Stotram - Sacred Scripture

Sri Swarna Akarshana Bhairava Stotram

Sri Swarna Akarshana Bhairava Stotram

Stotram
Kala Bhairava
39 Verses
110%

श्री स्वर्ण आकर्षण भैरव स्तोत्रम्

श्लोक 1

ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥

ऋष्यादि न्यासः ।

ब्रह्मर्षये नमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

स्वर्णाकर्षण भैरवाय नमः हृदि ।

ह्रीं बीजाय नमः गुह्ये ।

क्लीं शक्तये नमः पादयोः ।

सः कीलकाय नमः नाभौ ।

विनियॊगाय नमः सर्वाङ्गे ।

ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥

ध्यानम् ।

पारिजातद्रुम कान्तारे स्थिते माणिक्यमण्डपे ।

सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥

गाङ्गेय पात्रं डमरूं त्रिशूलं

वरं करः सन्दधतं त्रिनेत्रम् ।

देव्यायुतं तप्त सुवर्णवर्ण

स्वर्णाकर्षणभैरवमाश्रयामि ॥

मन्त्रः ।

ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।

स्तोत्रम् ।

नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।

नमस्त्रैलोक्यवन्द्याय वरदाय परात्मने

श्लोक 2

रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।

दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये

॥ 1 ॥

श्लोक 3

नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।

नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः

॥ 2 ॥

श्लोक 4

नमस्तेऽनेककण्ठाय ह्यनेकांशाय ते नमः ।

नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे

॥ 3 ॥

श्लोक 5

अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।

अनेकगुणयुक्ताय महादेवाय ते नमः

॥ 4 ॥

श्लोक 6

नमो दारिद्र्यकालाय महासम्पत्प्रदायिने ।

श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः

॥ 5 ॥

श्लोक 7

दिगम्बर नमस्तुभ्यं दिगीशाय नमो नमः ।

नमोऽस्तु दैत्यकालाय पापकालाय ते नमः

॥ 6 ॥

श्लोक 8

सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।

अजिताय नमस्तुभ्यं जितामित्राय ते नमः

॥ 7 ॥

श्लोक 9

नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।

नमस्ते वीरवीराय महावीराय ते नमः

॥ 8 ॥

श्लोक 10

नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ।

नमस्ते घोरघोराय विश्वघोराय ते नमः

॥ 9 ॥

श्लोक 11

नमः उग्राय शान्ताय भक्तेभ्यः शान्तिदायिने ।

गुरवे सर्वलोकानां नमः प्रणव रूपिणे

॥ 10 ॥

श्लोक 12

नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।

नमस्ते कामराजाय योषित्कामाय ते नमः

॥ 11 ॥

श्लोक 13

दीर्घमायास्वरूपाय महामायापते नमः ।

सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने

॥ 12 ॥

श्लोक 14

रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।

नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते

॥ 13 ॥

श्लोक 15

नमो नमो भैरवाय महादारिद्र्यनाशिने ।

उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः

॥ 14 ॥

श्लोक 16

नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ।

नमः श्रीबीजरूपाय सर्वकामप्रदायिने

॥ 15 ॥

श्लोक 17

नमो महाभैरवाय श्रीरूपाय नमो नमः ।

धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः

॥ 16 ॥

श्लोक 18

नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।

नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे

॥ 17 ॥

श्लोक 19

नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।

नमः सुवर्णवर्णाय महापुण्याय ते नमः

॥ 18 ॥

श्लोक 20

नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।

नमो देवाय गुह्याय प्रबलाय नमो नमः

॥ 19 ॥

श्लोक 21

नमस्ते बलरूपाय परेषां बलनाशिने ।

नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने

॥ 20 ॥

श्लोक 22

नमः पातालवासाय निराधाराय ते नमः ।

नमो नमः स्वतन्त्राय ह्यनन्ताय नमो नमः

॥ 21 ॥

श्लोक 23

द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।

नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः

॥ 22 ॥

श्लोक 24

पूर्णचन्द्रप्रतीकाशवदनाम्भोजशोभिने ।

नमस्ते स्वर्णरूपाय स्वर्णालङ्कारशोभिने

॥ 23 ॥

श्लोक 25

नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।

नमस्ते स्वर्णकण्ठाय स्वर्णालङ्कारधारिणे

॥ 24 ॥

श्लोक 26

स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।

नमः स्वर्णाभपाराय स्वर्णकाञ्चीसुशोभिने

॥ 25 ॥

श्लोक 27

नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने ।

नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे

॥ 26 ॥

श्लोक 28

चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ।

कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने

॥ 27 ॥

श्लोक 29

नमो हेमादिकर्षाय भैरवाय नमो नमः ।

स्तवेनानेन सन्तुष्टो भव लोकेशभैरव

॥ 28 ॥

श्लोक 30

पश्य मां करुणाविष्ट शरणागतवत्सल ।

श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।

प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा

॥ 29 ॥

श्लोक 31

फलश्रुतिः

श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।

मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम्

॥ 30 ॥

श्लोक 32

यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।

लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात्

॥ 31 ॥

श्लोक 33

चिन्तामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।

स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः

॥ 32 ॥

श्लोक 34

सन्ध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।

स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः

॥ 33 ॥

श्लोक 35

स्वर्णराशि ददात्येव तत्‍क्षणान्नास्ति संशयः ।

सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः

॥ 34 ॥

श्लोक 36

लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।

न भयं लभते क्वापि विघ्नभूतादिसम्भव

॥ 35 ॥

श्लोक 37

म्रियन्ते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।

अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः

॥ 36 ॥

श्लोक 38

अष्टपञ्चाशताणढ्यो मन्त्रराजः प्रकीर्तितः ।

दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः

॥ 37 ॥

श्लोक 39

य येन सञ्जपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।

महाभैरवसायुज्यं स्वान्तकाले भवेद्ध्रुवम्

॥ 38 ॥

श्लोक 40

इति रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥

श्री स्वर्ण आकर्षण भैरव स्तोत्रम् | (Sri Swarna Akarshana Bhairava Stotram) Lyrics | Vedic Tithi