Aparadha Kshamapana Stotram (Devi)
Aparadha Kshamapana Stotram (Devi)
अपराध क्षमापण स्तोत्रम्
श्लोक 1
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि
श्लोक 2
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि
॥ 1 ॥
श्लोक 3
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे
॥ 2 ॥
श्लोक 4
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः
॥ 3 ॥
श्लोक 5
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु
॥ 4 ॥
श्लोक 6
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
विपरीतं च तत्सर्वं क्षमस्व परमेश्वरि
॥ 5 ॥
श्लोक 7
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि
॥ 6 ॥
श्लोक 8
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि
॥ 7 ॥
श्लोक 9
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि
॥ 8 ॥
श्लोक 10
सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम्
॥ 9 ॥
श्लोक 11
इति अपराधक्षमापणस्तोत्रं समाप्तम् ॥
