Stotram - Sacred Scripture

Shukla Yajurveda Sandhya Vandanam

Shukla Yajurveda Sandhya Vandanam

Stotram
Unknown
0 Verses
110%

शुक्ल यजुर्वेद सन्ध्यावन्दनम्

(कात्यायन सूत्रानुसारम्)

श्री गुरुभ्यो नमः । हरिः ओम् ॥

॥ गुरु प्रार्थन ॥

ॐ-वँन्दे-ऽह-म्मङ्गलात्मान-म्भास्वन्तं​वेँदविग्रहम् ।

याज्ञवल्क्य-म्मुनिश्रेष्ठ-ञ्जिष्णुं हरिहर प्रभुम् ॥

जितेन्द्रिय-ञ्जितक्रोधं सदाध्यानपरायणम् ।

आनन्दनिलयं-वँन्दे योगानन्द मुनीश्वरम् ॥

एव-न्द्वादश नामानि त्रिसन्ध्या यः पठेन्नरः ।

योगीश्वर प्रसादेन विद्यावा-न्धनवा-न्भवेत् ॥

ॐ श्री याज्ञवल्क्य गुरुभ्यो नमः ।

कण्वकात्यायनादि महर्​षिभ्यो नमः ॥

गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुस्साक्षा-त्परब्रह्म तस्मै श्री गुरवे नमः ॥

गुरवे सर्वलोकाना-म्भिषजे भवरोगिणाम् ।

निधये सर्वविद्याना-न्दक्षिणामूर्तये नमः ॥

————–

॥ मानस स्नानम् ॥

अपवित्रः पवित्रो वा सर्वावस्था-ङ्गतो-ऽपि वा ।

यस्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥

पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥

गोविन्देति सदास्नान-ङ्गोविन्देति सदा जपः ।

गोविन्देति सदा ध्यानं सदा गोविन्द कीर्तनम् ॥

॥ आचमनम् ॥

  1. ओ-ङ्केशवाय स्वाहा

  2. ओ-न्नारायणाय स्वाहा

  3. ओ-म्माधवाय स्वाहा

  4. ओ-ङ्गोविन्दाय नमः

  5. ॐ-विँष्णवे नमः

  6. ओ-म्मधुसूदनाय नमः

  7. ओ-न्त्रिविक्रमाय नमः

  8. ॐ-वाँमनाय नमः

  9. ॐ श्रीधराय नमः

  10. ॐ हृषीकेशाय नमः

  11. ओ-म्पद्मनाभाय नमः

  12. ओ-न्दामोदराय नमः

  13. ॐ सङ्कर्​षणाय नमः

  14. ॐ-वाँसुदेवाय नमः

  15. ओ-म्प्रद्युम्नाय नमः

  16. ॐ अनिरुद्धाय नमः

  17. ओ-म्पुरुषोत्तमाय नमः

  18. ॐ अथोक्षजाय नमः

  19. ओ-न्नारसिंहाय नमः

  20. ॐ अच्युताय नमः

  21. ओ-ञ्जनार्दनाय नमः

  22. ॐ उपेन्द्राय नमः

  23. ॐ हरये नमः

  24. ॐ श्री कृष्णाय नमः

॥ भूमि प्रार्थन ॥

पृथिवीत्यस्य, मेरुपृष्ठ ऋषिः, कूर्मो देवता, सुतल-ञ्छन्दः, आसने विनियोगः ।

ओ-म्पृथ्वी त्वया धृता लोका देवि त्वं-विँष्णुना धृता ।

त्व-ञ्च धारय मा-न्देवि पवित्र-ङ्कुरु चासनम् ।

॥ प्राणायामम् ॥

प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, दैवी गायत्री छन्दः ।

सप्तानां-व्याँहृतीना-म्प्रजापति ऋषिः, अग्नि-वायु-सूर्य-बृहस्पति-वरुणेन्द्र-विश्वेदेवा देवताः, गायत्र्युष्णिक् अनुष्टुप् बृहती पङ्क्तिः, त्रिष्टुब्जगत्यश्छन्दांसि ।

तत्सवितुरित्यस्य विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः ।

शिरोमन्त्रस्य प्रजापति ऋषिः, ब्रह्म-अग्नि-वायु-सूर्या देवताः, यजुश्छन्दः ।

प्राणायामे विनियोगः ।

ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-म्महः॑ । ओ-ञ्जनः॑ । ओ-न्तपः॑ । ओग्‍ं सत्यम् ।

ओ-न्तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ॐ आपो॒ ज्योती॒ रसो॒मृत॒-म्ब्रह्म॒ भूर्भुव॒स्स्व॒रोम् ।

