Sri Dattatreya Stotram
Sri Dattatreya Stotram
श्रि दत्तात्रेय स्तोत्रम्
श्लोक 1
जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे
श्लोक 2
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान्नारदृषिः । अनुष्टुप् छन्दः । श्रीदत्तः परमात्मा देवता । श्रीदत्तात्रेय प्रीत्यर्थे जपे विनियोगः ॥
नारद उवाच ।
जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तु ते
॥ 1 ॥
श्लोक 3
जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगम्बर दयामूर्ते दत्तात्रेय नमोऽस्तु ते
॥ 1 ॥
श्लोक 4
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तु ते
॥ 2 ॥
श्लोक 5
ह्रस्वदीर्घकृशस्थूलनामगोत्रविवर्जित ।
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तु ते
॥ 3 ॥
श्लोक 6
यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तु ते
॥ 4 ॥
श्लोक 7
आदौ ब्रह्मा हरिर्मध्ये ह्यन्ते देवस्सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते
॥ 5 ॥
श्लोक 8
भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोऽस्तु ते
॥ 6 ॥
श्लोक 9
दिगम्बराय दिव्याय दिव्यरूपधराय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तु ते
॥ 7 ॥
श्लोक 10
जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने ।
जयमान सतां देव दत्तात्रेय नमोऽस्तु ते
॥ 8 ॥
श्लोक 11
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तु ते
॥ 9 ॥
श्लोक 12
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तु ते
॥ 10 ॥
श्लोक 13
अवधूत सदानन्द परब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तु ते
॥ 11 ॥
श्लोक 14
सत्यरूप सदाचार सत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तु ते
॥ 12 ॥
श्लोक 15
शूलहस्तगदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोऽस्तु ते
॥ 13 ॥
श्लोक 16
क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तु ते
॥ 14 ॥
श्लोक 17
दत्त विद्याढ्य लक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तु ते
॥ 15 ॥
श्लोक 18
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तु ते
॥ 16 ॥
श्लोक 19
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम्
॥ 17 ॥
श्लोक 20
इति श्रीनारदपुराणे नारदविरचितं श्री दत्तात्रेय स्तोत्रम् ।
