Kavacham - Sacred Scripture

Budha Kavacham

Budha Kavacham

Kavacham
Unknown
7 Verses
110%

बुध कवचम्

श्लोक 1

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः,

अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।

अथ बुध कवचम्

बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः ।

पीताम्बरधरः पातु पीतमाल्यानुलेपनः

श्लोक 2

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।

नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः

॥ 1 ॥

श्लोक 3

घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम ।

कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः

॥ 2 ॥

श्लोक 4

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः ।

नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः

॥ 3 ॥

श्लोक 5

जानुनी रौहिणेयश्च पातु जङ्घे??उखिलप्रदः ।

पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः

॥ 4 ॥

श्लोक 6

अथ फलश्रुतिः

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।

सर्वरोगप्रशमनं सर्वदुःखनिवारणम्

॥ 5 ॥

श्लोक 7

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ।

यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत्

॥ 6 ॥

श्लोक 8

॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ॥