॥ सङ्कल्पम् ॥

मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्​षे भरतखण्डे मेरोर्दक्षिण दिग्भागे श्रीशैलस्य …… प्रदेशे ……, …… नद्योः मध्य प्रदेशे मङ्गल गृहे अस्मिन् वर्तमन व्यावहरिक चान्द्रमानेन स्वस्ति श्री …….. (1) नाम सं​वँत्सरे …… अयने(2) …… ऋतौ (3) …… मासे(4) …… पक्षे (5) …… तिथौ (6) …… वासरे (7) …… नक्षत्रे (8) …… योगे (9) …… करण (10) एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् …… गोत्रः …… नामधेयः (श्रीमतः …… गोत्रस्य …… नामधेयस्य मम धर्मपत्नी समेतस्य) श्री परमेश्वर प्रीत्यर्थ-म्मम श्रौत स्मार्त नित्य कर्मानुष्ठान योग्यता फलसिद्ध्यर्थ-म्प्रातः/माध्याह्निक/सायं सन्ध्यां उपासिष्ये ॥

॥ मार्जनमु ॥

गङ्गे च यमुने कृष्णे गोदावरी सरस्वती ।

नर्मदे सिन्धु कावेरी जले-ऽस्मिन् सन्निधि-ङ्कुरु ॥

आपोहिष्ठेति तिसृणाम्, सिन्धुद्वीप ऋषिः, आपो देवता, गायत्री छन्दः, मार्जने विनियोगः ।

ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ । (पादमुल पै)

ओ-न्ता न॑ ऊ॒र्जे द॑धातन । (शिरस्सु पै)

ओ-म्म॒हेरणा॑य॒ चक्ष॑से । (हृदयमु पै)

ॐ-योँ व॑श्शि॒वत॑मो॒ रसः॑ । (शिरस्सु पै)

ओ-न्तस्य॑ भाजयते॒ ह नः॑ । (हृदयमु पै)

ॐ उ॒श॒तीरि॑व मा॒त॑रः । (पादमुल पै)

ओ-न्तस्मा॒ अर॑ङ्गमामवः । (हृदयमु पै)

ॐ-यँस्य॒ क्षया॑य॒ जिन्व॑थ । (पादमुल पै)

ॐ आपो॑ ज॒नय॑था च नः । (शिरस्सु पै)

॥ मन्त्राचमनम् ॥

(प्रातः काले)

सूर्यश्चेति मन्त्रस्य, उपनिषद्याज्ञवल्क्य ऋषिः, सूर्यो देवता, अनुष्टु-प्छन्दः, उदक प्राशने विनियोगः ।

ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।

पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑मका॒र्​षम् ।

मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।

रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ ।

इ॒दम॒ह-म्माममृत॑यो॒नौ ।

सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

(मध्याह्न काले)

आपः पुनन्त्विति मन्त्रस्य, नारायण ऋषिः, आपो देवता, गायत्री छन्दः, उदक प्राशने विनियोगः ।

आपः॑ पुनन्तु पृथि॒वी-म्पृथि॒वी पू॒ता पु॑नातु॒ माम् ।

पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु माम् ॥

यदुच्छि॑ष्टमभो᳚ज्य॒-ञ्च यद्वा॑ दु॒श्चरि॑त॒-म्मम॑ ।

सर्व॑-म्पुनन्तु॒ मामापो॑-ऽस॒ता-ञ्च॑ प्रति॒ग्रह॒ग्ं स्वाहा᳚ ॥

(साय-ङ्काले)

अग्निश्चेति मन्त्रस्य, याज्ञवल्क्य उपनिषदृषिः, अग्निर्देवता, अनुष्टु-प्छन्दः, उदक प्राशने विनियोगः ।

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।

पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्​षम् ।

मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।

अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ ।

इ॒दम॒ह-म्माममृत॑यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

॥ पुनर्मार्जनम् ॥

आचम्य (चे.) ॥

ओ-म्भूर्भुव॒स्स्वः॑ ।

तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।

म॒हेरणा॑य॒ चक्ष॑से ।

यो व॑श्शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।

उ॒श॒तीरि॑व मा॒त॑रः ।

तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।

आपो॑ ज॒नय॑था च नः ।

॥ अघमर्​षणम् ॥

द्रुपदा दिवेत्यस्य मन्त्रस्य, कोकिल राजपुत्र ऋषिः, आपो देवता, अनुष्टु-प्छन्दः, अघमर्​षणे विनियोगः ।

ओ-न्द्रु॒प॒दा दि॑व मुञ्चतु । द्रु॒प॒दा दि॒वेन्मु॑मुचा॒नः ।

स्वि॒न्न-स्स्ना॒त्वी मला॑दिव । पू॒त-म्प॒वित्रे॑णे॒वाज्य᳚म् ।

आपः॑ शुन्धन्तु॒ मैन॑सः । (तै.ब्रा.2.6.6.4)

शत्रुक्षयार्थ मार्जनम् ॥

सुमित्रान इत्यस्य मन्त्रस्य, प्रजापति ऋषिः, आपो देवता, अनुष्टु-प्छन्दः, शत्रुक्षयार्थे विनियोगः ।

