Rigveda Sandhya Vandanam
Rigveda Sandhya Vandanam
ऋग्वेद सन्ध्यावन्दनम्
श्री गुरुभ्यो नमः । हरिः ओम् ।
शरीरशुद्धिः
अपवित्रः पवित्रो वा सर्वावस्था-ङ्गतो-ऽपि वा ।
य-स्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तर-श्शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ।
आचमनम्
ओ-ङ्केशवाय स्वाहा । ओ-न्नारायणाय स्वाहा ।
ओ-म्माधवाय स्वाहा ।
ओ-ङ्गोविन्दाय नमः । ॐ-विँष्णवे नमः ।
ओ-म्मधुसूदनाय नमः । ओ-न्त्रिविक्रमाय नमः ।
ॐ-वाँमनाय नमः । ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः । ओ-म्पद्मनाभाय नमः ।
ओ-न्दामोदराय नमः । ॐ सङ्कर्षणाय नमः ।
ॐ-वाँसुदेवाय नमः । ओ-म्प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः । ओ-म्पुरुषोत्तमाय नमः ।
ॐ अथोक्षजाय नमः । ओ-न्नारसिंहाय नमः ।
ॐ अच्युताय नमः । ओ-ञ्जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः । ॐ हरये नमः ।
ॐ श्री कृष्णाय नमः ।
भूतोच्चाटनम्
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
आसन संस्कारम्
ओ-म्पृथ्वीति मन्त्रस्य । मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतल-ञ्छन्दः । आसने विनियोगः । अनन्तासनाय नमः ।
ओ-म्पृथ्वि त्वया धृता लोका देवि त्वं-विँष्णुना धृता ।
त्व-ञ्च धारय मा-न्देवि पवित्र-ङ्कुरु चासनम् ॥
प्राणायामम्
प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री छन्दः । प्राणायामे विनियोगः ॥
ओ-म्भूः । ओ-म्भुवः । ॐ स्वः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः ।
ॐ स॒त्यम् । ओ-न्तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि धीयो॒ यो नः॑ प्रचो॒दया᳚त् । ॐ आपो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भुर्भुव॒स्स्व॒रोम् ॥
सङ्कल्पम् (देशकाल सङ्कीर्तन)
श्री शुभे शोभने मुहूर्ते विष्णोराज्ञया अत्र पृथिव्या-ञ्जम्बूद्वीपे भरतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य …….. प्रदेशे, …….. नद्योः मध्यदेशे लक्ष्मीनिवास गृहे, समस्त देवता ब्राह्मण हरिहरसन्निधौ, आद्य ब्रह्मणः द्वितीये परार्थे श्री श्वेतवराहकल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन श्री …… संवँत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… तिथौ …… वासरे शुभनक्षत्रे शुभयोगे शुभकरण एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण [श्रीपरमेश्वर] प्रीत्यर्थ-म्प्रातः/माध्याह्निक/सायं सन्ध्यामुपाशिष्ये ।
मार्जनम्
आपोहिष्ठेति तृचस्य अम्बरीष-स्सिन्धुद्वीप ऋषिः । आपो देवता । गायत्री छन्दः । मार्जने विनियोगः ॥
ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो॒ रसः॑ ।
तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
मन्त्राचमनम्
(प्रातः काले)
सूर्यश्चेत्यस्य मन्त्रस्य । नारायण ऋषिः । सूर्यमामन्यु मन्युपतयो रात्रिर्देवता । प्रकृतिश्छन्दः । मन्त्राचमने विनियोगः ॥
ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ । इदमह-म्माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
(मध्याह्न काले)
आपः पुनन्त्वित्यस्य मन्त्रस्य । पूत ऋषिः । आपो देवता । अष्ठी छन्दः । अपा-म्प्राशने विनियोगः ।
