Stotram - Sacred Scripture

Nitya Sandhya Vandanam

Nitya Sandhya Vandanam

Stotram
Unknown
1 Verses
110%

नित्य सन्ध्या वन्दनम्

शरीर शुद्धि

अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा ।

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः ॥

पुण्डरीकाक्ष ! पुण्डरीकाक्ष ! पुण्डरीकाक्षाय नमः ।

आचमनः

ॐ आचम्य

ॐ केशवाय स्वाहा

ॐ नारायणाय स्वाहा

ॐ माधवाय स्वाहा (इति त्रिराचम्य)

ॐ गोविन्दाय नमः (पाणी मार्जयित्वा)

ॐ-विँष्णवे नमः

ॐ मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा)

ॐ त्रिविक्रमाय नमः

ॐ-वाँमनाय नमः (शिरसि जलं प्रोक्ष्य)

ॐ श्रीधराय नमः

ॐ हृषीकेशाय नमः (वामहस्तॆ जलं प्रोक्ष्य)

ॐ पद्मनाभाय नमः (पादयोः जलं प्रोक्ष्य)

ॐ दामोदराय नमः (शिरसि जलं प्रोक्ष्य)

ॐ सङ्कर्​षणाय नमः (अङ्गुलिभिश्चिबुकं जलं प्रोक्ष्य)

ॐ-वाँसुदेवाय नमः

ॐ प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा)

ॐ अनिरुद्धाय नमः

ॐ पुरुषोत्तमाय नमः

ॐ अधोक्षजाय नमः

ॐ नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा)

ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा)

ॐ जनार्धनाय नमः (हृदयं स्पृष्ट्वा)

ॐ उपेन्द्राय नमः (हस्तं शिरसि निक्षिप्य)

ॐ हरये नमः

ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा)

ॐ श्रीकृष्ण परब्रह्मणे नमो नमः

(एतान्युच्चार्य उप्यक्त प्रकारं कृते अङ्गानि शुद्धानि भवेयुः)

भूतोच्चाटन

उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।

दैवी गायत्री चन्दः प्राणायामे विनियोगः

(प्राणायामं कृत्वा कुम्भके इमं गायत्री मन्त्रमुच्छरेत्)

प्राणायामः

ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।

ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27)

सङ्कल्पः

ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर मुद्दिस्य, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभने, अभ्युदय मुहूर्ते, श्री महाविष्णो राज्ञया, प्रवर्त मानस्य, अद्य ब्रह्मणः, द्वितीय परार्थे, श्वेतवराह कल्पे, वैवश्वत मन्वन्तरे, कलियुगे, प्रथम पादे, (भारत देशः - जम्बू द्वीपे, भरत वर्​षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौञ्च द्वीपे, रमणक वर्​षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये), शोभन गृहे, समस्त देवता ब्राह्मण, हरिहर गुरुचरण सन्निथौ, अस्मिन्, वर्तमान, व्यावहारिक, चान्द्रमान, ... सं​वँत्सरे, ... अयने, ... ऋते, ... मासे, ... पक्षे, ... तिथौ, ... वासरे, ... शुभ नक्षत्र, शुभ योग, शुभ करण, एवङ्गुण, विशेषण, विशिष्ठायां, शुभ तिथौ, श्रीमान्, ... गोत्रः, ... नामधेयः, ... गोत्रस्य, ... नामधेयोहंः प्रातः/मध्याह्निक/सायं सन्ध्यां उपासिष्ये ॥

मार्जनः

ॐ आपो॒हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रसः॑ । तस्य॑ भाजयते॒ ह नः॒ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । (तै. अर. 4-42)

(इति शिरसि मार्जयेत्)

(हस्तेन जलं गृहीत्वा)

प्रातः काल मन्त्राचमनः

सूर्य श्च, मामन्यु श्च, मन्युपतय श्च, मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑ मका॒र्​षम् । मनसा वाचा॑ ह॒स्ताभ्याम् । पद्भ्या मुदरे॑ण शि॒ञ्चा । रात्रि॒ स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमहं मा ममृ॑त यो॒ नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा᳚ ॥ (तै. अर. 10. 24)