ॐ सु॒मि॒त्रा न॒ आप॒ ओष॑धय-स्सन्तु । दु॒र्मि॒त्रास्तस्मै॑ भुयासुः ।

यो᳚-ऽस्मान्द्वेष्टि॑ । य-ञ्च॑ व॒य-न्द्वि॒ष्मः । (तै.ब्रा.2.6.6.3)

पापक्षयार्थ मार्जनम् ॥

इदमाप इत्यस्य मन्त्रस्य, उचक्थ्य ऋषिः, आपो देवता, अनुष्टु-प्छन्दः, दुरितक्षयार्थ मार्जने विनियोगः ।

ॐ इ॒दमा॑पः॒ प्रव॑हत॒ यत्कि-ञ्च॑ दुरि॒त-म्मयि॑ ।

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥

॥ अर्घ्यप्रदानमु ॥

आचम्य (चे.) ॥

प्राणानायम्य (चे.) ॥

पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ (कालातिक्रमणदोष निवृत्यर्थ-म्प्रायश्चित्तार्घ्य पूर्वक) प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग अर्घ्यप्रदान-ङ्करिष्ये ॥

भूर्भुवस्स्वरिति महाव्याहृतीनाम्, परमेष्ठी प्रजापति ऋषिः, अग्नि-वायु-सूर्या देवताः, गायत्र्युष्णिक् अनुष्टुप्छन्दांसि ।

तत्सवितुरित्यस्य, विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः, अर्घ्यप्रदाने विनियोगः ।

ओ-म्भूर्भुव॒स्स्वः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भर्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।

(प्रातः काले)

उषस्त इत्यस्य मन्त्रस्य, गौतम ऋषिः, उषो देवता, उष्णिक्छन्दः, प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।

ॐ उष॒स्तच्चि॒त्रमाभ॑रा॒स्मभ्यं॑-वाँजनीवति येनतो॒क-ञ्च॒ तन॑य-ञ्च॒ धाम॑हे ॥

श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।

ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [3]

(मध्याह्न काले)

आकृष्णेनेत्यस्य मन्त्रस्य, हिरण्य स्तूप ऋषिः, सूर्यो देवता, त्रिष्टुप्छन्दः, प्रायश्चित्तार्घ्य प्रदाने विनियोगः ॥

ॐ आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒-म्मर्त्य॑ञ्च ।

हि॒र॒ण्यये॑न सवि॒ता रथे॒ना-ऽऽदे॒वो या॑ति॒भुव॑नानि॒ पश्यन्॑ ॥

श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।

ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [1]

(साय-ङ्काले)

आरात्रीत्यस्य मन्त्रस्य, कशिपा भरद्वाज दुहिता ऋषिः, रात्रिर्देवता, पथ्भ्या बृहती छन्दः, प्रायश्चितार्घ्य प्रदाने विनियोगः ।

ॐ आरा॑त्रि॒ पार्थि॑व॒ग्ं॒ रजः॑ पि॒तुर॑ प्रायि॒ धाम॑भिः । दि॒व-स्सदा॑ग्ग्‍सि बृह॒ती विति॑ष्ठस॒ आत्वे॒षं-वँ॑र्तते॒ त॑मः ॥

श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।

ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [3]

॥ भूप्रदक्षिण ॥

असावादित इत्यस्य मन्त्रस्य, ब्रह्मा ऋषिः, आदित्यो देवता, अनुष्टु-प्छन्दः, भू प्रदक्षिणे विनियोग ।

अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥

॥ सन्ध्या तर्पणम् ॥

(प्रातः काले)

गायत्र्या, व्यास ऋषिः, ब्रह्मा देवता, गायत्री छन्दः, प्रात-स्सन्ध्या तर्पणे विनियोगः ।

ओ-म्भूः पुरुषस्तृप्यताम्

ॐ ऋग्वेदस्तृप्यताम्

ओ-म्मण्डलस्तृप्यताम्

ॐ हिरण्यगर्भरूपी तृप्यताम्

ॐ आत्मा तृप्यताम्

ओ-ङ्गायत्री तृप्यताम्

ॐ-वेँदमाता तृप्यताम्

ॐ साङ्कृती तृप्यताम्

ॐ सन्ध्या तृप्यताम्

ओ-ङ्कुमारी तृप्यताम्

ओ-म्ब्राह्मी तृप्यताम्

ॐ उषस्तृप्यताम्

ओ-न्निर्मृजी तृप्यताम्

ॐ सर्वार्थसिद्धिकरी तृप्यताम्

ॐ सर्वमन्त्राधिपतिस्तृप्यताम्

ओ-म्भूर्भवस्स्वः पुरुषस्तृप्यताम्

(मध्याह्न काले)

सावित्र्याः, कश्यप ऋषिः, रुद्रो देवता, त्रिष्टु-प्छन्दः, माध्याह्निक सन्ध्या तर्पणे विनियोगः ।