ॐ आपः॑ पुनन्तु पृथि॒वी-म्पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु॒ माम् ॥
यदुच्छि॑ष्ट॒मभो᳚ज्यं॒-यँद्वा॑ दु॒श्चरि॑त॒-म्मम॑ ।
सर्व॑-म्पुनन्तु॒ मामापो॑-ऽस॒ता-ञ्च॑ प्रति॒ग्रहं॒ स्वाहा᳚ ॥
(साय-ङ्काले)
अग्निश्चेत्यस्य मन्त्रस्य । नारायण ऋषिः । अग्निमामन्यु मन्युपतयो अहर्देवता । प्रकृतिश्छन्दः । मन्त्राचमने विनियोगः ॥
ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ । इ॒दम॒ह-म्माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
आचम्य ॥
पुनर्मार्जनम्
आपोहिष्ठेति नवर्चस्य सूक्तस्य । अम्बरीष सिन्धुद्वीप ऋषिः । आपो देवता । गायत्री छन्दः । पञ्चमी वर्धमाना । सप्तमी प्रतिष्ठा । अन्त्ये द्वे अनुष्टुभौ । पुनर्मार्जने विनियोगः ॥
ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो॒ रसः॑ ।
तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
ॐ श-न्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं-योँर॒भि स्र॑वन्तु नः ॥
ईशा॑ना॒ वार्या॑णा॒-ङ्क्षय॑न्तीश्चर्षणी॒नाम् ।
अ॒पो या॑चामि भेष॒जम् ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्नि-ञ्च॑ वि॒श्वश॑म्भुवम् ॥
आपः॑ पृणी॒त भे॑ष॒जं-वँरू॑थ-न्त॒न्वे॒ 3॒ मम॑ ।
ज्योक्च॒ सूर्य॑-न्दृ॒शे ॥
इ॒दमा॑पः॒ प्रव॑हत॒ यत्कि-ञ्च॑ दुरि॒त-म्मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ त-म्मा॒ सं सृ॑ज॒ वर्च॑सा ॥
स॒सृषी॒स्तद॑पसो॒ दिवा॒नक्त॑ञ्च स॒सृषीः᳚ ।
वरे॑ण्य क्र॒तूरह॑मा दे॒वी॒ रव॑से हुवे ॥
पापपुरुष विसर्जनम्
ऋत-ञ्चेत्यस्य मन्त्रस्य । अघमर्षण ऋषिः । भाववृत्तो देवता । अनुष्टु-प्छन्दः । मम पापपुरुष जल विसर्जने विनियोगः ॥
ॐ ऋ॒त-ञ्च॑ स॒त्य-ञ्चा॒भी॑द्धा॒त्तप॒सो-ऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ।
स॒मु॒द्राद॑र्ण॒वादधि॑ संवँथ्स॒रो अ॑जायत ॥
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ।
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिव॑-ञ्च पृथि॒वी-ञ्चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥
आचम्य ॥
प्राणायामम् ॥
अर्घ्यप्रदानम्
पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थ-म्प्रातः/माध्याह्निक/सायं सन्ध्यार्घ्य प्रदान-ङ्करिष्ये ॥
(प्रातः काले)
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । प्रात-स्सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओ-म्भूर्भुव॒-स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ (ऋ.3.62.10)
[ प्रात-स्सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थ-म्प्रायश्चित्तर्घ्य प्रदान-ङ्करिष्ये ।
यदद्यकच्चेत्यस्य मन्त्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छन्दः । प्रात-स्सन्ध्याङ्ग प्रायश्चित्तार्घ्यप्रदाने विनियोगः ।
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भिसू॑र्य । सर्व॒-न्तदि॑न्द्र ते॒ वशे॑ ।
]
(मध्याह्न काले)
हंसश्शुचिषदित्यस्य मन्त्रस्य । गौतमपुत्रो वामदेव ऋषिः । सूर्यो देवता । जगती छन्दः । माध्याह्निक सन्ध्यार्घ्य प्रदाने विनियोगः ॥
ॐ हं॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒ सद्धो॑ तावेदि॒षदति॑थिर्दुरोण॒ सत् । नृ॒षद्व॑र॒ सदृ॑त॒ सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒त-म्बृ॒हत् । इति प्रथमार्घ्यम् ॥
