Stotram - Sacred Scripture

Sri Krishna Krupa Kataksha Stotram

Sri Krishna Krupa Kataksha Stotram

Stotram
Krishna
0 Verses
110%

श्री कृष्ण कृपा कटाक्ष स्तोत्रं

श्लोक 1

श्रीकृष्ण प्रार्थना

मूकं करोति वाचालं पङ्गु लङ्घयते गिरिम्।

यत्कृपा तमहं वन्दे परमानन्द माधवम्॥

नाहं वसामि वैकुण्ठे योगिनां हृदये न च।

मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद॥

अथ श्री कृष्ण कृपा कटाक्ष स्तोत्र ॥

भजे व्रजैकमण्डनं समस्तपापखण्डनं

स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।

सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं

अनङ्गरङ्गसागरं नमामि कृष्णनागरम् ॥

मनोजगर्वमोचनं विशाललोललोचनं

विधूतगोपशोचनं नमामि पद्मलोचनम् ।

करारविन्दभूधरं स्मितावलोकसुन्दरं

महेन्द्रमानदारणं नमामि कृष्ण वारणम् ॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं

व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् ।

यशोदया समोदया सगोपया सनन्दया

युतं सुखैकदायकं नमामि गोपनायकम् ॥

सदैव पादपङ्कजं मदीय मानसे निजं

दधानमुक्तमालकं नमामि नन्दबालकम् ।

समस्तदोषशोषणं समस्तलोकपोषणं

समस्तगोपमानसं नमामि नन्दलालसम् ॥

भुवो भरावतारकं भवाब्धिकर्णधारकं

यशोमतीकिशोरकं नमामि चित्तचोरकम् ।

दृगन्तकान्तभङ्गिनं सदा सदालिसङ्गिनं

दिने-दिने नवं-नवं नमामि नन्दसम्भवम् ॥

गुणाकरं सुखाकरं कृपाकरं कृपापरं

सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् ।

नवीन गोपनागरं नवीनकेलि-लम्पटं

नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥

समस्त गोप मोहनं, हृदम्बुजैक मोदनं

नमामिकुञ्जमध्यगं प्रसन्न भानुशोभनम् ।

निकामकामदायकं दृगन्तचारुसायकं

रसालवेणुगायकं नमामिकुञ्जनायकम् ॥

विदग्ध गोपिकामनो मनोज्ञतल्पशायिनं

नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम् ।

किशोरकान्ति रञ्जितं दृगञ्जनं सुशोभितं

गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥

फलशृति

यदा तदा यथा तथा तथैव कृष्णसत्कथा

मया सदैव गीयतां तथा कृपा विधीयताम् ।

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्

भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान ॥