Stotram - Sacred Scripture

Adi Varahi Stotram

Adi Varahi Stotram

Stotram
Unknown
10 Verses
110%

आदि वाराही स्तोत्रम्

श्लोक 1

नमोऽस्तु देवी वाराही जयैकारस्वरूपिणि ।

जपित्वा भूमिरूपेण नमो भगवती प्रिये

श्लोक 2

जय क्रोडास्तु वाराही देवी त्वं च नमाम्यहम् ।

जय वाराहि विश्वेशी मुख्यवाराहि ते नमः

॥ 1 ॥

श्लोक 3

मुख्यवाराहि वन्दे त्वां अन्धे अन्धिनि ते नमः ।

सर्वदुष्टप्रदुष्टानां वाक्‍स्तम्भनकरी नमः

॥ 2 ॥

श्लोक 4

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।

रुन्धे रुन्धिनि वन्दे त्वां नमो देवी तु मोहिनी

॥ 3 ॥

श्लोक 5

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।

बाह्वोः स्तम्भकरी वन्दे त्वां जिह्वास्तम्भकारिणी

॥ 4 ॥

श्लोक 6

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।

शीघ्रं वश्यं च कुरुते योऽग्नौ वाचात्मिके नमः

॥ 5 ॥

श्लोक 7

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।

होमात्मके फड्रूपेण जय आद्यानने शिवे

॥ 6 ॥

श्लोक 8

देहि मे सकलान् कामान् वाराही जगदीश्वरी ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः

॥ 7 ॥

श्लोक 9

इदमाद्यानना स्तोत्रं सर्वपापविनाशनम् ।

पठेद्यः सर्वदा भक्त्या पातकैर्मुच्यते तथा

॥ 8 ॥

श्लोक 10

लभन्ते शत्रवो नाशं दुःखरोगापमृत्यवः ।

महदायुष्यमाप्नोति अलक्ष्मीर्नाशमाप्नुयात्

॥ 9 ॥

श्लोक 11

इति श्री आदिवाराही स्तोत्रम् ।

आदि वाराही स्तोत्रम् | (Adi Varahi Stotram) Lyrics | Vedic Tithi