आकृष्णेनेत्यस्य मन्त्रस्य । हिरण्य स्तूप ऋषिः । सविता देवता । त्रिष्टुप्छन्दः । माध्याह्निक सन्ध्यार्घ्य प्रदाने विनियोगः ॥
ॐ आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒-म्मर्त्य॑ञ्च ।
हि॒र॒ण्य ये॑न सवि॒ता रथे॒ना-ऽऽदे॒वो या॑ति॒भुव॑नानि॒ पश्यन्॑ । इति द्वितीयार्घ्यम् ॥
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । माध्याह्निक सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओ-म्भूर्भुव॒-स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् । इति तृतीयार्घ्यम् ॥
[ माध्याह्निक सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थ-म्प्रायश्चित्तर्घ्य प्रदान-ङ्करिष्ये ।
प्रातर्देवीत्यस्य मन्त्रस्य । अभितप ऋषिः । सूर्यो देवता । त्रिष्टु-प्छन्दः । माध्याह्निक सन्ध्याङ्ग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ओ-म्प्रा॒तर्दे॒वीमदि॑ति-ञ्जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रा वरुणा स॒र्वता॒ते॑ले तो॒काय॒ तन॑याय॒ शं-योः ँ।
]
(साय-ङ्काले)
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । सायं सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओ-म्भूर्भुव॒-स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
[ सायं सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थ-म्प्रायश्चित्तर्घ्य प्रदान-ङ्करिष्ये ।
उद्घेदभीत्यस्य मन्त्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छन्दः । सायं सन्ध्याङ्ग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ॐ उद्घेद॒भिश्रु॒ता म॑घं-वृँष॒भ-न्नर्या᳚पसम् । अस्ता᳚र मेषि सूर्य ।
]
आत्मप्रदक्षिण
ब्रह्मैव सत्य-म्ब्रह्मैवाहम् । योसावादित्यो हिरण्मयः पुरुष-स्स एवाहमस्मि ।
अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥
आचम्य ॥
प्राणायामम् ॥
[ तर्पणं –
पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थ-म्प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग तर्पण-ङ्करिष्ये ।
(प्रातः काले)
सन्ध्या-न्तर्पयामि । गायत्री-न्तर्पयामि ।
ब्राह्मी-न्तर्पयामि । निमृजी-न्तर्पयामि ।
(मध्याह्न काले)
सन्ध्या-न्तर्पयामि । सावित्री-न्तर्पयामि ।
रौद्री-न्तर्पयामि । निमृजी-न्तर्पयामि ।
(साय-ङ्काले)
सन्ध्या-न्तर्पयामि । सरस्वती-न्तर्पयामि ।
वैष्णवी-न्तर्पयामि । निमृजी-न्तर्पयामि ।
]
गायत्री आवाहनम्
ओमित्येकाक्ष॑र-म्ब्र॒ह्म । अग्निर्देवता । ब्रह्म॑ इत्या॒र्षम् । गायत्री छन्दः । परमात्मं॑ सरू॒पम् । सायुज्यं-विँ॑नियो॒गम् ।
आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षर॑-म्ब्रह्म॒ सम्मि॑तम् ।
गा॒य॒त्री᳚-ञ्छन्द॑सा-म्मा॒तेद-म्ब्र॑ह्म जु॒षस्व॑ मे ।
यदह्ना᳚त्कुरु॑ते पा॒प॒-न्तदह्ना᳚त्प्रति॒ मुच्य॑ते ।
यद्रात्रिया᳚त्कुरु॑ते पा॒प॒-न्तद्रात्रिया᳚त्प्रति॒ मुच्य॑ते ।
सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्या वि॑द्ये स॒रस्व॑ति ।
ओजो॑-ऽसि॒ सहो॑-ऽसि॒ बलम॑सि॒ भ्राजो॑-ऽसि दे॒वाना॒-न्धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒-स्सर्व॑मसि स॒र्वायुरभिभूरोम् ।
गायत्रीमावा॑हया॒मि॒ ।
सावित्रीमावा॑हया॒मि॒ ।
सरस्वतीमावा॑हया॒मि॒ ।