मध्याह्न काल मन्त्राचमनः

आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒ र्ब्रह्मा॑ पू॒ता पु॑नातु॒ माम् । यदुच्छि॑ष्ट॒ मभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मा मापो॑ऽस॒ताञ्च॑ प्रति॒ग्रह॒ग्ग्॒ स्वाहा᳚ ॥ (तै. अर. परिशिष्टः 10. 30)

सायङ्काल मन्त्राचमनः

अग्नि श्च मा मन्यु श्च मन्युपतय श्च मन्यु॑कृतेभ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑ मका॒र्​षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्या मुदरे॑ण शि॒ञ्चा । अह स्तद॑वलु॒म्पतु । य त्किञ्च॑ दुरि॒तं मयि॑ । इद महं मा ममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहोमि स्वा॒हा ॥ (तै. अर. 10. 24)

(इति मन्त्रेण जलं पिबेत्)

आचम्य (ॐ केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

द्वितीय मार्जनः

द॒धि॒ क्राव्​ण्णो॑ अकारिषम् । जि॒ष्णो रश्व॑स्य वा॒जि॑नः ।

सु॒रभिनो॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥

(सूर्यपक्षे लोकयात्रा निर्वाहक इत्यर्थः)

ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रसः॑ । तस्य॑ भाजयते॒ ह नः॒ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ (तै. अर. 4. 42)

पुनः मार्जनः

हिर॑ण्यवर्णा॒ श्शुच॑यः पाव॒काः या सु॑जा॒तः क॒श्यपो॒ या स्विन्द्रः॑ । अ॒ग्निं-याँ गर्भ॑न्दधि॒रे विरू॑पा॒ स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु । या सा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् । म॒धु॒ श्चुत॒श्शुच॑यो॒ याः पा॑व॒का स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु । यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं-याँ अ॒न्तरि॑क्षे बहु॒था भव॑न्ति । याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ श्शु॒क्रास्तान॒ आप॒शग्ग् स्यो॒ना भ॑वन्तु । याः शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नु वोप॑स्पृशत॒ त्वच॑ म्मे । सर्वाग्ं॑ अ॒ग्नीग्ं र॑प्सु॒षदो॑ हु॒वे वो॒ मयि॒ वर्चो॒ बल॒ मोजो॒ निध॑त्त ॥ (तै. सं. 5. 6. 1)

(मार्जनं कुर्यात्)

अघमर्​षण मन्त्रः पापविमोचनं

(हस्तेन जलमादाय निश्श्वस्य वामतो निक्षितपेत्)

द्रु॒प॒दा दि॑व मुञ्चतु । द्रु॒प॒दा दि॒वे न्मु॑मुचा॒नः ।

स्वि॒न्न स्स्ना॒त्वी मला॑ दिवः । पू॒तं पवित्रे॑णे॒ वाज्यं᳚ आप॑ श्शुन्दन्तु॒ मैन॑सः ॥ (तै. ब्रा. 266)

आचम्य (ॐ केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

प्राणायामम्य

लघुसङ्कल्पः

पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं प्रातस्सन्ध्याङ्ग यथा कालोचित अर्घ्यप्रदानं करिष्ये ॥

प्रातः कालार्घ्य मन्त्रं

ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ 3 ॥

मध्याह्नार्घ्य मन्त्रं

ॐ ह॒ग्ं॒ सश्शु॑चि॒ष द्वसु॑रन्तरिक्ष॒स द्दोता॑ वेदि॒षदति॑थि र्दुरोण॒सत् । नृ॒ष द्व॑र॒स दृ॑त॒स द्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्-बृ॒हत् ॥ (तै. अर. 10. 4)

सायं कालार्घ्य मन्त्रं

ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥

(इत्यञ्जलित्रयं-विँसृजेत्)

कालातिक्रमण प्रायश्चित्तं

आचम्य...

पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं कालातिक्रम दोषपरिहारार्थं चतुर्था अर्घ्यप्रदानं करिष्ये ॥

ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥

(इति जलं-विँसृजेत्)

सजल प्रदक्षिणं

ॐ उ॒द्यन्त॑मस्तं॒-यँन्त॑-मादि॒त्य-म॑भिथ्या॒य-न्कु॒र्वन्ब्रा᳚ह्म॒णो वि॒द्वान्-थ्स॒कल॑म्भ॒द्रम॑श्नुते॒ असावा॑दि॒त्यो ब्र॒ह्मेति॒ ॥ ब्रह्मै॒व सन्-ब्रह्मा॒प्येति॒ य ए॒वं-वेँद ॥ असावादित्यो ब्रह्म ॥ (तै. अर. 2. 2)

(एवं अर्घ्यत्रयं दद्यात् कालातिक्रमणे पूर्ववत्)

(पश्चात् हस्तेन जलमादाय प्रदक्षिणं कुर्यात्)

(द्विराचम्य प्राणायाम त्रयं कृत्वा)

आचम्य (ॐ केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

सन्ध्याङ्ग तर्पणं

प्रातःकाल तर्पणं

सन्ध्यां तर्पयामि, गायत्रीं तर्पयामि, ब्राह्मीं तर्पयामि, निमृजीं तर्पयामि ॥

मध्याह्न तर्पणं

सन्ध्यां तर्पयामि, सावित्रीं तर्पयामि, रौद्रीं तर्पयामि, निमृजीं तर्पयामि ॥

सायङ्काल तर्पणं

सन्ध्यां तर्पयामि, सरस्वतीं तर्पयामि, वैष्णवीं तर्पयामि, निमृजीं तर्पयामि ॥

(पुनराचमनं कुर्यात्)

गायत्री अवाहन

ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्​षम् । गायत्रं छन्दं परमात्मं॑ सरू॒पम् । सायुज्यं-विँ॑नियो॒ग॒म् ॥ (तै. अर. 10. 33)

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒सम्मि॒तम् । गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे । यदह्ना᳚-त्कुरु॑ते पा॒पं॒ तदह्ना᳚-त्प्रति॒मुच्य॑ते । यद्रात्रिया᳚-त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚-त्प्रति॒मुच्य॑ते । सर्व॑ व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति ॥

ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि॒ विश्व॑मसि वि॒श्वायु॒-स्सर्व॑मसि स॒र्वायु-रभिभूरोम् । गायत्री-मावा॑हया॒मि॒ सावित्री-मावा॑हया॒मि॒ सरस्वती-मावा॑हया॒मि॒ छन्दर्​षी-नावा॑हया॒मि॒ श्रिय-मावाह॑या॒मि॒ गायत्रिया गायत्री च्छन्दो विश्वामित्रऋषि स्सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्​हृदयग्ं रुद्र-श्शिखा पृथिवी योनिः प्राणापान व्यानोदान समाना सप्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विग्ं शत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्च-शीर्​षोपनयने वि॑नियो॒गः॒ । ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (महानारायण उपनिषत्)

आचम्य (ॐ केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

जपसङ्कल्पः

पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्र जपं करिष्ये ॥

करन्यासः

ॐ तथ्स॑वि॒तुः ब्रह्मात्मने अङ्गुष्टाभ्यां नमः ।

वरे᳚ण्यं॒ विष्णवात्मने तर्जनीभ्यां नमः ।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।

धीमहि सत्यात्मने अनामिकाभ्यां नमः ।

धियो॒ यो नः॑ ज्ञानात्मने कनिष्टिकाभ्यां नमः ।

प्रचोदया᳚त् सर्वात्मने करतल करपृष्टाभ्यां नमः ।

अङ्गन्यासः

ॐ तथ्स॑वि॒तुः ब्रह्मात्मने हृदयाय नमः ।

वरे᳚ण्यं॒ विष्णवात्मने शिरसे स्वाहा ।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने शिखायै वषट् ।

