Kavacham - Sacred Scripture

Devi Mahatmyam Devi Kavacham

Devi Mahatmyam Devi Kavacham

Kavacham
Unknown
55 Verses
110%

देवी माहात्म्यं देवि कवचम्

श्लोक 1

ॐ नमश्चण्डिकायै

न्यासः

अस्य श्री चण्डी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।

चामुण्डा देवता । अङ्गन्यासोक्त मातरो बीजम् । नवावरणो मन्त्रशक्तिः । दिग्बन्ध देवताः तत्वम् । श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच ।

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।

यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह

श्लोक 2

ब्रह्मोवाच ।

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने

॥ 1 ॥

श्लोक 3

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्

॥ 2 ॥

श्लोक 4

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।

सप्तमं कालरात्रीति महागौरीति चाष्टमम्

॥ 3 ॥

श्लोक 5

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना

॥ 4 ॥

श्लोक 6

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।

विषमे दुर्गमे चैव भयार्ताः शरणं गताः

॥ 5 ॥

श्लोक 7

न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।

नापदं तस्य पश्यामि शोकदुःखभयं न हि

॥ 6 ॥

श्लोक 8

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।

ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः

॥ 7 ॥

श्लोक 9

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।

ऐन्द्री गजसमारूढा वैष्णवी गरुडासना

॥ 8 ॥

श्लोक 10

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया

॥ 9 ॥

श्लोक 11

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।

ब्राह्मी हंससमारूढा सर्वाभरणभूषिता

॥ 10 ॥

श्लोक 12

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।

नानाभरणाशोभाढ्या नानारत्नोपशोभिताः

॥ 11 ॥

श्लोक 13

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्

॥ 12 ॥

श्लोक 14

खेटकं तोमरं चैव परशुं पाशमेव च ।

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्

॥ 13 ॥

श्लोक 15

दैत्यानां देहनाशाय भक्तानामभयाय च ।

धारयन्त्यायुधानीत्थं देवानां च हिताय वै

॥ 14 ॥

श्लोक 16

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।

महाबले महोत्साहे महाभयविनाशिनि

॥ 15 ॥

श्लोक 17

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता

॥ 16 ॥

श्लोक 18

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।

प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी

॥ 17 ॥

श्लोक 19

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा

॥ 18 ॥

श्लोक 20

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।

जया मे चाग्रतः पातु विजया पातु पृष्ठतः

॥ 19 ॥

श्लोक 21

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।

शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता

॥ 20 ॥

श्लोक 22

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके

॥ 21 ॥

श्लोक 23

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।

कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी

॥ 22 ॥

श्लोक 24

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।

अधरे चामृतकला जिह्वायां च सरस्वती

॥ 23 ॥

श्लोक 25

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।

घण्टिकां चित्रघण्टा च महामाया च तालुके

॥ 24 ॥

श्लोक 26

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी

॥ 25 ॥

श्लोक 27

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।

स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी

॥ 26 ॥

श्लोक 28

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।

नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी

॥ 27 ॥

श्लोक 29

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।

हृदये ललिता देवी उदरे शूलधारिणी

॥ 28 ॥

श्लोक 30

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।

पूतना कामिका मेढ्रं गुदे महिषवाहिनी

॥ 29 ॥

श्लोक 31

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।

जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी

॥ 30 ॥

श्लोक 32

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।

पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी

॥ 31 ॥

श्लोक 33

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।

रोमकूपेषु कौमारी त्वचं वागीश्वरी तथा

॥ 32 ॥

श्लोक 34

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी

॥ 33 ॥

श्लोक 35

पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।

ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु

॥ 34 ॥

श्लोक 36

शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ।

अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी

॥ 35 ॥

श्लोक 37

प्राणापानौ तथा व्यानमुदानं च समानकम् ।

वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना

॥ 36 ॥

श्लोक 38

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।

सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा

॥ 37 ॥

श्लोक 39

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी

॥ 38 ॥

श्लोक 40

गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके ।

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी

॥ 39 ॥

श्लोक 41

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता

॥ 40 ॥

श्लोक 42

रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ।

तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी

॥ 41 ॥

श्लोक 43

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति

॥ 42 ॥

श्लोक 44

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्

॥ 43 ॥

श्लोक 45

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।

निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः

॥ 44 ॥

श्लोक 46

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।

इदं तु देव्याः कवचं देवानामपि दुर्लभम्

॥ 45 ॥

श्लोक 47

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।

दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः

॥ 46 ॥

श्लोक 48

स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ।

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले

॥ 48 ॥

श्लोक 49

भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ।

सहजा कुलजा माला डाकिनी शाकिनी तथा

॥ 49 ॥

श्लोक 50

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः

॥ 50 ॥

श्लोक 51

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते

॥ 51 ॥

श्लोक 52

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले

॥ 52 ॥

श्लोक 53

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।

यावद्भूमण्डलं धत्ते सशैलवनकाननम्

॥ 53 ॥

श्लोक 54

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्

॥ 54 ॥

श्लोक 55

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।

लभते परमं रूपं शिवेन सह मोदते

॥ 55 ॥

श्लोक 56

॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ॥