Kavacham - Sacred Scripture

Aditya Kavacham

Aditya Kavacham

Kavacham
Unknown
0 Verses
110%

आदित्य कवचम्

श्लोक 1

अस्य श्री आदित्यकवचस्तोत्रमहामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानं

जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम्

सिन्दूराम्बरमाल्यं च रक्तगन्धानुलेपनम् ।

माणिक्यरत्नखचित-सर्वाभरणभूषितम्

सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥

देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ।

ध्यायेत्पठेत्सुवर्णाभं सूर्यस्य कवचं मुदा ॥

कवचं

घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।

आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥

घ्राणं पातु सदा भानुः मुखं पातु सदारविः ।

जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥

स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।

करावब्जकरः पातु हृदयं पातु नभोमणिः ॥

द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ।

ऊरू पातु सुरश्रेष्टो जानुनी पातु भास्करः ॥

जङ्घे मे पातु मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः ।

पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥

आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् ।

सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥

संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।

अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् ।

आदित्य मण्डल स्तुतिः –

अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणम् ।

कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् ॥

सिन्दूरवर्णाय सुमण्डलाय

सुवर्णरत्नाभरणाय तुभ्यम् ।

पद्मादिनेत्रे च सुपङ्कजाय

ब्रह्मेन्द्र-नारायण-शङ्कराय ॥

संरक्तचूर्णं ससुवर्णतोयं

सकुङ्कुमाभं सकुशं सपुष्पम् ।

प्रदत्तमादाय च हेमपात्रे

प्रशस्तनादं भगवन् प्रसीद ॥

इति आदित्यकवचम् ।