ओ-म्भुवः पुरुषस्तृप्यताम्

ॐ-यँजुर्वेदस्तृप्यताम्

ओ-म्मण्डलस्तृप्यताम्

ॐ रुद्ररूपी तृप्यताम्

ॐ अनन्तरात्मा तृप्यताम्

ॐ सावित्री तृप्यताम्

ॐ-वेँदमाता तृप्यताम्

ॐ साङ्कृती तृप्यताम्

ॐ सन्ध्या तृप्यताम्

ॐ-युँवती तृप्यताम्

ॐ रौद्री तृप्यताम्

ॐ उषस्तृप्यताम्

ओ-न्निर्मृजी तृप्यताम्

ॐ सर्वर्थसिद्धिकरी तृप्यताम्

ॐ सर्वमन्त्राधिपतिस्तृप्यताम्

ओ-म्भूर्भुवस्स्वः पुरुषस्तृप्यताम्

(सायन्त्र काले)

सरस्वत्या, वशिष्ठ ऋषिः, विष्णुर्देवता जगती छन्दः, सायं सन्ध्या तर्पणे विनियोगः ।

ओग्ग् स्वः पुरुषस्तृप्यताम्

ॐ सामवेदस्तृप्यताम्

ओ-म्मण्डलस्तृप्यताम्

ॐ-विँष्णुरूपी तृप्यताम्

ओ-म्परमात्मा तृप्यताम्

ॐ सरस्वती तृप्यताम्

ॐ-वेँदमाता तृप्यताम्

ॐ साङ्कृती तृप्यताम्

ॐ सन्ध्या तृप्यताम्

ॐ-वृँद्धा तृप्यताम्

ॐ-वैँष्णवी तृप्यताम्

ॐ उषस्तृप्यताम्

ओ-न्निर्मृजी तृप्यताम्

ॐ सर्वार्थसिद्धिकरी तृप्यताम्

ॐ सर्वमन्त्राधिपतिस्तृप्यताम्

ओ-म्भूर्भुवस्स्वः पुरुष स्तृप्यताम्

॥ सूर्योपस्थानमु ॥

उदुत्य मित्यस्याः, प्रस्कण्वृषिः, सविता देवता, गायत्री छन्दः ।

चित्र-न्देवानामित्यस्याः, कुत्स ऋषिः, सूर्यो देवता, त्रिष्टुप्छन्दः, सूर्योपस्थाने विनियोगः ॥

ॐ उदु॒त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

ओ-ञ्चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑क॒-ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒द्यावा॑ पृथि॒वी अ॒न्तरि॑क्ष॒ग्॒ सूर्य॑ आ॒त्मा जग॑दस्त॒स्थुष॑श्च ॥

(प्रातः काले)

ओ-म्मित्रस्येत्यादि चतुर्णाम्, विश्वामित्र ऋषिः, लिङ्गोक्ता देवताः, गायत्री बृहत्यनुष्टुप् धृतयश्छन्दांसि, सूर्योपस्थाने विनियोगः ।

ओ-म्मि॒त्रस्य॑ चर्​षणी॒ दृतोवो॑ दे॒वस्य॑सान॒सि द्यु॒म्न-ञ्चि॒त्र स्र॑वस्तमम् ॥

ओ-न्दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिस्स्व॑ज्गु॒रिस्सु॑ बा॒हुरु॒तशक्त्या॑ । अव्य॑थमाना पृथि॒व्या माशा॒दिश॒ आपृ॑ण ॥

ॐ उ॒त्थाय॑ बृह॒ती भ॒वो दु॑त्तिष्ठध्रु॒वात्वम् । मित्रै॒तान्त॑ उ॒खा-म्परि॑ददा॒म्यभि॑त्या ए॒षा माभे॑दि ॥

ॐ-वँस॑व॒स्त्वा छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साज्गिर॒स्व द्रु॒द्रास्त्वा छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साज्गिर॒स्वत् ।

आ॒दि॒त्यास्त्वा छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साज्गिर॒स्व द्विश्वे॑त्वा दे॒वावै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साज्गिर॒स्वत् ॥

(मध्याह्न काले)

उद्वयमुदित्यमितिद्वयो, प्रस्कण्व ऋषिः, सविता देवता, प्रथमस्यानुष्टुप्छन्दः, द्वितीयस्य गायत्री छन्दः,

चित्र-न्देवानामित्यस्य, कुत्स ऋषिः, सविता देवता, त्रिष्टुप्छन्दः, तच्चक्षुरित्यस्य, दध्यङ्गाथर्वण ऋषिः, सूर्यो देवता, पङ्क्तिश्छन्दः, सूर्योपस्थाने विनियोगः ॥

ॐ उद्व॒य-न्तम॑स॒स्परि॒स्वः॒ पश्य॑न्त॒ उत्त॑रम् ।

दे॒व-न्दे॑व॒त्रा सूर्य॒ मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥

ॐ उदु॒त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ ।

दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

ओ-ञ्चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑क॒-ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।

