Kavacham - Sacred Scripture

Chandra Kavacham

Chandra Kavacham

Kavacham
Chandra
6 Verses
110%

चन्द्र कवचम्

श्लोक 1

अस्य श्री चन्द्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छन्दः । श्री चन्द्रो देवता । चन्द्र प्रीत्यर्थे जपे विनियोगः ॥

ध्यानं

समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् ।

वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥

अथ चन्द्र कवचम्

शशी पातु शिरोदेशं भालं पातु कलानिधिः ।

चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः

श्लोक 2

प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ।

पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा

॥ 1 ॥

श्लोक 3

करौ सुधाकरः पातु वक्षः पातु निशाकरः ।

हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः

॥ 2 ॥

श्लोक 4

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।

ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा

॥ 3 ॥

श्लोक 5

अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ।

सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः

॥ 4 ॥

श्लोक 6

फलश्रुतिः

एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।

यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत्

॥ 5 ॥

श्लोक 7

॥ इति श्रीचन्द्र कवचं सम्पूर्णम् ॥