Kavacham - Sacred Scripture

Rahu Kavacham

Rahu Kavacham

Kavacham
Unknown
7 Verses
110%

राहु कवचम्

श्लोक 1

ध्यानम्

प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।

सैंहिकेयं करालास्यं लोकानामभयप्रदम्

श्लोक 2

। अथ राहु कवचम् ।

नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।

चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान्

॥ 1॥

श्लोक 3

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।

जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः

॥ 2॥

श्लोक 4

भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ।

पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः

॥ 3॥

श्लोक 5

कटिं मे विकटः पातु ऊरू मे सुरपूजितः ।

स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा

॥ 4॥

श्लोक 6

गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।

सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः

॥ 5॥

श्लोक 7

फलश्रुतिः

राहोरिदं कवचमृद्धिदवस्तुदं यो

भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ।

प्राप्नोति कीर्तिमतुलां श्रियमृद्धि-

मायुरारोग्यमात्मविजयं च हि तत्प्रसादात्

॥ 6॥

श्लोक 8

॥ इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ॥