आप्रा॒द्यावा॑ पृथि॒वी अ॒न्तरि॑क्ष॒ग्॒ सूर्य॑ आ॒त्मा ज॑गदस्त॒स्थुष॑श्च ॥

ओ-न्तच्चक्षु॑र्दे॒वहि॑त-म्पु॒रस्ता॑च्छु॒क्र मु॒च्चर॑त् ।

पश्ये॒म श॒रद॑श्श॒त-ञ्जीवे॑म श॒रद॑श्श॒तग् शृणु॑याम श॒रद॑श्श॒तम् ॥

(साय-ङ्काले)

इम-म्मे वरुण तत्वायामीत्यनयोश्शुनश्शेफ ऋषिः, वरुणो देवता, गायत्री त्रिष्टुभौ छन्दसि, सूर्योपस्धाने विनियोगः ॥

ॐ इ॒म-म्मे॑ वरुण श्रुधी॒हव॑म॒द्या च॑ मृलय । त्वाम॑व॒स्युराच॑के ॥

ओ-न्तत्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।

अहे॑लमानो वरुणे॒ हबो॒ध्युरु॑शग्ं स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥

॥ गायत्री ॥

आचम्य (चे.) ॥

प्राणानायम्य (चे.) ॥

उग्रभूतपिशाचास्ते इत्येते भूमि भारकाः ।

भूतानामविरोधेन ब्रह्म कर्म समारभे ॥

पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ यथा शक्ति प्रातः/मध्याह्निक/सायं सन्ध्याङ्ग गायत्री मन्त्र जप-ङ्करिष्ये ॥

गायत्र्यावाहनम् ।

ॐ ओजो॑-ऽसि॒ सहो॑-ऽसि॒ बलम॑सि॒ भ्राजो॑-ऽसि दे॒वाना॒-न्धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒-स्सर्व॑मसि स॒र्वायुरभिभूरोम् । गायत्रीमावा॑हया॒मि॒ । सावित्रीमावा॑हया॒मि॒ । सरस्वतीमावा॑हया॒मि॒ । छन्दर्​षीनावा॑हया॒मि॒ । श्रियमावा॑हया॒मि॒ ॥

गा॒यत्र्या गायत्री छन्दो विश्वामित्र ऋषि-स्सविता देवता अग्निर्मुख-म्ब्रह्माशिरः विष्णुर्‍हृदयग्ं रुद्रश्शिखा पृथिवी योनिः प्राणापानव्यानोदान समानास्सप्राणा-श्श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विग्‍ंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्चशीर्​षोपनयने वि॑नियो॒गः॒ ॥

आयात्वित्यनुवाकस्य, वामदेव ऋषिः, गायत्री देवता, अनुष्टु-प्छन्दः, गायत्र्यावाहने विनियोगः ॥

ॐ आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षर॑-म्ब्रह्म॒ सम्मि॑तम् ।

गा॒य॒त्री॑-ञ्छन्द॑सा-म्मा॒ते॒द-म्ब्र॑ह्म जु॒षस्व॑ नः ।

तेजो-ऽसीत्यस्य मन्त्रस्य, प्रजापति ऋषिः, सौवर्ण-न्निष्क-न्देवता, अनुष्टु-प्छन्दः, गायत्र्यावाहने विनियोगः ॥

ओ-न्तेजो॑-ऽसि शु॒क्रम॒मृत॑मायु॒ष्पा आयु॑र्मेपाहि ।

दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे॒-ऽश्विनो॑र्बा॒हुभ्या॑-म्पू॒ष्णो हस्ता॑भ्या॒माद॑धे ॥

प्रार्थन ॥

गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्य पदसि न हि पद्यसे ।

नमस्ते तुरीयाय दर्​शताय पदाय परोरजसेसावदो मा प्रापत् ।

(प्रातः काले)

प्रात-स्सन्ध्या, गायत्री नामा, रक्तवर्णा, हंसवाहना, ब्रह्महृदया, बाल रूपा, आवहनीयाग्निरूपस्थाना, भूरायतना, जाग्रद्वद्धृतिः, प्रातस्सवने ऋग्वेदे विनियोगः ।

(मध्याह्न काले)

माध्याह्निक सन्ध्या, सावित्री नामा, श्वेतवर्णा, वृषभ वाहना, रुद्रहृदया, यव्वन रूपा, गार्​हपत्याग्निरूपस्थाना, अन्तरिक्षायतना, स्वप्नवद्धृतिः, माध्याह्निक सवने यजुर्वेदे विनियोगः ।

(साय-ङ्काले)

सायं सन्ध्या, सरस्वती नामा, कृष्णवर्णा, गरुड वाहना, विष्णु हृदया, वृद्धरूपा, दक्षिणाग्निरूपस्थाना, द्यौरायतना, सुषुप्तिवद्धृतिः, सायंसवने सामवेदे विनियोगः ।