छन्दर्षीनावा॑हया॒मि॒ ।
श्रियमावा॑हया॒मि॒ ।
गायत्र्या गायत्री छन्दो विश्वामित्र ऋषि-स्सविता देवता अग्निर्मुख-म्ब्रह्मा शिरो विष्णुर् हृदयं रुद्र-श्शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना स प्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्चशीर्षोपनयने वि॑नियो॒गः ॥
पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थ-म्प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्रजप-ङ्करिष्ये ॥
करन्यासम्
ओ-न्तत्स॑वितुः॒ ब्रह्मात्मने अङ्गुष्ठाभ्या-न्नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने तर्जनीभ्या-न्नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्या-न्नमः ।
धी॒महि सत्यात्मने अनामिकाभ्या-न्नमः ।
धियो॒ यो नः॑ ज्ञानात्मने कनिष्ठिकाभ्या-न्नमः ।
प्रचो॒दया᳚-थ्सर्वात्मने करतल करपृष्ठाभ्या-न्नमः ।
अङ्गन्यासम्
ओ-न्तत्सवितुः॒ ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚-थ्सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्बन्धः ॥
ध्यानम्
मुक्ता विद्रुम हेमनील धवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दु निबद्ध रत्नमकुटा-न्तत्त्वार्थ वर्णात्मिकाम् ।
गायत्रीं-वँरदाभयाङ्कुश कशाश्शुभ्रङ्कपाल-ङ्गदां
शङ्ख-ञ्चक्रमथारविन्दयुगलं हस्तैर्वहन्ती-म्भजे ॥
ध्येयस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवा-न्मकरकुण्डलवान् किरीटी
हारी हिरण्मय वपुर्धृतशङ्खचक्रः ॥
[मुद्राप्रदर्शनम्
सुमुखं सम्पुट-ञ्चैव विततं-विँस्तृत-न्तथा ।
द्विमुख-न्त्रिमुख-ञ्चैव चतुः पञ्चमुख-न्तथा ।
षण्मुखो-ऽधोमुख-ञ्चैव व्यापिकाञ्जलिक-न्तथा ।
शकटं-यँमपाश-ञ्च ग्रथितं सम्मुखोन्मुखम् ।
प्रलम्ब-म्मुष्टिक-ञ्चैव मत्स्यः कूर्मो वराहकम् ।
सिंहाक्रान्त-म्महाक्रान्त-म्मुद्गर-म्पल्लव-न्तथा ।
चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।
इति मुद्रा न जानाति गायत्री निष्फलाभवेत् ।]
गायत्री मन्त्रम्
ओ-म्भूर्भुव॒-स्स्वः॑ । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
करन्यासम्
ओ-न्तत्स॑वितुः॒ ब्रह्मात्मने अङ्गुष्ठाभ्या-न्नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने तर्जनीभ्या-न्नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्या-न्नमः ।
धी॒महि सत्यात्मने अनामिकाभ्या-न्नमः ।
धियो॒ यो नः॑ ज्ञानात्मने कनिष्ठिकाभ्या-न्नमः ।
प्रचो॒दया᳚-थ्सर्वात्मने करतल करपृष्ठाभ्या-न्नमः ।
अङ्गन्यासम्
ओ-न्तत्सवितुः॒ ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚-थ्सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्विमोकः ॥
[उत्तरमुद्रा प्रदर्शनम्
सुरभिः ज्ञान चक्र-ञ्च योनिः कूर्मो-ऽथ पङ्कजम् ।
लिङ्ग-न्निर्याण मुद्रा चेत्यष्टमुद्राः प्रकीर्तिताः ।]
सूर्योपस्थानम्
जातवेदसेत्यस्य मन्त्रस्य कश्यप ऋषिः । दुर्गाजातवेदाग्निर्देवता । त्रिष्टु-प्छन्दः । सूर्योपस्थाने विनियोगः ।
ओ-ञ्जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिन्धु᳚-न्दुरि॒ता-ऽत्य॒ग्निः ॥
त्र्यम्बकमिति मन्त्रस्य । मैत्रा वरुणिर्वसिष्ठ ऋषिः । रुद्रो देवता । अनुष्टु-प्छन्दः । उपस्थाने विनियोगः ।
