Namavali - Sacred Scripture

Sri Batuka Bhairava Ashtottara Sata Namavali

Sri Batuka Bhairava Ashtottara Sata Namavali

Namavali
Kala Bhairava
0 Verses
110%

श्री बटुक भैरव अष्टोत्तर शत नामावलि

श्लोक 1

ॐ भैरवाय नमः ।

ॐ भूतनाथाय नमः ।

ॐ भूतात्मने नमः ।

ॐ भूतभावनाय नमः ।

ॐ क्षेत्रदाय नमः ।

ॐ क्षेत्रपालाय नमः ।

ॐ क्षेत्रज्ञाय नमः ।

ॐ क्षत्रियाय नमः ।

ॐ विराजे नमः ।

ॐ श्मशानवासिने नमः । 10 ।

ॐ मांसाशिने नमः ।

ॐ खर्पराशिने नमः ।

ॐ मखान्तकृते नमः । [स्मरान्तकाय]

ॐ रक्तपाय नमः ।

ॐ प्राणपाय नमः ।

ॐ सिद्धाय नमः ।

ॐ सिद्धिदाय नमः ।

ॐ सिद्धसेविताय नमः ।

ॐ करालाय नमः ।

ॐ कालशमनाय नमः । 20 ।

ॐ कलाकाष्ठातनवे नमः ।

ॐ कवये नमः ।

ॐ त्रिनेत्राय नमः ।

ॐ बहुनेत्राय नमः ।

ॐ पिङ्गललोचनाय नमः ।

ॐ शूलपाणये नमः ।

ॐ खड्गपाणये नमः ।

ॐ कङ्कालिने नमः ।

ॐ धूम्रलोचनाय नमः ।

ॐ अभीरवे नमः । 30 ।

ॐ भैरवाय नमः ।

ॐ भैरवीपतये नमः । [भीरवे]

ॐ भूतपाय नमः ।

ॐ योगिनीपतये नमः ।

ॐ धनदाय नमः ।

ॐ धनहारिणे नमः ।

ॐ धनपाय नमः ।

ॐ प्रतिभाववते नमः । [प्रीतिवर्धनाय]

ॐ नागहाराय नमः ।

ॐ नागकेशाय नमः । 40 ।

ॐ व्योमकेशाय नमः ।

ॐ कपालभृते नमः ।

ॐ कालाय नमः ।

ॐ कपालमालिने नमः ।

ॐ कमनीयाय नमः ।

ॐ कलानिधये नमः ।

ॐ त्रिलोचनाय नमः ।

ॐ ज्वलन्नेत्राय नमः ।

ॐ त्रिशिखिने नमः ।

ॐ त्रिलोकभृते नमः । 50 ।

ॐ त्रिवृत्तनयनाय नमः ।

ॐ डिम्भाय नमः

ॐ शान्ताय नमः ।

ॐ शान्तजनप्रियाय नमः ।

ॐ वटुकाय नमः ।

ॐ वटुकेशाय नमः ।

ॐ खट्वाङ्गवरधारकाय नमः ।

ॐ भूताध्यक्षाय नमः ।

ॐ पशुपतये नमः ।

ॐ भिक्षुकाय नमः । 60 ।

ॐ परिचारकाय नमः ।

ॐ धूर्ताय नमः ।

ॐ दिगम्बराय नमः ।

ॐ सौरिणे नमः । [शूराय]

ॐ हरिणे नमः ।

ॐ पाण्डुलोचनाय नमः ।

ॐ प्रशान्ताय नमः ।

ॐ शान्तिदाय नमः ।

ॐ शुद्धाय नमः ।

ॐ शङ्करप्रियबान्धवाय नमः । 70 ।

ॐ अष्टमूर्तये नमः ।

ॐ निधीशाय नमः ।

ॐ ज्ञानचक्षुषे नमः ।

ॐ तमोमयाय नमः ।

ॐ अष्टाधाराय नमः ।

ॐ कलाधाराय नमः । [षडाधाराय]

ॐ सर्पयुक्ताय नमः ।

ॐ शशीशिखाय नमः ।

ॐ भूधराय नमः ।

ॐ भूधराधीशाय नमः । 80 ।

ॐ भूपतये नमः ।

ॐ भूधरात्मकाय नमः ।

ॐ कङ्कालधारिणे नमः ।

ॐ मुण्डिने नमः ।

ॐ व्यालयज्ञोपवीतवते नमः । [नाग]

ॐ जृम्भणाय नमः ।

ॐ मोहनाय नमः ।

ॐ स्तम्भिने नमः ।

ॐ मारणाय नमः ।

ॐ क्षोभणाय नमः । 90 ।

ॐ शुद्धनीलाञ्जनप्रख्यदेहाय नमः ।

ॐ मुण्डविभूषिताय नमः ।

ॐ बलिभुजे नमः ।

ॐ बलिभुतात्मने नमः ।

ॐ कामिने नमः । [बालाय]

ॐ कामपराक्रमाय नमः । [बाल]

ॐ सर्वापत्तारकाय नमः ।

ॐ दुर्गाय नमः ।

ॐ दुष्टभूतनिषेविताय नमः ।

ॐ कामिने नमः । 100 ।

ॐ कलानिधये नमः ।

ॐ कान्ताय नमः ।

ॐ कामिनीवशकृते नमः ।

ॐ वशिने नमः ।

ॐ सर्वसिद्धिप्रदाय नमः ।

ॐ वैद्याय नमः ।

ॐ प्रभविष्णवे नमः ।

ॐ प्रभाववते नमः । 108 ।

इति श्री बटुकभैरवाष्टोत्तरशतनामावली ।