Sri Krishna Ashtottara Sata Nama Stotram
Sri Krishna Ashtottara Sata Nama Stotram
श्रीकृष्णाष्टोत्तरशत नामस्तोत्रं
श्लोक 1
श्रीगोपालकृष्णाय नमः ॥
श्रीशेष उवाच ॥
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य।
श्रीशेष ऋषिः ॥ अनुष्टुप् छन्दः ॥ श्रीकृष्णोदेवता ॥
श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ॥
ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः
श्लोक 2
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदा शङ्खाद्युदायुधः
॥ 1 ॥
श्लोक 3
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः
॥ 2 ॥
श्लोक 4
पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः
॥ 3 ॥
श्लोक 5
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकः
॥ 4 ॥
श्लोक 6
षोडशस्त्री सहस्रेश स्रिभङ्गि मधुराकृतिः ।
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः
॥ 5 ॥
श्लोक 7
वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः
॥ 6 ॥
श्लोक 8
उत्तानतालभेत्ता च तमालश्यामलाकृतिः ।
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः
॥ 7 ॥
श्लोक 9
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः
॥ 8 ॥
श्लोक 10
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।
अजो निरञ्जनः कामजनकः कञ्जलोचनः
॥ 9 ॥
श्लोक 11
मधुहा मथुरानाथो द्वारकानायको बली ।
वृन्दावनान्तसञ्चारी तुलसीदामभूषणः
॥ 10 ॥
श्लोक 12
श्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः
॥ 11 ॥
श्लोक 13
मुष्टिकासुरचाणूरमहायुद्धविशारदः ।
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः
॥ 12 ॥
श्लोक 14
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः
॥ 13 ॥
श्लोक 15
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी
॥ 14 ॥
श्लोक 16
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः
॥ 15 ॥
श्लोक 17
वृषभासुरविध्वंसी बाणासुरबलान्तकः ।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः
॥ 16 ॥
श्लोक 18
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः
॥ 17 ॥
श्लोक 19
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः ।
नारायणः परम्ब्रह्म पन्नगाशनवाहनः
॥ 18 ॥
श्लोक 20
जलक्रीडासमासक्त गोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः
॥ 19 ॥
श्लोक 21
सर्वतीर्थात्मकः सर्वग्रहरुपी परात्परः ।
एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम्
॥ 20 ॥
श्लोक 22
कृष्णनामामृतं नाम परमानन्दकारकम् ।
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम्
॥ 21 ॥
श्लोक 23
॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामहेश्वरसंवादे
धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
