Kavacham - Sacred Scripture

Varahi Kavacham

Varahi Kavacham

Kavacham
Unknown
15 Verses
110%

वाराही कवचम्

श्लोक 1

अस्य श्रीवाराहीकवचस्य त्रिलोचन ऋषिः, अनुष्टुप् छन्दः, श्रीवाराही देवता, ॐ बीजं, ग्लौं शक्तिः, स्वाहेति कीलकं, मम सर्वशत्रुनाशनार्थे जपे विनियोगः ॥

ध्यानम् ।

ध्यात्वेन्द्रनीलवर्णाभां चन्द्रसूर्याग्निलोचनाम् ।

विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम्

श्लोक 2

ज्वलन्मणिगणप्रोक्तमकुटामाविलम्बिताम् ।

अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च

॥ 1 ॥

श्लोक 3

एतैः समस्तैर्विविधं बिभ्रतीं मुसलं हलम् ।

पात्वा हिंस्रान् हि कवचं भुक्तिमुक्तिफलप्रदम्

॥ 2 ॥

श्लोक 4

पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् ।

वार्ताली मे शिरः पातु घोराही फालमुत्तमम्

॥ 3 ॥

श्लोक 5

नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी ।

घ्राणं मे रुन्धिनी पातु मुखं मे पातु जम्भिनी

॥ 4 ॥

श्लोक 6

पातु मे मोहिनी जिह्वां स्तम्भिनी कण्ठमादरात् ।

स्कन्धौ मे पञ्चमी पातु भुजौ महिषवाहना

॥ 5 ॥

श्लोक 7

सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता ।

नाभिं च शङ्खिनी पातु पृष्ठदेशे तु चक्रिणि

॥ 6 ॥

श्लोक 8

खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी ।

गुदं मे क्रोधिनी पातु जघनं स्तम्भिनी तथा

॥ 7 ॥

श्लोक 9

चण्डोच्चण्डश्चोरुयुग्मं जानुनी शत्रुमर्दिनी ।

जङ्घाद्वयं भद्रकाली महाकाली च गुल्फयोः

॥ 8 ॥

श्लोक 10

पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी ।

सर्वाङ्गं मे सदा पातु कालसङ्कर्षणी तथा

॥ 9 ॥

श्लोक 11

युक्तायुक्तस्थितं नित्यं सर्वपापात्प्रमुच्यते ।

सर्वे समर्थ्य संयुक्तं भक्तरक्षणतत्परम्

॥ 10 ॥

श्लोक 12

समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने ।

सर्वशत्रुविनाशाय शूलिना निर्मितं पुरा

॥ 11 ॥

श्लोक 13

सर्वभक्तजनाश्रित्य सर्वविद्वेषसंहतिः ।

वाराही कवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः

॥ 12 ॥

श्लोक 14

तथा विधं भूतगणा न स्पृशन्ति कदाचन ।

आपदः शत्रुचोरादि ग्रहदोषाश्च सम्भवाः

॥ 13 ॥

श्लोक 15

माता पुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् ।

तथाङ्गमेव वाराही रक्षा रक्षाति सर्वदा

॥ 14 ॥

श्लोक 16

इति श्रीरुद्रयामलतन्त्रे श्री वाराही कवचम् ॥