Stotram - Sacred Scripture

Budha Graha Pancharatna Stotram

Budha Graha Pancharatna Stotram

Stotram
Unknown
0 Verses
110%

बुध ग्रह पञ्चरत्न स्तोत्रम्

श्लोक 1

प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ 1

आत्रेय गोत्रजो अत्यन्त विनयो विश्वपावनः ।

चाम्पेय पुष्प सङ्काश श्चारण श्चारुभूषणः॥ 2

सत्यवाक् सत्ससङ्कल्प सत्यबन्धु स्सदादरः ।

सर्वरोग प्रशमन स्सर्व मृत्युनिवारकः ॥ 3

सिंहारूढं चतुर्भुजां खड्गं चर्म गदाधरम् ।

सोमपुत्रं महासौम्यं ध्यायेत् सर्वार्थ सिद्धदम् ॥ 4

बुधोबुधार्चित सौम्यसौम्यः चित्त श्शुभप्रदः ।

वरदाङ्कित मुद्रितं देवं तं सौम्यं प्रणमाम्यहम् ॥ 5