Sri Rama Ashtottara Sata Naama Stotram
Sri Rama Ashtottara Sata Naama Stotram
श्री रामाष्टोत्तर शतनाम स्तोत्रम्
श्लोक 1
श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान्राजेन्द्रो रघुपुङ्गवः
श्लोक 2
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः
॥ 1 ॥
श्लोक 3
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदाहनुमदाश्रितः
॥ 2 ॥
श्लोक 4
कौसलेयः खरध्वंसी विराधवधपण्डितः ।
विभीषणपरित्राता हरकोदण्डखण्डनः
॥ 3 ॥
श्लोक 5
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्न्यमहादर्पदलनस्ताटकान्तकः
॥ 4 ॥
श्लोक 6
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः
॥ 5 ॥
श्लोक 7
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः
॥ 6 ॥
श्लोक 8
अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः
॥ 7 ॥
श्लोक 9
ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः
॥ 8 ॥
श्लोक 10
सर्वदेवादिदेवश्च मृतवानरजीवनः ।
मायामारीचहन्ता च महादेवो महाभुजः
॥ 9 ॥
श्लोक 11
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः
॥ 10 ॥
श्लोक 12
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिपुरुषः परमपुरुषो महापूरुष एव च
॥ 11 ॥
श्लोक 13
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः
॥ 12 ॥
श्लोक 14
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः
॥ 13 ॥
श्लोक 15
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः
॥ 14 ॥
श्लोक 16
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः
॥ 15 ॥
श्लोक 17
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परञ्ज्योतिः परन्धाम पराकाशः परात्परः
॥ 16 ॥
श्लोक 18
परेशः पारगः पारः सर्वदेवात्मकः परः ॥
एवं श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम्
इति श्री रामाष्टोत्तर शतनामस्तोत्रं सम्पूर्णम्