(त्रिकाले)

आगच्छ वरदे देवि जपे मे सन्निधौ भव ।

गायन्त-न्त्रायसे यस्माद्गायत्री त्वमुदाहृता ॥

न्यासम् ॥

ओ-म्भूरिति पादयोः ।

ओ-म्भुवरिति जङ्घयोः ।

ओग्ग्‍ं स्वरिति जान्वोः ।

ओ-म्मह इति जठरे ।

ओ-ञ्जन इति कण्ठे ।

ओ-न्तप इति मुखे ।

ओग्ग्‍ं सत्यमिति शिरसि ।

ओ-म्भूः अङ्गुष्ठाभ्या-न्नमः ।

ओ-म्भुवः तर्जनीभ्या-न्नमः ।

ओग्‍ं स्वः मध्यमाभ्या-न्नमः ।

ओ-न्तत्सवितुर्वरेण्यं अनामिकाभ्या-न्नमः ।

ओ-म्भर्गो देवस्य धीमहि कनिष्ठिकाभ्या-न्नमः ।

ओ-न्धियो यो नः प्रचोदया-त्करतल करपृष्ठाभ्या-न्नमः ।

ओ-म्भूः हृदयाय नमः ।

ओ-म्भुव-श्शिरसे स्वाहा ।

ओग्ं स्व-श्शिखायै वषट् ।

ओ-न्तत्सवितुर्वरेण्य-ङ्कवचाय हुम् ।

ओ-म्भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् ।

ओ-न्धियो यो नः प्रचोदयात् अस्त्राय फट् ।

ओ-म्भूर्भवस्स्वरोमिति दिग्बन्धः ।

गायत्री ध्यानम् ॥

मुक्ताविद्रुमहेमनीलधवल-च्छायैर्मुखैस्त्रीक्षणैः ।

युक्तामिन्दुनिबद्धरत्नमकुटा-न्तत्त्वार्थ वर्णात्मिकाम् ॥

गायत्रीं-वँरदा-ऽभया-ऽङ्कुश कशाश्शुभ्र-ङ्कपाल-ङ्गदाम् ।

शङ्ख-ञ्चक्रमथा-ऽरविन्दयुगलं हस्तैर्वहन्ती-म्भजे ॥

लमित्यादि पञ्चपूजा ॥

ल-म्पृथिवीतत्त्वात्मिकायै गायत्री देवतायै नमः ।

गन्ध-म्परिकल्पयामि ॥

हं आकाशतत्त्वात्मिकायै गायत्री देवतायै नमः ।

पुष्प-म्परिकल्पयामि ॥

यं-वाँयुतत्त्वात्मिकायै गायत्री देवतायै नमः ।

धूप-म्परिकल्पयामि ॥

रं-वँह्नितत्त्वात्मिकायै गायत्री देवतायै नमः ।

दीप-म्परिकल्पयामि ॥

वं अमृततत्त्वात्मिकायै गायत्री देवतायै नमः ।

नैवेद्य-म्परिकल्पयामि ॥

सं सर्वतत्त्वात्मिकायै गायत्री देवतायैनमः ।

सर्वोपचारा-न्परिकल्पयामि॥

प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, दैवी गायत्री छन्दः ।

भूर्भुवस्स्वरिति महाव्याहृतीना-म्परमेष्ठी प्रजापति ऋषिः, अग्नि-वायु-सूर्या देवताः, गायत्र्युष्णिगनुष्टु-प्छन्दांसि ।

गायत्र्या विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः ।

गायत्री मुद्रलु ॥

सुमुखं सम्पुट-ञ्चैव विततं-विँस्तृत-न्तथा ।

द्विमुख-न्त्रिमुख-ञ्चैव चतुः पञ्चमुख-न्तथा ॥

षण्मुखो-ऽधोमुख-ञ्चैव व्यापिकाञ्जलिक-न्तथा ।

शकटं-यँमपाश-ञ्च ग्रथितं सम्मुखोन्मुखम् ॥

प्रलम्ब-म्मुष्टिक-ञ्चैव मत्स्यः कूर्मो वराहकम् ।

सिंहाक्रान्त-म्महाक्रान्त-म्मुद्गर-म्पल्लव-न्तथा ॥

गायत्री मन्त्रम् ॥

ओ-म्भूर्भुव॒स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

॥ मन्त्र जपावसानम् ॥

पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभ तिथौ गायत्री जपोपसंहार-ङ्करिष्ये ।

अस्य श्री गायत्री महामन्त्रस्य, विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः, मम जपोपसंहारे विनियोगः ।

