Kavacham - Sacred Scripture

Sri Rudra Kavacham

Sri Rudra Kavacham

Kavacham
Unknown
19 Verses
110%

श्री रुद्र कवचम्

ॐ अस्य श्री रुद्र कवचस्तोत्र महामन्त्रस्य दूर्वासृषिः अनुष्ठुप् छन्दः त्र्यम्बक रुद्रो देवता ह्रां बीजं श्रीं शक्तिः ह्रीं कीलकं मम मनसोऽभीष्टसिद्ध्यर्थे जपे विनियोगः ।

ह्रामित्यादि षड्बीजैः षडङ्गन्यासः ॥

ध्यानम् ।

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं

शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।

नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे

नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

दूर्वास उवाच ।

प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरम् ।

एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥ 1 ॥

रुद्र वर्म प्रवक्ष्यामि अङ्ग प्राणस्य रक्षये ।

अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥ 2 ॥

रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा ।

शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥ 3 ॥

नेत्रयोस्त्र्यम्बकः पातु मुखं पातु महेश्वरः ।

कर्णयोः पातु मे शम्भुः नासिकायां सदाशिवः ॥ 4 ॥

वागीशः पातु मे जिह्वां ओष्ठौ पात्वम्बिकापतिः ।

श्रीकण्ठः पातु मे ग्रीवां बाहूंश्चैव पिनाकधृत् ॥ 5 ॥

हृदयं मे महादेवः ईश्वरोव्यात् स्तनान्तरम् ।

नाभिं कटिं च वक्षश्च पातु सर्वं उमापतिः ॥ 6 ॥

बाहुमध्यान्तरं चैव सूक्ष्मरूपः सदाशिवः ।

स्वरं रक्षतु सर्वेशो गात्राणि च यथा क्रमम् ॥ 7 ॥

वज्रशक्तिधरं चैव पाशाङ्कुशधरं तथा ।

गण्डशूलधरं नित्यं रक्षतु त्रिदशेश्वरः ॥ 8 ॥

प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे ।

सन्ध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥ 9 ॥

शीतोष्णादथ कालेषु तुहि न द्रुमकण्टके ।

निर्मनुष्येऽसमे मार्गे त्राहि मां वृषभध्वज ॥ 10 ॥

इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् ।

महादेवप्रसादेन दूर्वासो मुनिकल्पितम् ॥ 11 ॥

ममाख्यातं समासेन न भयं विन्दति क्वचित् ।

प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम् ॥ 12 ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥ 13 ॥

अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।

त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥ 14 ॥

त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरन्तक ।

पाशं खट्वाङ्ग दिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥ 15 ॥

नमस्करोमि देवेश त्राहि मां जगदीश्वर ।

शत्रुमध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥ 16 ॥

गमनागमने चैव त्राहि मां भक्तवत्सल ।

त्वं चित्तं त्वं मानसं च त्वं बुद्धिस्त्वं परायणम् ॥ 17 ॥

कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा ।

ज्वरभयं छिन्दि सर्वज्वरभयं छिन्दि ग्रहभयं छिन्दि ॥ 18 ॥

सर्वशत्रून्निवर्त्यापि सर्वव्याधिनिवारणम् ।

रुद्रलोकं स गच्छति रुद्रलोकं सगच्छत्योन्नम इति ॥ 19 ॥

इति स्कन्दपुराणे दूर्वास प्रोक्तं श्री रुद्रकवचम् ॥

About This Stotram

Overview

Sri Rudra Kavacham is a kavacham (armor hymn) of 19 verses dedicated to Lord Shiva in his fierce Rudra form. A kavacham is a set of mantras recited to invoke divine protection over the body. This text draws on Vedic imagery of Rudra as a protective deity and belongs to the Shaiva tradition.

What are the benefits of chanting Sri Rudra Kavacham?

  • Recitation is said to create a protective shield against fear and danger.
  • It is used to ward off negative energies and harmful influences.
  • Devotees chant it for strength and courage in difficult situations.
  • It supports spiritual practice by removing obstacles.
  • Regular recitation is associated with fulfillment of sincere requests.

When is the best time to recite this?

Sri Rudra Kavacham is recited during morning and evening prayers. It is particularly recited during Maha Shivaratri, the Shravana month, and before undertaking challenging tasks. Devotees also recite it during Rudra Abhishekam and other Shiva pujas.

Historical and traditional background

The worship of Rudra as a protective deity originates in the Vedic period. The Rudram hymns in the Taittiriya Aranyaka of the Krishna Yajurveda are the foundational source for Rudra-related prayers. Kavachams as a genre developed over centuries within Shaiva and Tantric traditions. This specific 19-verse version is a recension that has gained use in certain Shaiva devotional lineages. The author is not recorded.

Available scripts

This text is available in 14 scripts: Devanagari, Tamil, Telugu, Kannada, Malayalam, Gujarati, Bengali, IAST, Gurmukhi, Oriya, Assamese, Sinhala, ITRANS, HK. Use the script selector to read it in your preferred script.

Related Texts

  • Sri Rudram Namakam — the core Vedic hymn to Rudra, which this kavacham supplements.
  • Maha Mrityunjaya Mantra — another Shaiva protective mantra recited alongside kavachams.