धीमहि सत्यात्मने कवचाय हुम् ।

धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।

प्रचोदया᳚त् सर्वात्मने अस्त्रायफट् ।

ॐ भूर्भुव॒स्सुव॒रोमिति दिग्भन्धः ।

ध्यानम्

मुक्ताविद्रुम हेमनील धवलच्चायै-र्मुखै-स्त्रीक्षणैः ।

युक्तामिन्दुनि बद्ध-रत्न-मकुटां तत्वार्थ वर्णात्मिकाम् ।

गायत्रीं-वँरदाभयाङ्कुश कशाश्शुभ्रङ्कपालङ्गदाम् ।

शङ्खञ्चक्र मधारविन्द युगलं हस्तैर्वहन्तीं भजे ॥

चतुर्विंशति मुद्रा प्रदर्​शनं

सुमुखं सम्पुटिञ्चैव विततं-विँस्तृतं तथा ।

द्विमुखं त्रिमुखञ्चैव चतुः पञ्च मुखं तथा ।

षण्मुखोऽथो मुखं चैव व्यापकाञ्जलिकं तथा ।

शकटं-यँमपाशं च ग्रथितं सम्मुखोन्मुखम् ।

प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ।

सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ।

चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।

इतिमुद्रा न जानाति गायत्री निष्फला भवेत् ॥

यो देव स्सविताऽस्माकं धियो धर्मादिगोचराः ।

प्रेरयेत्तस्य यद्भर्गस्त द्वरेण्य मुपास्महे ॥

गायत्री मन्त्रं

ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचोदया᳚त् ॥

अष्टमुद्रा प्रदर्​शनं

सुरभिर्ज्ञान चक्रे च योनिः कूर्मोऽथ पङ्कजम् ।

लिङ्गं निर्याण मुद्रा चेत्यष्ट मुद्राः प्रकीर्तिताः ॥

ॐ तत्सद्ब्रह्मार्पणमस्तु ।

आचम्य (ॐ केशवाय स्वाहा, ... श्री कृष्ण परब्रह्मणे नमो नमः)

द्विः परिमुज्य ।

सकृदुप स्पृश्य ।

यत्सव्यं पाणिम् ।

पादम् ।

प्रोक्षति शिरः ।

चक्षुषी ।

नासिके ।

श्रोत्रे ।

हृदयमालभ्य ।

प्रातःकाल सूर्योपस्थानं

ॐ मि॒त्रस्य॑ च॒र्​षणी॒ धृत॒ श्रवो॑ दे॒वस्य॑ सान॒ सिम् । स॒त्यं चि॒त्रश्र॑ वस्तमम् । मि॒त्रो जनान्॑ यातयति प्रजा॒नन्-मि॒त्रो दा॑धार पृथि॒वी मु॒तद्याम् । मि॒त्रः कृ॒ष्टी रनि॑मिषा॒ऽभि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम । प्रसमि॑त्त्र॒ मर्त्यो॑ अस्तु॒ प्रय॑स्वा॒ न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒नैन॒ मग्ंहो॑ अश्नो॒ त्यन्ति॑तो॒ न दू॒रात् ॥ (तै. सं. 3.4.11)

मध्याह्न सूर्योपस्थानं

ॐ आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒श॑य न्न॒मृतं॒ मर्त्य॑ञ्च । हि॒रण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒ भुव॑ना नि॒पश्यन्॑ ॥

उद्व॒य न्तम॑स॒ स्परि॒ पश्य॑न्तो॒ ज्योति॒ रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्य॒ मग॑न्म ज्योति॑ रुत्त॒मं ॥

उदु॒त्यं जा॒तवे॑दसं दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑ य॒ सूर्य᳚म् ॥ चि॒त्रं दे॒वाना॒ मुद॑गा॒ दनी॑कं॒ चक्षु॑-र्मि॒त्रस्य॒ वरु॑ण स्या॒ग्नेः । अप्रा॒ द्यावा॑ पृथि॒वी अन्त॒रि॑क्ष॒ग्ं सूर्य॑ आ॒त्मा जग॑त स्त॒स्थुष॑श्च ॥