ओ-म्भूरिति पादयोः ।

ओ-म्भुवरिति जङ्घयोः ।

ओग्ग्‍ं स्वरिति जान्वोः ।

ओ-म्मह इति जठरे ।

ओ-ञ्जन इति कण्ठे ।

ओ-न्तप इति मुखे ।

ओग्ग्‍ं सत्यमिति शिरसि ।

ओ-म्भूः अङ्गुष्ठाभ्या-न्नमः ।

ओ-म्भुवः तर्जनीभ्या-न्नमः ।

ओग्‍ं स्वः मध्यमाभ्या-न्नमः ।

ओ-न्तत्सवितुर्वरेण्यं अनामिकाभ्या-न्नमः ।

ओ-म्भर्गो देवस्य धीमहि कनिष्ठिकाभ्या-न्नमः ।

ओ-न्धियो यो नः प्रचोदया-त्करतल करपृष्ठाभ्या-न्नमः ।

ओ-म्भूः हृदयाय नमः ।

ओ-म्भुव-श्शिरसे स्वाहा ।

ओग्ं स्व-श्शिखायै वषट् ।

ओ-न्तत्सवितुर्वरेण्य-ङ्कवचाय हुम् ।

ओ-म्भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् ।

ओ-न्धियो यो नः प्रचोदयात् अस्त्राय फट् ।

भूर्भुवस्स्वरोमिति दिग्विमोकः ।

उत्तर मुद्रलु ॥

सुरभिः ज्ञान चक्रे च योनिः कूर्मो-ऽथ पङ्कजम् ।

लिङ्ग-न्निर्याण मुद्रा चेत्यष्टमुद्राः प्रकीर्तिताः ।

॥ गायत्री तर्पणम् ॥

पूर्वोक्त एव-ङ्गुण विशेषण विशिष्ठायां शुभ तिथौ सवितृप्रीति योगाय गायत्री तर्पणमह-ङ्करिष्ये ।

ऋषिर्व्यास-स्समुद्दिष्टो ब्रह्मादैव तमुच्यते ।

छन्दो गायत्रक-ञ्चैव विनियोगस्तु तर्पणे ॥

ओ-म्भूः पुरुष ऋग्वेदस्तृप्यताम्

ओ-म्भुवः पुरुष यजुर्वेदस्तृप्यताम्

ओग्ग्‍ं स्वः पुरुष सामवेदस्तृप्यताम्

ओ-म्महः पुरुष अथर्वणवेदस्तृप्यताम्

ओ-ञ्जनः पुरुष इतिहासपुराणस्तृप्यताम्

ओ-न्तपः पुरुष सर्वागमस्तृप्यताम्

ॐ सत्य-म्पुरुष सत्यलोकस्तृप्यताम्

ओ-म्भूर्भुव-स्स्वः पुरुष मण्डलान्तर्गतस्तृप्यताम्

ओ-म्भूरेकपदा गायत्री तृप्यताम्

ओ-म्भुवः द्विपदा गायत्री तृप्यताम्

ओग्‍ं स्वः त्रिपदा गायत्री तृप्यताम्

ओ-म्भूर्भुवस्स्व-श्चतुष्पदा गायत्री तृप्यताम्

ॐ उषस्तृप्यताम्

ओ-ङ्गायत्री तृप्यताम्

ॐ सावित्री तृप्यताम्

ॐ सरस्वती तृप्यताम्

ॐ-वेँदमाता तृप्यताम्

ओ-म्पृथिवी तृप्यताम्

ओ-ञ्जया तृप्यताम्

ओ-ङ्कौशिकी तृप्यताम्

ॐ साङ्कृति तृप्यताम्

ॐ सर्वापराजिता तृप्यताम्

ॐ सहस्रमूर्तिस्तृप्यताम्

ॐ आनन्दमूर्तिस्तृप्यताम् ।

॥ दिङ्नमस्कारः ॥

ओ-म्प्राच्यै दिशे नमः । इन्द्राय नमः ।

ॐ आग्नेयै दिशे नमः । अग्नये नमः ।

ओ-न्दक्षिणायै दिशे नमः । यमाय नमः ।

ओ-न्नैर्-ऋत्यै दिशे नमः । निर्-ऋतये नमः ।

ओ-म्प्रतीच्यै दिशे नमः । वरुणाय नमः ।

ॐ-वाँयुव्यै दिशे नमः । वायवे नमः ।

ॐ उदीच्यै दिशे नमः । कुबेराय नमः ।

ॐ ईशान्यै दिशे नमः । ईश्वराय नमः ।

ॐ ऊर्ध्वायै दिशे नमः । ब्रह्मणे नमः ।

ॐ अधरायै दिशे नमः । अनन्ताय नमः ।

ॐ सन्ध्यायै नमः

ओ-ङ्गायत्र्यै नमः

ॐ सावित्र्यै नमः

ॐ सरस्वत्यै नमः

ॐ सर्वेभ्यो देवताभ्यो नमः

ओ-न्देवेभ्यो नमः ।

ॐ ऋषिभ्यो नमः

ओ-म्मुनिभ्यो नमः

ओ-ङ्गुरुभ्यो नमः

ओ-म्पितृभ्यो नमः

ओ-म्मातृभ्यो नमः

ओ-न्नमो नमः इति ।

॥ उद्वासनम् ॥

उत्तमेत्यनुवाकस्य, वामदेव ऋषिः, गायत्री देवता, अनुष्टु-प्छन्दः, उद्वासने विनियोगः ॥

