो-ऽभ्य॑नुज्ञा॒ता॒ ग॒च्चदे॑वि य॒थासु॑खम् ।

स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता ।

आयुः पृथिव्या-न्द्रविण-म्ब्र॑ह्मव॒र्च॒स॒-म्मह्य-न्दत्वा प्रजातु-म्ब्र॑ह्मलो॒कम् ॥ (महानारायण उपनिषत्)

भगवन्नमस्कारः

नमो-ऽस्त्वनन्ताय सहस्रमूर्तये सहस्र पादाक्षि शिरोरु बाहवे ।

सहस्र नाम्ने पुरुषाय शाश्वते सहस्रकोटी युग धारिणे नमः ॥

भूम्याकाशाभि वन्दनं

इ॒द-न्द्या॑वा पृथि॒वी स॒त्यम॑स्तु॒ । पित॒-र्मातर्यदि॒ होप॑ बृ॒वेवा᳚म् ।

भू॒त-न्दे॒वाना॑ मवमे अवो॑भिः । विद्या मे॒षं-वृँ॒जिन॑-ञ्जी॒रदा॑नुम् ॥

आकाशात्पतित-न्तोयं-यँथा गच्छति सागरम् ।

सर्वदेव नमस्कारः केशव-म्प्रतिगच्छति ॥

श्री केशव-म्प्रतिगच्छत्योन्नम इति ।

सर्ववेदेषु यत्पुण्यम् । सर्वतीर्थेषु यत्फलम् ।

तत्फल-म्पुरुष आप्नोति स्तुत्वादेव-ञ्जनार्धनम् ॥

स्तुत्वादेव-ञ्जनार्धन ओ-न्नम इति ॥

वासना-द्वासुदेवस्य वासित-न्ते जगत्रयम् ।

सर्वभूत निवासो-ऽसि श्रीवासुदेव नमो-ऽस्तुते ॥

श्री वासुदेव नमो-ऽस्तुते ओ-न्नम इति ।

अभिवादः (प्रवर)

चतुस्सागर पर्यन्त-ङ्गो ब्राह्मणेभ्य-श्शुभ-म्भवतु ।

... प्रवरान्वित ... गोत्रः ... सूत्रः ... शाखाध्यायी ... अह-म्भो अभिवादये ॥

आचम्य

ईश्वरार्पणं

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्या-ऽऽत्मना वा प्रकृते स्स्वभावात् ।

करोमि यद्यत्सकल-म्परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

हरिः ओ-न्तत्सत् ।

तत्सर्वं श्री परमेश्वरार्पणमस्तु ।

About This Stotram

Overview

Nitya Sandhya Vandanam (Krishna Yajurvediya) is the daily Sandhya Vandanam ritual as prescribed by the Krishna Yajurveda tradition. It follows the mantras, sequences, and procedural norms specific to that recension, including sharira shuddhi (body purification), achamana (water sipping), and marjana (sprinkling). Like all Sandhya Vandanam forms, it belongs to the category of nitya karma — obligatory daily Vedic practice for dvija practitioners.

What are the benefits of chanting Nitya Sandhya Vandanam (Krishna Yajurvediya)?

  • Purifies body and mind through the prescribed mantras and water rites
  • Fulfills the daily religious duty as laid out in the Krishna Yajurveda
  • Invokes divine presence through names of Vishnu in the achamana sequence
  • Builds spiritual discipline through consistent thrice-daily observance

When is the best time to recite this?

This ritual is performed three times daily: at dawn (Pratah Sandhya), at noon (Madhyahna Sandhya), and at dusk (Sayam Sandhya). Each session is timed to the transition points of the day.

What is the historical and traditional background?

The Krishna Yajurveda is one of the major recensions of the Yajurveda, and this Sandhya Vandanam form follows the mantras and structure found in the Taittiriya Samhita, Taittiriya Aranyaka, and related texts of that shakha. The broader practice of Sandhya Vandanam is codified in the Grihya Sutras and Dharma Shastras. The author of this particular compilation is unknown; the text represents the accumulated Vedic transmission of the Krishna Yajurvediya school rather than a single composition.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Nitya Sandhya Vandanam — the general Sandhya Vandanam compilation spanning multiple Vedic traditions
  • Maha Mrityunjaya Mantra — a key Shiva mantra from the Yajurveda tradition, often recited alongside Sandhya practices