ओ-न्त्र्य॑म्बकं-यँजामहे सु॒गन्धि॑-म्पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मृ॑क्षीय॒ मा-ऽमृता॑त् ।
[तच्छंयोँरित्यस्य मन्त्रस्य । शम्युर ऋषिः । विश्वेदेवाः देवता । शक्वरी छन्दः । शान्त्यर्थे उपस्थाने विनियोगः ।
ओ-न्तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ ।
गा॒तुं-यँ॒ज्ञ॑पतये । दैवी᳚-स्स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।
श-न्नो᳚ अस्तु द्वि॒पदे॒ । श-ञ्चतु॑ष्पदे ।]
नमो ब्रह्मणे इत्यस्य मन्त्रस्य प्रजापति ऋषिः विश्वेदेवाः देवता । जगती-श्छन्दः प्रदक्षिणे विनियोगः ।
ओ-न्नमो᳚ ब्र॒ह्मणे॒ नमो᳚-ऽस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो᳚ वा॒चे नमो᳚ वा॒चस्प॑तये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि ॥
दिग्देवता नमस्कारः
ओ-न्नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओ-न्नमो॒ दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओ-न्नमः॒ प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओ-न्नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओ-न्नम॑ ऊ॒र्ध्वा॑यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओ-न्नमो-ऽध॑रायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओ-न्नमो॑-ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ॥
ऋषि देवतादि नमस्कारः
नमो गङ्गायमुनयोर्मध्ये ये॑ व॒सन्ति॒ ते मे प्रसन्नात्मानश्चिर-ञ्जीवितं-वँ॑र्धय॒न्ति॒
नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च नमः ।
ॐ सन्ध्या॑यै नमः । सावि॑त्र्यै नमः । गाय॑त्र्यै नमः । सर॑स्वत्यै नमः । सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ नमः । दे॒वेभ्यो॒ नमः । ऋषि॑भ्यो॒ नमः । मुनि॑भ्यो॒ नमः । गुरु॑भ्यो॒ नमः । मातृ॑भ्यो॒ नमः । पितृ॑भ्यो॒ नमः । कामो-ऽकारिषी᳚न्नमो॒ नमः । मन्युरकारिषी᳚न्नमो॒ नमः ।
यां॒ सदा॑ सर्व॑भूता॒नि॒ च॒रा॑णि स्था॒वरा॑णि च ।
साय॑-म्प्रा॒तर्न॑मस्य॒न्ति सा॒मा॒ सन्ध्या॑-ऽभिर॑क्षतु ॥
देवता स्मरणम्
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
क्षीरेण स्नापिते देवी चन्दनेन विलेपिते ।
बिल्वपत्रार्चिते देवी दुर्गे-ऽहं शरण-ङ्गतः ॥
गायत्री प्रस्थान प्रार्थना
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्या-म्प॑र्वत॒ मूर्ध॑नि ।
ब्रा॒ह्मणे॑भ्यो-ऽभ्य॑नुज्ञा॒ता॒ ग॒च्छदे॑वि य॒था सु॑खम् ॥
स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता ।
आयुः पृथिव्या-न्द्रविण-म्ब्र॑ह्मव॒र्चसं
मह्य-न्दत्वा प्रयातु-म्ब्र॑ह्मलो॒कम् ॥
नारायण नमस्कृति
नमो-ऽस्त्वनन्ताय सहस्र मूर्तये
सहस्र पादाक्षि शिरोरु बाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्र कोटी युगधारिणे नमः ॥
भूम्याकाशाभिवन्दनम्
इ॒द-न्द्या॑वा पृथि॒वी स॒त्यम॑स्तु ।
पित॒र्मात॒र्यदि॒होप॑ब्रुवे वा॑म् ।
भू॒त-न्दे॒वाना॑मव॒मे अवो॑भिः ।
विद्यामे॒षं-वृँ॒जि॑न-ञ्जी॒रदा॑नुम् ।
आकाशात्पतित-न्तोयं-यँथा गच्छति सागरम् ।
सर्वदेव नमस्कारः केशव-म्प्रतिगच्छति ॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देव-ञ्जनार्दनम् ॥
वासनाद्वासुदेवस्य वासित-न्ते जगत्त्रयम् ।
सर्वभूत निवासो-ऽसि वासुदेव नमो-ऽस्तु ते ॥
अभिवादनम्
चतुस्सागर पर्यन्त-ङ्गोब्राह्मणेभ्य-श्शुभ-म्भवतु ॥