ॐ उ॒त्तमे॑ शिख॑रे देवी भू॒म्या-म्प॑र्वत॒मूर्ध॑नि ।

ब्राह्मणे॑भ्यो-ऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒था सु॑खम् ॥

॥जप निवेदनम् ॥

देवा गातु विद इत्यस्य मन्त्रस्य, मनसस्पत ऋषिः, वातो देवता, विराट् छन्दः, जपनिवेदने विनियोगः॥

ओ-न्देवा॑गातु विदोगा॒तु मि॒त्वागा॒तु मि॑त ।

मन॑सस्पत इ॒म-न्दे॑व य॒ज्ञग्ग् स्वाहा॒ वाते॑थाः ॥

(प्रातः काले)

प्रातस्सन्ध्याङ्ग भूतेन गायत्र्यास्तु जपेन च ।

सा-ऽष्टेन शत सङ्ख्येन ब्रह्म मे प्रियतां रविः ॥

(मध्याह्न काले)

मध्याह्न सन्ध्याङ्गत्वेन गायत्र्या जपितेन च ।

यथा सङ्ख्येन जपेन रुद्रो मे प्रियतां रविः ॥

(साय-ङ्काले)

सायं सन्ध्याङ्ग भूतेन गायत्र्यास्तु जपेन च ।

सा-ऽष्टेन शत सङ्ख्येन ब्रह्म मे प्रियतां रविः ॥

॥ प्रवर ॥

प्रवरलु चू. ॥

चतुस्सागर पर्यन्त-ङ्गोब्राह्मणेभ्य-श्शुभ-म्भवतु । ………. प्रवरान्वित ………… गोत्र-श्शुक्ल यजुर्वेदान्तर्गत काण्व शाखाध्यायी कात्यायन सूत्रः ………. शर्मा-ऽह-म्भो अभिवादये ॥

समर्पणम् ।

आसत्यलोकात्पाताला-दालोकालोकपर्वतात् ।

ये सन्ति ब्राह्मणादेवास्तेभ्यो नित्य-न्नमो नमः ॥

विष्णुपत्नीसमुद्भूते शङ्खवर्णे महीतले ।

अनेकरत्नसम्पन्ने भूमिदेवि नमो-ऽस्तु ते ॥

समुद्रवसने देवि पर्वतस्तनमण्डले ।

विष्णुपत्नी नमस्तुभ्य-म्पादस्पर्​श-ङ्क्षमस्व मे ॥

About This Stotram

Overview

The Shukla Yajurveda Sandhya Vandanam is the prescribed daily ritual observance (nitya karma) for adherents of the Shukla Yajurveda shakha, performed three times a day at the junctures of dawn, noon, and dusk. The text comprises a sequence of mantras, prayers, and procedural instructions covering Achamana (water sipping), Pranayama, Marjana (self-purification with water), Arghya Pradana (water offering to the sun), and Gayatri Japa. It follows the Katyayana Sutra tradition of the Shukla Yajurveda.

What are the benefits of chanting Shukla Yajurveda Sandhya Vandanam?

  • Fulfills the prescribed daily obligatory duty (nitya karma) recognized in Vedic Dharma Shastra
  • Purification of the practitioner through each of the constituent ritual acts
  • Sustained practice is associated with mental clarity, spiritual discipline, and connection with solar cosmic cycles
  • Maintains the continuity of Vedic tradition through daily performance

When is the best time to recite this?

The Sandhya Vandanam is performed three times daily: at sunrise (Pratah Sandhya), at noon (Madhyahna Sandhya), and at sunset (Sayam Sandhya). These timings are specific and obligatory within the tradition; performing all three sittings is considered the complete observance.

What is the historical and traditional background?

Sandhya Vandanam is among the most ancient continuous ritual practices in the Hindu tradition, with its roots in the Vedic concept of twilight as a period of transition requiring conscious ritual acknowledgment. The Shukla Yajurveda version follows the Katyayana Shrauta Sutra, one of the sutra texts that codified the ritual procedures of this shakha. The Shukla Yajurveda (Vajasaneyi Samhita) is associated with the sage Yajnavalkya and is transmitted in two sub-recensions: the Kanva and Madhyandina. The Sandhya Vandanam as a structured daily practice has been in continuous use across Brahminical communities affiliated with the Shukla Yajurveda for more than two millennia.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Shiva Sankalpa Upanishad — a Vedic text from the Shukla Yajurveda tradition with overlapping scriptural lineage, focused on mental intention
  • Shraddha Pitru Tarpana Vidhi — another prescriptive Vedic ritual text addressing the daily and seasonal obligations of a householder