Stotram - Sacred Scripture

Vinayaka Ashtottara Sata Nama Stotram

Vinayaka Ashtottara Sata Nama Stotram

Stotram
Unknown
17 Verses
110%

विनायक अष्टोत्तर शत नाम स्तोत्रम्

श्लोक 1

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।

स्कन्दाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः

श्लोक 2

अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदायकः ।

सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः

॥ 1 ॥

श्लोक 3

सर्वात्मकः सृष्टिकर्ता देवानीकार्चितः शिवः ।

सिद्धिबुद्धिप्रदः शान्तो ब्रह्मचारी गजाननः

॥ 2 ॥

श्लोक 4

द्वैमातुरो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।

एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः

॥ 3 ॥

श्लोक 5

लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।

काव्यो ग्रहपतिः कामी सोमसूर्याग्निलोचनः

॥ 4 ॥

श्लोक 6

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।

अकल्मषः स्वयं सिद्धः सिद्धार्चितपदाम्बुजः

॥ 5 ॥

श्लोक 7

बीजापूरफलासक्तो वरदः शाश्वतः कृती ।

द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत्

॥ 6 ॥

श्लोक 8

श्रीदोऽज उत्पलकरः श्रीपतिस्तुतिहर्षितः ।

कुलाद्रिभेत्ता जटिलश्चन्द्रचूडोऽमरेश्वरः

॥ 7 ॥

श्लोक 9

नागयज्ञोपवीती च कलिकल्मषनाशनः ।

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः

॥ 8 ॥

श्लोक 10

स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ।

दूर्वाबिल्वप्रियः कान्तः पापहारी समाहितः

॥ 9 ॥

श्लोक 11

आश्रितश्रीकरः सौम्यो भक्तवाञ्छितदायकः ।

शान्तोऽच्युतार्च्यः कैवल्यो सच्चिदानन्दविग्रहः

॥ 10 ॥

श्लोक 12

ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ।

प्रमत्तदैत्यभयदो व्यक्तमूर्तिरमूर्तिमान्

॥ 11 ॥

श्लोक 13

शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ।

स्वलावण्यसुधासारजितमन्मथविग्रहः

॥ 12 ॥

श्लोक 14

समस्तजगदाधारो मायी मूषकवाहनः ।

रमार्चितो विधिश्चैव श्रीकण्ठो विबुधेश्वरः

॥ 13 ॥

श्लोक 15

चिन्तामणिद्वीपपतिः परमात्मा गजाननः ।

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः

॥ 14 ॥

श्लोक 16

अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ।

यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम्

॥ 15 ॥

श्लोक 17

दूर्वादलैः बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।

सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते

॥ 16 ॥

श्लोक 18

इति भविष्योत्तरपुराणे विनायकाष्टोत्तरशतनाम स्तोत्रम् ।