…… प्रवरान्वित …… स गोत्रः आश्वलायनसूत्रः ऋक् शाखाध्यायी …….. शर्मा-ऽह-म्भो अभिवादये ॥
आचम्य ॥
समर्पणम्
यस्य स्मृत्याच नामोक्त्या तप-स्सन्ध्या क्रियादिषु ।
न्यूनं सम्पूर्णतां-याँति सद्योवन्दे तमच्युतम् ॥
मन्त्रहीन-ङ्क्रियाहीन-म्भक्तिहीनं रमापते ।
यत्कृत-न्तु मयादेव परिपूर्ण-न्तदस्तु ते ॥
अनेन प्रातः/माध्याह्निक/सायं सन्ध्यावन्दनेन भगवान् सर्वात्मक-श्श्री लक्ष्मीनारायणः प्रीयताम् । सुप्रीतो वरदो भवतु ।
आब्रह्मलोकादाशेषादालोकालोक पर्वतात् ।
ये सन्ति ब्राहणा देवास्तेभ्यो नित्य-न्नमो नमः ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृते-स्स्वभावात् ।
करोमि यद्यत्सकल-म्परस्मै
नारायणायेति समर्पयामि ॥
सर्वं श्रीमन्नारायणार्पणमस्तु ॥
About This Stotram
Overview
The Rigveda Sandhya Vandanam is the daily ritual worship (sandhya vandanam) prescribed for adherents of the Rigveda shakha. It is not a single authored hymn but a structured sequence of mantras, ritual actions, and prayers drawn from the Rigveda and supplementary Vedic texts, performed thrice daily at dawn, noon, and dusk. The practice belongs to the Vedic tradition as a nitya karma (obligatory daily duty) for Dvija individuals — those who have undergone the Upanayana initiation.
What are the benefits of chanting Rigveda Sandhya Vandanam?
- Fulfills the daily obligatory duty (nitya karma) prescribed in Vedic tradition
- Promotes spiritual purification through structured mantra recitation
- Cultivates regularity and discipline in religious practice
- Supports accrual of spiritual merit (punya) through consistent observance
When is the best time to recite this?
Sandhya Vandanam is performed three times daily: at dawn (Pratah Sandhya), at noon (Madhyahna Sandhya), and at dusk (Sayah Sandhya). Each performance has a prescribed time window tied to the position of the sun.
What is the historical and traditional background?
Sandhya Vandanam is one of the oldest documented daily rites in Hinduism, with its components described in Vedic Brahmana texts and Grihyasutras. The Rigveda recension of this ritual draws its specific mantras and procedural steps from the Rigveda Samhita and its associated Brahmanas. Different Vedic shakhas (recensions) — Rigveda, Yajurveda, Samaveda — follow distinct procedural variants. The Gayatri Mantra, which forms the heart of the practice, is drawn from the Rigveda (3.62.10). The standardized procedural compilation evolved over centuries through the work of Vedic scholars and acharyas.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Yajurveda Sandhya Vandanam — the parallel daily rite for Yajurveda adherents, the most widely practiced recension of this ritual
- Gayatri Mantra — the Rigvedic verse (3.62.10) that forms the central element of Sandhya Vandanam across all shakhas