तच्चक्षु॑-र्दे॒वहि॑तं पु॒रस्ता᳚च्चु॒क्र मु॒च्चर॑त् । पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नन्दा॑म श॒रद॑श्श॒तं मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं पब्र॑वाम श॒रद॑श्श॒तमजी॑तास्याम श॒रद॑श्श॒तं जोक्च॒ सूर्यं॑ दृ॒षे ॥ य उद॑गान्मह॒तोऽर्णवा᳚ द्वि॒भ्राज॑मान स्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो लो॑हिता॒क्षसूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥

सायङ्काल सूर्योपस्थानं

ॐ इ॒मम्मे॑ वरुण शृधी॒ हव॑ म॒द्या च॑ मृडय । त्वा म॑व॒स्यु राच॑के ॥ तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ स्त दाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑श॒ग्ं॒ समा॑न॒ आयुः॒ प्रमो॑षीः ॥

यच्चि॒द्धिते॒ विशो॑यथा॒ प्रदे॑व वरुणव्र॒तम् । मि॒नी॒मसि॒द्य वि॑द्यवि । यत्किञ्चे॒दं-वँ॑रुण॒दैव्ये॒ जने॑ऽभिद्रो॒ह-म्म॑नु॒ष्या᳚श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑युयोपि॒-ममान॒-स्तस्मा॒ देन॑सो देवरीरिषः । कि॒त॒वासो॒ यद्रि॑रि॒पुर्नदी॒वि यद्वा॑घा स॒त्यमु॒तयन्न वि॒द्म । सर्वा॒ताविष्य॑ शिधि॒रेव॑दे॒वाऽथा॑तेस्याम वरुण प्रि॒यासः॑ ॥ (तै. सं. 1.1.1)

दिग्देवता नमस्कारः

(एतैर्नमस्कारं कुर्यात्)

ॐ नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ॐ नमो दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ॐ नमः॒ प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ॐ नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ॐ नम॑ ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ॐ नमोऽध॑रायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

ॐ नमो॑ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

मुनि नमस्कारः

नमो गङ्गा यमुनयो-र्मध्ये ये॑ वस॒न्ति॒ ते मे प्रसन्नात्मान श्चिरञ्जीवितं-वँ॑र्धय॒न्ति॒ नमो गङ्गा यमुनयो-र्मुनि॑भ्यश्च॒ नमो नमो गङ्गा यमुनयो-र्मुनि॑भ्यश्च॒ न॑मः ॥

सन्ध्यादेवता नमस्कारः

सन्ध्या॑यै॒ नमः॑ । सावि॑त्र्यै॒ नमः॑ । गाय॑त्र्यै॒ नमः॑ । सर॑स्वत्यै॒ नमः॑ । सर्वा॑भ्यो दे॒वता॑भ्यो॒ नमः॑ । दे॒वेभ्यो॒ नमः॑ । ऋषि॑भ्यो॒ नमः॑ । मुनि॑भ्यो॒ नमः॑ । गुरु॑भ्यो॒ नमः॑ । पितृ॑भ्यो॒ नमः॑ । कामोऽकार्​षी᳚ र्नमो॒ नमः । मन्यु रकार्​षी᳚ र्नमो॒ नमः । पृथिव्यापस्ते॒जो वायु॑राका॒शात् नमः ॥ (तै. अर. 2.18.52)

ॐ नमो भगवते वासु॑देवा॒य । या॒ग्ं सदा॑ सर्वभूता॒नि॒ च॒राणि॑ स्थाव॒राणि॑ च । सा॒यं॒ प्रा॒त र्न॑मस्य॒न्ति॒ सा॒ मा॒ सन्ध्या॑ऽभिरक्षतु ॥

शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ।

शिवस्य हृदयं-विँष्णुर्विष्णोश्च हृदयं शिवः ॥

यथा शिवमयो विष्णुरेवं-विँष्णुमयः शिवः ।

यथाऽन्तरं न पश्यामि तथा मे स्वस्तिरायुषि ॥

नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

गायत्री उद्वासन (प्रस्थानं)

उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्थ॑नि । ब्रा॒ह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्चदे॑वि य॒थासु॑खम् । स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता । आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥ (महानारायण उपनिषत्)

भगवन्नमस्कारः

नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्र पादाक्षि शिरोरु बाहवे ।

सहस्र नाम्ने पुरुषाय शाश्वते सहस्रकोटी युग धारिणे नमः ॥

भूम्याकाशाभि वन्दनं

इ॒दं द्या॑वा पृथि॒वी स॒त्यम॑स्तु॒ । पित॒-र्मातर्यदि॒ होप॑ बृ॒वेवा᳚म् ।

भू॒तं दे॒वाना॑ मवमे अवो॑भिः । विद्या मे॒षं-वृँ॒जिनं॑ जी॒रदा॑नुम् ॥

आकाशात्पतितं तोयं-यँथा गच्छति सागरम् ।

सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥

श्री केशवं प्रतिगच्छत्योन्नम इति ।

सर्ववेदेषु यत्पुण्यम् । सर्वतीर्थेषु यत्फलम् ।

तत्फलं पुरुष आप्नोति स्तुत्वादेवं जनार्धनम् ॥

स्तुत्वादेवं जनार्धन ॐ नम इति ॥

वासना-द्वासुदेवस्य वासितं ते जगत्रयम् ।

सर्वभूत निवासोऽसि श्रीवासुदेव नमोऽस्तुते ॥

श्री वासुदेव नमोऽस्तुते ॐ नम इति ।

अभिवादः (प्रवर)

चतुस्सागर पर्यन्तं गो ब्राह्मणेभ्यः शुभं भवतु । ... प्रवरान्वित ... गोत्रः ... सूत्रः ... शाखाध्यायी ... अहं भो अभिवादये ॥

ईश्वरार्पणं

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृते स्स्वभावात् ।

करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

हरिः ॐ तत्सत् । तत्सर्वं श्री परमेश्वरार्पणमस्तु ।

About This Stotram

Overview

Nitya Sandhya Vandanam is the daily Vedic ritual performed three times a day — at dawn (Pratah Sandhya), noon (Madhyahna Sandhya), and dusk (Sayam Sandhya). It is a mandatory observance for members of the dvija (twice-born) classes and combines water-based purification rites (achamana, marjana) with Gayatri Japa and invocations to Vishnu. The ritual belongs to the nitya karma category of Vedic practice and is common across Smarta, Vaishnava, and Shaiva traditions.

What are the benefits of chanting Nitya Sandhya Vandanam?

  • Purifies the practitioner externally and internally through mantra and water rites
  • Fulfills the daily religious duty prescribed in Vedic texts
  • Cultivates discipline and mindfulness through structured repetition
  • Sustains the practitioner's connection to Vedic tradition

When is the best time to recite this?

Sandhya Vandanam is performed three times daily: at dawn, at midday, and at dusk. Each session corresponds to the three junctures of the day considered auspicious for Vedic practice.

What is the historical and traditional background?

The practice of Sandhya Vandanam is grounded in Vedic injunctions, with core mantras derived from the Yajurveda and codified in Grihya Sutras and Dharma Shastras. It is not attributed to a single author but represents centuries of Vedic transmission through oral tradition and scholarly commentary. Different recensions of the Vedas prescribe variations in the ritual's sequence and mantras. The inclusion of the Gayatri Mantra makes it a central practice for maintaining spiritual purity in daily life.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Gayatri Mantra — the central mantra of Sandhya Vandanam, recited during japa as the ritual's core component
  • Vishnu Sahasranama — a complementary daily text in Vaishnava households, often recited alongside Sandhya Vandanam
नित्य सन्ध्या वन्दनम् | (Nitya Sandhya Vandanam) Lyrics | Vedic Tithi